Tantraloka by Abhinavagupta
In Sanscrito:
CAP.1 - CAP.2 - CAP.3 - CAP.4 - CAP.5 - CAP.6 - CAP.7 - CAP.8 - CAP.9 - CAP.10 CAP.11 - CAP.12 - CAP.13 - CAP.14 - CAP.15 - CAP.16 - CAP.17 - CAP.18 - CAP.19 - CAP.20 CAP.21 - CAP.22 - CAP.23 - CAP.24 - CAP.25 - CAP.26 - CAP.27 - CAP.28 - CAP.29 - CAP.30 CAP.31 - CAP.32 - CAP.33 - CAP.34 - CAP.35 - CAP.36 - CAP.37 - Testo translitterato
TANTRALOKA SANSCRITO
अथ श्रीतन्त्रालोके अष्टममाह्निकं
देशाध्वनोऽप्यथ समासविकासयोगात्संगीयते विधिरयं शिवशास्त्रदृष्टः ॥१॥ विचारितोऽयं कालाध्वा क्रियाशक्तिमयः प्रभोः । मूर्तिवैचित्र्यजस्तज्जो देशाध्वाथ निरूप्यते ॥२॥ अध्वा समस्त एवायं चिन्मात्रे संप्रतिष्ठितः । यत्तत्र नहि विश्रान्तं तन्नभःकुसुमायते ॥३॥ संविद्द्वारेण तत्सृष्टे शून्ये धियि मरुत्सु च । नाडीचक्रानुचक्रेषु बर्हिर्देहे ̕ध्वसंस्थितिः ॥४॥ तत्राध्वैवं निरूप्योऽयं यतस्तत्प्रक्रियाक्रमम् । अनुसंदधदेव द्राग् योगी भैरवतां व्रजेत् ॥५॥ दिदृक्षयैव सर्वार्थान् यदा व्याप्यावतिष्ठते । तदा किं बहुनोक्तेन इत्युक्तं स्पन्दशासने ॥६॥ ज्ञात्वा समस्तमध्वानं तदीशेषु विलापयेत् । तान् देहप्राणधीचक्रे पूर्ववद् गालयेत्क्रमात् ॥७॥ तत्समस्तं स्वसंवित्तौ सा संविद्भरितात्मिका । उपास्यमाना संसारसागरप्रलयानलः ॥८॥ श्रीमहीक्षोत्तरे चैतानध्वेशान् गुरुरब्रवीत् । ब्रह्मानन्तात्प्रधानान्तं विष्णुः पुंसः कलान्तगम् ॥९॥ रुद्रो ग्रन्थौ च मायायामीशः सादाख्यगोचरे । अनाश्रितः शिवस्तस्माद्व्याप्ता तद्व्यापकः परः ॥१०॥ एवं शिवत्वमापन्नमिति मत्वा न्यरूप्यत । न प्रक्रियापरं ज्ञानमिति स्वच्छन्दशासने ॥ ११॥ त्रिशिरःशासने बोधो मूलमध्याग्रकल्पितः । षट्त्रिंशत्तत्त्वसंरम्भः स्मृतिर्भेदविकल्पना ॥१२॥ अव्याहतविभागो ̕स्मिभावो मूलं तु बोधगम् । समस्ततत्त्वभावोऽयं स्वात्मन्येवाविभागकः ॥१३॥ बोधमध्यं भवेत्किंचिदाधाराधेयलक्षणम् । तत्त्वभेदविभागेन स्वभावस्थितिलक्षणम् ॥१४॥ बोधाग्रं तत्तु विद्बोधं निस्तरङ्गं बृहत्सुखम् । संविदेकात्मतानीतभूतभावपुरादिकः ॥१५॥ अव्यवच्छिन्नसंवित्तिर्भैरवः परमेश्वरः । श्रीदेव्यायामले चोक्तं षट्त्रिंशत्तत्त्वसुन्दरम् ॥१६॥ अध्वानं षड्विधं ध्यायन्सद्यः शिवमयो भवेत् । यद्यप्यमुष्य नाथस्य संवित्त्यनतिरेकिणः ॥१७॥ पूर्णस्योर्ध्वादिमध्यान्तव्यवस्था नास्ति वास्तवी । तथापि प्रतिपत्तॄणां प्रतिपादयितुस्तथा ॥१८॥ स्वस्वरूपानुसारेण मध्यादित्वादिकल्पनाः । ततः प्रमातृसंकल्पनियमात् पार्थिवं विदुः ॥१९॥ तत्त्वं सर्वान्तरालस्थं यत्सर्वावरणैर्वृतम् । तदत्र पार्थिवे तत्त्वे कथ्यते भुवनस्थितिः ॥२०॥ नेता कटाहरुद्राणामनन्तः कामसेविनाम् । पोतारूढो जलस्यान्तर्मद्यपानविघूर्णितः ॥२१॥ स देवं भैरवं ध्यायन् नागैश्च परिवारितः । कालाग्रेर्भुवनं चोर्ध्वे कोटियोजनमुच्छ्रितम् ॥२२॥ लोकानां भस्मसाद्भावभयान्नोर्ध्व स वीक्षते । स च व्याप्तापि विश्वस्य यस्मात्प्लुष्यन्निमां भुवम् ॥२३॥ नरकेभ्यः पुरा व्यक्तस्तेनासौ तदधो मतः । दश कोट्यो विभोर्ज्वाला तदर्ध शून्यमूर्ध्वतः ॥२४॥ तदूर्ध्वे नरकाधीशाः क्रमाद्दुःखैकवेदनाः । श्धो मध्ये तदूर्ध्वे च स्थिता भेदान्तरैर्वृताः ॥२५॥ अवीचिकुम्भीपाकाख्यरौरवास्तेष्वनुक्रमात् । एकादशैकादश च दशेत्यन्तः शराग्नि तत् ॥२६॥ प्रत्येकमेषामेकोना कोटिरुच्छ्रितिरन्तरम् । लक्षमत्र खवेदास्यसंख्यानामन्तरा स्थितिः ॥२७॥ कूष्माण्ड ऊर्ध्वे लक्षोनकोटिस्थानस्तदीशिता । शास्त्रविरुद्धाचरणात् कृष्णं ये कर्म विदधते ॥२८॥ तत्र भीमैर्लोकपुरुषैः पीड्यन्ते भोगपर्यन्तम् । ये सकृदपि परमेशं शिवमेकाग्रेण चेतसा शरणम् ॥२९॥ यान्ति न ते नरकयुजः कृष्णं तेषां सुखाल्पतादायि । सहस्रनवकोत्सेधमेकान्तरमथ क्रमात् ॥३०॥ पातालाष्टकमेकैकमष्टमे हाटकः प्रभुः । प्रतिलोकं नियुक्तात्मा श्रीकण्ठो हठतो बहूः ॥३१॥ सिद्धीर्ददात्यसावेवं श्रीमद्रौरवशासने । व्रतिनो ये चिकर्मस्था निषिद्धाचारकारिणः ॥३२॥ दीक्षिता अपि ये लुप्तसमया नच कुर्वते । प्रायश्चित्तांस्तथा तत्स्था वामाचारस्य दूषकाः ॥३३॥ देवाग्निद्रव्यवृत्त्यंशजीविनश्चोत्तमस्थिताः । अधःस्थगारुडाद्यन्यमन्त्रसेवापरायणाः ॥३४॥ ते हाटकविभोरग्रे किङ्करा विविधात्मकाः । ते तु तत्रापि देवेशं भक्त्या चेत्पर्युपासते ॥३५॥ तदीशतत्त्वे लीयन्ते क्रमाच्च परमे शिवे । अन्यथा ये तु वर्तन्ते तद्भोगनिरतात्मकाः ॥३६॥ ते कालवह्निसंतापदीनाक्रन्दपरायणाः । गुणतत्त्वे निलीयन्ते ततः सृष्टिमुखे पुनः ॥३७॥ पात्यन्ते मातृभिर्घोरयातनौघपुरस्सरम् । अधमाधमदेहेषु निजकर्मानुरूपतः ॥३८॥ मानुषान्तेषु तत्रापि केचिन्मन्त्रविदः क्रमात् । मुच्यन्तेऽन्ये तु बध्यन्ते पूर्वकृत्यानुसारतः ॥३९॥ इत्येष गणवृत्तान्तो नाम्ना हुलहुलादिना । प्रोक्तं भगवता श्रीमदानन्दाधिकशासने ॥४०॥ पातालोर्ध्वे सहस्राणि विंशतिर्भूकटाहकः । सिद्धातन्त्रे तु पातालपृष्ठे यक्षीसमावृतम् ॥४१॥ भद्रकाल्याः पुरं यत्र ताभिः क्रीडन्ति साधकाः । ततस्तमस्तप्तभूमिस्ततःशून्यं ततोऽहयः ॥४२॥ एतानि यातनास्थानं गुरुमन्त्रादिदूषिणाम् । ततो भूम्यूर्ध्व [मध्य] तो मेरुः सहस्राणि स षोडश ॥४३॥ मग्नस्तन्मूलविस्तारस्तद्द्वयेनोर्ध्वविस्तृतिः । सहस्राब्धिवसूच्छ्रायो हैमः सर्वामरालयः ॥४४॥ मध्योर्ध्वाधः समुद्वृत्तशरावचतुरश्रकः । भैरवीयं च तल्लिङ्गं धरणी चास्य पीठिका ॥४५॥ सर्वे देवा निलीना हि तत्र तत्पूजितं सदा । मध्ये मेरुसभा धातुस्तदीशदिशि केतनम् ॥४६॥ ज्योतिष्कशिखरं शंभोः श्रीकण्ठांशश्च स प्रभुः । अवरुह्य सहस्राणि मनोवत्याश्चतुर्दश ॥४७॥ चक्रवाटश्चतुर्दिक्को मेरुरत्र तु लोकपाः । अमरावतिकेन्द्रस्य पूर्वस्यां दक्षिणेन ताम् ॥४८॥ अत्सरःसिद्धसाध्यास्तामुत्तरेण विनायकाः । तेजोवती स्वदिश्यग्नेः पुरी तां पश्चिमेन तु ॥४९॥ विश्वेदेवा विश्वकर्मा क्रमात्तदनुगाश्च ये । याम्यां संयमनी तां तु पश्चिमेन क्रमात् स्थिताः ॥५०॥ मातृनन्दा स्वसंख्याता रुद्रास्तत्साधकास्तथा । कृष्णाङ्गारा निरृतिश्च तां पूर्वेण पिशाचकाः॥५१॥ रक्षांसि सिद्धगन्धर्वास्तूत्तरेणोत्तरेण ताम् । वारुणी शुद्धवत्याख्या भूतौघो दक्षिणेन ताम् ॥५२॥ उत्तरेणोत्तरेणैनां वसुविद्याधराः क्रमात् । वायोर्गन्धवती तस्या दक्षिणे किन्नराः पुनः ॥५३॥ वीणासरस्वती देवी नारदस्तुम्बुरुस्तथा । महोदयेन्दोर्गुह्याः स्युः पश्चिमेऽस्याः पुनः पुनः ॥५४॥ कुबेरः कर्मदेवाश्च तथा तत्साधका अपि । यशस्विनी महेशस्य तस्याः पश्चिमतो हरिः ॥५५॥ दक्षिणे दक्षिणे ब्रह्माश्विनौ धन्वन्तरिः क्रमात् । मैरवे चक्रवाटे ̕स्मिन्नेवं मुख्याः पुरोऽष्टधा ॥५६॥ अन्तरालगतास्त्वन्याः पुनः षड्विंशतिः स्मृताः । इष्टापूर्तरताः पुण्ये वर्षेये भारते नराः ॥५७॥ ते मेरुगाः सकृच्छम्भुं ये वार्चन्ति यथोचितम् । मेरोः प्रदक्षिणाप्योदग्दिक्षु विष्कम्भपर्वताः ॥५८॥ मन्दरो गन्धमादश्च विपुलो ̕थ सुपार्श्वकः । सितपीतनीलरक्तास्ते क्रमात्पादपर्वताः ॥५९॥ एतैर्भुवमवष्टभ्य मेरुस्तिष्ठति निश्चलः । चैत्ररथनन्दनाख्ये वैश्राजं पितृवनं वनान्याहुः ॥६०॥ रक्तोदमानससितं भद्रं चैतच्चतुष्टयं सरसाम् । वृक्षाः कदम्बजम्ब्वश्वत्थन्यग्रोधकाः क्रमशः ॥६१॥ एषु च चतुर्ष्वचलेषु त्रयं त्रयं क्रमश एतदाम्नातम् । मेर्वधो लवणाब्ध्यन्तं जम्बुद्वीपः समन्ततः ॥६२॥ लक्षमात्रः स नवधा जातो मर्यादपर्वतैः । निषधो हेमकूटश्च हिमवान्दक्षिणे त्रयः ॥६३॥ लक्षं सहस्रनवतिस्तदशीतिरिति क्रमात् । नीलः श्वेतस्त्रिशृङ्गश्च तावन्तः सव्यतः पुनः ॥६४॥ मेरोः षडेते मर्यादाचलाः पूर्वापरायताः । पूर्वतो माल्यवान्पश्चाद्गन्धमादनसंज्ञितः ॥६५॥ सव्योत्तरायतौ तौ तु चतुस्त्रिंशत्सहस्रकौ । अष्टावेते ततो ̕प्यन्यौ द्वौ द्वौ पूर्वादिषु क्रमात् ॥६६॥ जाठरः कूटहिमवद्यात्रजारुधिशृङ्गिणः । एवं स्थितो विभागोऽत्र वर्षसिद्ध्यै निरूप्यते ॥६७॥ समन्ताच्चक्रवाटाधोऽनर्केन्दु चतुरश्रकम् । सहस्रनवविस्तीर्णमिलाख्यं त्रिमुखायुषम् ॥६८॥ मेरोः पश्चिमतो गन्धमादो यस्तस्य पश्चिमे । केतुमालं कुलाद्रीणां सप्तकेन विभूषितम् ॥६९॥ मेरोः पूर्व माल्यवान्यो भद्राश्वस्तस्य पूर्वतः । सहस्रदशकायुस्तत्सपञ्चकुलपर्वतम् ॥७०॥ पूर्वपश्चिमतः सव्योत्तरतश्च क्रमादिमे । द्वात्रिंशच्च चतुस्त्रिंशत्सहस्राणि निरूपिते ॥७१॥ मेरोरुदक् शृङ्गवान्यस्तद्बहिः कुरुवर्षकम् । चापवन्नवसाहस्रमायुस्तत्र त्रयोदश ॥७२॥ कुरुवर्षस्योत्तरेऽथ वायव्येऽब्धौ क्रमाच्छराः । दश चेति सहस्राणि द्वीपौ चन्द्रोऽथ भद्रकः ॥७३॥ यौ श्वेतशृङ्गिणौ मेरोर्वामे मध्ये हिरण्मयम् । तयोर्नवकविस्तीर्णमायुश्चार्धत्रयोदश ॥७४॥ तत्र वै वामतः श्वेतनीलयो रम्यकोऽन्तरे । सहस्रनवविस्तीर्णमायुर्द्वादश तानि च ॥७५॥ मेरोर्दक्षिणतो हेमनिषधौ यौ तदन्तरे । हर्याख्यं नवसाहस्रं तत्सहस्राधिकायुषम् ॥७६॥ तत्रैव दक्षिणे हेमहिमवद्द्वितयान्तरे । कैन्नरं नवसाहस्रं तत्सहस्राधिकायुषम् ॥७७॥ तत्रैव दक्षिणे मेरोर्हिमवान्यस्य दक्षिणे । भारतं नवसाहस्रं चापवत्कर्मभोगभूः ॥७८॥ इलावृतं केतुभद्रं कुरुहैरण्यरम्यकम् । हरिकिन्नरवर्षे च भोगभूर्न तु कर्मभूः ॥७९॥ अत्र बाहुल्यतः कर्मभूभावोऽत्राप्यकर्मणाम् । पशूनां कर्मसंस्कारः स्यात्तादृग्दृढसंस्कृतेः ॥८०॥ संभवन्त्यप्यसंस्कारा भारतेऽन्यत्र चापि हि । दृढप्राक्तनसंस्कारादीशेच्छातः शुभाशुभम् ॥८१॥ स्थानान्तरे ̕पि कर्मास्ति दृष्टं तच्च पुरातने । तत्र त्रेता सदा कालो भारते तु चतुर्युगम् ॥८२॥ भारते नवखण्डं च सामुद्रेणाम्भसात्र च । स्थलं पञ्चशती तद्वज्जलं चेति विभज्यते ॥८३॥ इन्द्रः कशेरुस्ताम्राभो नागीयः प्राग्गभस्तिमान् । सौम्यगान्धर्ववाराहाः कन्याख्यं चासमुद्रतः ॥८४॥ कन्याद्वीपे च नवमे दक्षिणेनाब्धिमध्यगाः । उपद्वीपाः षट् कुलाद्रिसप्तकेन विभूषिते ॥८५॥ अङ्गयवमलयशङ्कुः कुमुदवराहौ च मलयगो ̕गस्त्य । तत्रैव च त्रिकूटे लङ्का षडमी ह्युपद्वीपाः ॥८६॥ द्वीपोपद्वीपगाः प्रायो म्लेच्छा नानाविधा जनाः । मुक्ताकाञ्चनरत्नाढ्या इति श्रीरुरुशासने ॥८७॥ भारते यत्कृतं कर्म क्षपितं वाप्यवीचितः । शिवान्तं तेन मुक्तिर्वा कन्याख्ये तु विशेषतः ॥८८॥ महाकालादिका रुद्रकोटिरत्रैव भारते ॥ गङ्गादिपञ्चशतिका जन्म तेनात्र दुर्लभम् ॥८९॥ अन्यवर्षेषु पशुवद् भोगात्कर्मातिवाहनम् । प्राप्यं मनोरथातीतमपि भारतजन्मनाम् ॥९०॥ नानावर्णाश्रमाचारसुखदुःखविचित्रता । कन्याद्वीपे यतस्तेन कर्मभूः सेयमुत्तमा ॥९१॥ पुंसा सितासितान्यत्र कुर्वतां किल सिद्ध्यतः । परापरौ स्वर्निरयाविति रौरववार्तिके ॥९२॥ एवं मेरोरधो जम्बूरभितो यः स विस्तरात् । स्यात् सप्तदशधा खण्डैर्नवभिस्तु समासतः ॥९३॥ मनोः स्वायंभुवस्यासन् सुता दश ततस्त्रयः । प्राव्रजन्नथ जम्ब्वाख्ये राजा योऽग्नीध्रनामकः ॥९४॥ तस्याभवन्नव सुतास्ततो ̕यं नवखण्डकः । नाभिर्यो नवमस्तस्य नप्ता भरत आर्षभिः ॥९५॥ तस्याष्टौ तनयाः साकं कन्यया नवमों ̕शकः । भुक्तैस्तैर्नवधा तस्माल्लक्षयोजनमात्रकात् ॥९६॥ लक्षैकमात्रो लवणस्तद्बाह्येऽस्य पुरो ̕द्रयः । ऋषभो दुन्दुभिर्धूम्रः कङ्कद्रोणेन्दवो ह्युदक् ॥९७॥ वराहनन्दनाशोकाः पश्चात् सहबलाहकौ । दक्षिण चक्रमैनाकौ वाडवो ̕न्तस्तयोः स्थितः ॥९८॥ अब्धेर्दक्षिणतः खाक्षिसहस्रातिक्रमाद् गिरिः । विद्युत्वांस्त्रिसहस्रोच्छ्रिदायामो ̕त्र फलाशिनः ॥९९॥ मलदिग्धा दीर्घकेशश्मश्रवो गोसधर्मकाः । नग्नाः संवत्सराशीतिजीविनस्तृणभोजिनः ॥१००॥ निर्यन्त्राणि सदा तत्र द्वाराणि बिलसिद्धये । इत्येतद् गुरुभिर्गीतं श्रीमद्रौरवशासने ॥१०१॥ इत्थं य एष लवणसमुद्रः प्रतिपादितः । तद्बहिः षडमी द्वीपाः प्रत्येकं स्वार्णवैर्वृताः ॥१०२॥ क्रमद्विगुणिताः षड्भिर्मनुपुत्रैरधिष्ठिताः । शाककुशक्रौञ्चाः शल्मलिगोमेधाब्जमिति षड्द्वीपाः । क्षीरदधिसर्पिरैक्षवमदिरामधुराम्बुकाः षडम्बुधयः ॥१०३॥ मेधातिथिर्वपुष्माञ्ज्योतिष्मान्द्युतिमता हवी राजा । संवर इति शाकादिषु जम्बुद्वीपे न्यरूपि चाग्नीध्रः ॥१०४॥ गिरिसप्तकपरिकल्पिततावत्खण्डास्तु पञ्च शाकाद्याः । पुष्करसंज्ञो द्विदलो हरियमवरुणेन्दवोऽत्र पूर्वादौ ॥१०५॥ त्रिपञ्चाशच्च लक्षाणि द्विकोट्ययुतपञ्चकम् । स्वाद्वर्णवान्तं मेर्वर्धाद्योजननामियं प्रमा ॥१०६॥ सप्तमजलधेर्बाह्ये हैमी भूः कोटिदशकमथ लक्षम् । उच्छ्रित्या विस्तारादयुतं लोकेतराचलः कथितः ॥१०७॥ लोकालोकदिगष्टक संस्थं रुद्राष्टकं सलोकेशम् । केवलमित्यपि केचिल्लोकालोकान्तरे रविर्न बहिः ॥१०८॥ पितृदेवपथावस्योदग्दक्षिणगौ स्वजात्परे वीथ्यौ । भानोरुत्तरदक्षिणमयनद्वयमेतदेव कथयन्ति ॥१०९॥ सर्वेषामुत्तरो मेरुर्लोकालोकश्च दक्षिणः। उदयास्तमयावित्थं सूर्यस्य परिभावयेत् ॥११०॥ अर्धरात्रो ̕मरावत्यां याम्यायामस्तमेव च । मध्यन्दिनं तद्वारुण्यां सौम्ये सूर्योदयः स्मृतः ॥१११॥ उदयो योऽमरावत्यां सोऽर्धरात्रो यमालये । केऽस्तं सौम्ये च मध्याह्न इत्थं सूर्यगतागते ॥११२॥ पञ्चत्रिं शत्कोटिसंख्या लक्षाण्येकोनविंशतिः । चत्वारिंशत्सहस्राणि ध्वान्तं लोकाचलाद्बहिः ॥११३॥ सप्तसागरमानस्तु गर्भोदाख्यः समुद्रराट् । लोकालोकस्य परतो यद्गर्भे निखिलैव भूः ॥११४॥ सिद्धातन्त्रेऽत्र गर्भाब्धेस्तीरे कौशेयसंज्ञितम् । मण्डलं गरुडस्तत्र सिद्धपक्षसमावृतः ॥११५॥ क्रीडन्तिं पर्वताग्रे ते नव चात्र कुलाद्रयः । तत उष्णोदकास्त्रिंशन्नद्यःपातालगास्ततः ॥११६॥ चतुर्दिङ्नैमिरोद्यानं योगिनीसेवितं सदा । ततो मेरुस्ततो नागा मेघा हेमाण्डकं ततः ॥११७॥ ब्रह्मणोऽण्डकटाहेन मेरोरर्धेन कोटयः । पञ्चाशदेवं दशसु दिचु भूर्लोकसंज्ञितम् ॥११८॥ पशुखगमृगतरुमानुषसरीसृपैः षड्भिरेष भूर्लोकः । व्याप्तः पिशाचरक्षोगन्धर्वाणां सयक्षाणाम् ॥११९॥ विद्याभृतां च किं वा बहुना सर्वस्य भूतसर्गस्य । अभिमानतो यथेष्टं भोगस्थानं निवासश्च ॥१२०॥ भुवर्लोकस्तथा त्वार्काल्लक्षमेकं तदन्तरे । दश वायुपथास्ते च प्रत्येकमयुतान्तराः ॥१२१॥ आद्यो वायुपथस्तत्र विततः परिचर्च्यते । पञ्चाशद्योजनोर्ध्वे स्यादृतर्द्धिर्नाम मारुतः ॥१२२॥ आप्यायकः स जन्तूनां ततः प्राचेतसो भवेत् । पञ्चाशद्योजनादूर्ध्व तस्मादूर्ध्व शतेन तु ॥१२३॥ सेनानीवायुरत्रैते मूकमेघास्तडिन्मुचः । ये मह्याः क्रोशमात्रेण तिष्ठन्ति जलवर्षिणः ॥१२४॥ तेभ्य ऊर्ध्व शतान्मेघा भेकादिप्राणिवर्षिणः । पञ्चाशदूर्ध्वमोघो ̕त्र विषवारिप्रवर्षिणः ॥१२५॥ मेघाः स्कन्दोद्भवाश्चान्ये पिशाचा ओघमारुते । ततः पञ्चाशदूर्ध्वं स्युर्मेघा मारकसंज्ञकाः ॥१२६॥ तत्र स्थाने महादेवजन्मानस्ते विनायकाः । ये हरन्ति कृतं कर्म नराणामकृतात्मनाम् ॥१२७॥ पञ्चाशदूर्ध्वं वज्राङ्को वायुरत्रोपलाम्बुदाः । विद्याधराधमाश्चात्र वज्राङ्के संप्रतिष्ठिताः ॥१२८॥ ये विद्यापौरुषे ये च श्मशानादिप्रसाधने । मृतास्तत्सिद्धिसिद्धास्ते वज्रांके मरुति स्थिताः ॥१२९॥ पञ्चाशदूर्ध्वं वज्रांकाद्वैद्युतोऽशनिवर्षिणः । अब्दा अप्सरसश्चात्र ये च पुण्यकृतो नराः ॥१३०॥ भृगौ वह्नौ जले ये च संग्रामे चानिवर्तिनः । गोग्रहे वध्यमोक्षे वा मृतास्ते वैद्युते स्थिताः ॥१३१॥ वैद्युताद्रैवतस्तावांस्तत्र पुष्टिवहाम्बुदाः । ऊर्ध्वं च रोगाम्बुमुचः संवर्तास्तदनन्तरे ॥१३२॥ रोचनाञ्जनभस्मादिसिद्धास्तत्रैव रैवते । क्रोधोदकमुचां स्थानं विषावर्तः स मारुतः ॥१३३॥ पञ्चाशदूर्ध्वं तत्रैव दुर्दिनाब्दा हुताशजाः । विद्याधरविशेषाश्च तथा ये परमेश्वरम् ॥१३४॥ गान्धर्वेण सदार्चन्ति विषावर्तेऽथ ते स्थिताः । विषावर्ताच्छतादूर्ध्व दुर्जयः श्वाससंभवः ॥१३५॥ ब्रह्मणोऽत्र स्थिता मेघाः प्रलये वातकारिणः । पुष्कराब्दा वायुगमा गन्धर्वाश्च परावहे ॥१३६॥ जीमूतमेघास्तत्संज्ञास्तथा विद्याधरोत्तमाः । ये च रूपव्रता लोका आवहे ते प्रतिष्ठिताः ॥१३७॥ महावहे त्वीशकृताः प्रजाहितकराम्बुदाः । महापरिवहे मेघाः कपालोत्था महेशितुः ॥१३८॥ महापरिवहान्तोऽयमृतर्द्धेः प्राङ्मरुत्पथः । अग्निकन्या मातरश्च रुद्रशक्त्या त्वधिष्ठिताः ॥१३९॥ द्वितीये तत्परे सिद्धचारणा निजकर्मजाः । तुर्ये देवायुधान्यष्टौ दिग्गजाः पञ्चमे पुनः ॥१४०॥ षष्ठे गरुत्मानन्यस्मिङ्गङ्गान्यत्र वृषो विभुः । दक्षस्तु नवमे ब्रह्मशक्त्या समधिति[नि]ष्ठितः ॥१४१॥ दशमे वसवो रुद्रा आदित्याश्च मरुत्पथे । नवयोजनसाहस्रो विग्रहो ̕र्कस्य मण्डलम् ॥१४२॥ त्रिगुणं ज्ञानशक्तिः सा तपत्यर्कतया प्रभोः । स्वर्लोकस्तु भुवर्लोकाद्ध्रुवान्तं परिभाष्यते ॥१४३॥ सूर्याल्लक्षेण शीतांशुः क्रियाशक्तिः शिवस्य सा । चन्द्राल्लक्षेण नाक्षत्रं ततो लक्षद्वयेन तु ॥१४४॥ प्रत्येकं भौमतः सूर्यसुतान्ते पञ्चकं विदुः । सौराल्लक्षेण सप्तर्षिवर्गस्तस्माद्ध्रुवस्तथा ॥१४५॥ ब्रह्मैवापररूपेण ब्रह्मस्थाने ध्रुवोऽचलः । मेधीभूतो विमानानां सर्वेषामुपरि ध्रुवः ॥१४६॥ अत्र बद्धानि सर्वाण्यप्यूह्यन्ते ̕निलमण्डले । स्वस्सप्त मारुतस्कन्धा आमेघाद्याः प्रधानतः ॥१४७॥ इतश्च क्रतुहोत्रादि कृत्वा ज्ञानविवर्जिताः । स्वर्यान्ति तत्क्षये लोकं मानुष्यं पुण्यशेषतः ॥१४८॥ एवं भूमेर्ध्रुवान्तं स्याल्लक्षाणि दश पञ्च च । द्वे कोटी पञ्च चाशीतिर्लक्षाणि स्वर्गतो महान् ॥१४९॥ मार्कण्डाद्या ऋषिमुनिसिद्धास्तत्र प्रतिष्ठिताः । निवर्तिताधिकाराश्च देवा महति संस्थिताः ॥१५०॥ महान्तराले तत्रान्ये त्वधिकारभुजो जनाः । अष्टौ कोट्यो महल्लोकाज्जनोऽत्र कपिलादयः ॥१५१॥ तिष्ठन्ति साध्यास्तत्रैव बहवः सुखभागिनः । जनात्तपोर्ककोट्योऽत्र सनकाद्या महाधियः ॥१५२॥ प्रजापतीनां तत्राधिकारो ब्रह्मात्मजन्मनाम् । ब्रह्मालयस्तु तपसः सत्यः षोडश कोटयः ॥१५३॥ तत्र स्थितः स स्वयम्भूर्विश्वमाविष्करोत्यदः । सत्ये वेदास्तथा चान्ये कर्मध्यानेन भाविताः ॥१५४॥ आनन्दनिष्ठास्तत्रोर्ध्वेकोटिर्वैरिञ्चमासनम् । ब्रह्मासनात्कोटियुग्मं पुरं विष्णोर्निरूपितम् ॥१५५॥ ध्यानपूजाजपैर्विष्णोर्भक्ता गच्छन्ति तत्पदम् । वैष्णवात्सप्तकोटीभिर्भुवनं परमेशितुः ॥१५६॥ रुद्रस्य सृष्टिसंहारकर्तुर्ब्रह्माण्डवर्त्मनि । दीक्षाज्ञानविहीना ये लिङ्गाराधनतत्पराः ॥१५७॥ ते यान्त्यण्डान्तरे रौद्रं पुरं नाधः कदाचन । तत्स्थाः सर्वे शिवं यान्ति रुद्राः श्रीकण्ठदीक्षिताः ॥१५८॥ अधिकारक्षये साकं रुद्रकन्यागणेन ते । पुरं पुरं च रुद्रोर्ध्वमुत्तरोत्तरवृद्धितः ॥१५९॥ ब्रह्माण्डाधश्च रुद्रोर्ध्व दण्डपाणेः पुरं स च । शिवेच्छया दृणात्यण्डं मोक्षमार्ग करोति च ॥१६०॥ शर्वरुद्रौ भीमभवावुग्रो देवो महानथ । ईशान इति भूर्लोकात् सप्त लोकेश्वराः शिवाः ॥१६१॥ स्थूलैर्विशेषैरारब्धाः सप्त लोकाः परे पुनः । सूक्ष्मैरिति गुरुश्चैव रुरौ सम्यङ्न्यरूपयत् ॥१६२॥ ये ब्रह्मणादिसर्गे स्वशरीरान्निर्मिताः प्रभूताख्याः । स्थूलाः पञ्च विशेषाः सप्तामी तन्मया लोकाः ॥१६३॥ परतो लिङ्गाधारैः सूक्ष्मैस्तन्मात्रजैर्महाभूतैः । लोकानामावरणैर्विष्टभ्य परस्पेरण गन्धाद्यैः ॥१६४॥ कालाग्नेर्दण्डपाण्यन्तमष्टानवतिकोटयः । अत ऊर्ध्वं कटाहोऽण्डे स घनः कोटियोजनम् ॥१६५॥ पञ्चाशत्कोटयश्चोर्ध्वं भूपृष्ठादधरं तथा । एवं कोटिशतं भूः स्यात् सौवर्णस्तण्डुलस्ततः ॥१६६॥ शतरुद्रावधिर्हुफट् भेदयेत्तत्तु दुःशमम् । प्रतिदिक्कं दश दशेत्येवं रुद्रशतं बहिः ॥१६७॥ ब्रह्माण्डाधारकं तच्च स्वप्रभावेण सर्वतः । अण्डस्वरूपं गुरुभिश्चोक्तं श्रीरौरवादिषु ॥१६८॥ व्यक्तेरभिमुखीभूतः प्रच्युतः शक्तिरूपतः । आवापवाननिर्भक्तो वस्तुपिण्डो ̕ण्ड उच्यते ॥१६९॥ तमोलेशानुविद्धस्य कपालं सत्त्वमुत्तरम् । रजोऽनुविद्धं निर्मृष्टं सत्त्वमस्याधरं तमः ॥१७०॥ वस्तुपिण्ड इति प्रोक्तं शिवशक्तिसमूहभाक् । अण्डः स्यादिति तद्व्यक्तौ संमुखीभाव उच्यते ॥१७१॥ तथापि शिवमग्नानां शक्तीनामण्डता भवेत् । तदर्थ वाक्यमपरं ता हि न च्युतशक्तितः ॥१७२॥ तन्वक्षादौ मा प्रसाङ्क्षीदण्डतेति पदान्तरम् । तन्वक्षादिषु नैवास्ते कस्याप्यावापनं यतः ॥१७३॥ तन्वक्षसमुदायत्वे कथमेकत्वमित्यतः । अनिर्भक्त इति प्रोक्तं साजात्यपरिदर्शकम् ॥१७४॥ विनापि वस्तुपिण्डाख्यपदेनैकैकशो भवेत् । तत्त्वेष्वण्डस्वभावत्वं नन्वेवमपि किं न तत् ॥१७५॥ गुणतन्मात्रभूतौघमये तत्त्वे प्रसज्यते । उच्यते वस्तुशब्देन तन्वक्षभुवनात्मकम् ॥१७६॥ रूपमुक्तं यतस्तेन तत्समूहो ̕ण्ड उच्यते । भवेच्च तत्समूहत्वं पत्युर्विश्ववपुर्भृतः ॥१७७॥ तदर्थ भेदकान्यन्यान्युपात्तानीति दर्शितम् । तावन्मात्रास्ववस्थासु मायाधीने ̕ध्वमण्डले ॥१७८॥ मा भूदण्डत्वमित्याहुरन्ये भेदकयोजनम् । इत्थमुक्तविरिञ्चाण्डमृतो रुद्राः शतं हि यत् ॥१७९॥ तेषां स्वे पतयो रुद्रा एकादश महार्चिषः । अनन्तोऽथ कपाल्याग्निर्यमनैरृतकौ बलः ॥१८०॥ शीघ्रो निधीशो विद्येशः शम्भुः सवीरभद्रकः । मधु मधुकृतः कदम्बं केसरजालानि यद्वदावृणते ॥१८१॥ तद्वत्ते शिवरुद्रा ब्रह्माण्डमसंख्यपरिवाराः । शराष्टनियुतं कोटिरित्येषां सन्निवेशनम् ॥१८२॥ श्रीकण्ठाधिष्ठितास्ते च सृजन्ति संहरन्ति च । ईश्वरत्वं दिविषदामिति रौरववार्तिके ॥१८३॥ सिद्धातन्त्रे तु हेमाण्डाच्छतकोटेर्बहिः शतम् । अण्डानां क्रमशो द्विद्विगुणं रूप्यादियोजितम् ॥१८४॥ तेषु क्रमेण ब्रह्माणः संस्युर्द्विगुणजीविताः । क्षीयन्ते क्रमशस्ते च तदन्ते तत्त्वमम्मयम् ॥१८५॥ धरातो ̕त्र जलादि स्यादुत्तरोत्तरतः क्रमात् । दशधाहङ्कृतान्तं धीस्तस्याः स्याच्छतधा ततः ॥१८६॥ सहस्रधा व्यक्तमतः पौंस्नं दशसहस्रधा । नियतिर्लक्षधा तस्मात्तस्यास्तु दशलक्षधा ॥१८७॥ कलान्तं कोटिधा तस्मान्माया विद्दशकोटिधा । ईश्वरः शतकोटिः स्यात्तस्मात्कोटिसहस्रधा ॥१८८॥ सादाख्यं व्यश्नुते तच्च शक्तिर्वृन्देन संख्यया । व्यापिनी सर्वमध्वानं व्याप्यदेवी व्यवस्थिता ॥१८९॥ अप्रमेयं ततः शुद्धं शिवतत्त्वं परं विदुः । जलादेः शिवतत्त्वान्तं न दृष्टं केनचिच्छिवात् ॥१९०॥ ऋते ततः शिवज्ञानं परमं मोक्षकारणम् । तथा चाह महादेवः श्रीमत्स्वच्छन्दशासने ॥१९१॥ नान्यथा मोक्षमायाति पशुर्ज्ञानशतैरपि । शिवज्ञानं न भवति दीक्षामप्राप्य शाङ्करीम् ॥१९२॥ प्राक्तनी पारमेशी सा पौरुषेयी च सा पुनः । शतरुद्रोर्ध्वतो भद्रकाल्या नीलप्रभं जयम् ॥१९३॥ न यज्ञदानतपसा प्राप्यं काल्याः पुरं जयम् । तद्भक्तास्तत्र गच्छन्ति तन्मण्डलसुदीक्षिताः ॥१९४॥ निर्बीजदीक्षया मोक्षं ददाति परमेश्वरी । विद्येशावरणे दीक्षां यावतीं कुरुते नृणाम् ॥१९५॥ तावतीं गतिमायान्ति भुवनेऽत्र निवेशिताः । ततः कोट्या वीरभद्रो युगान्ताग्निसमप्रभः ॥१९६॥ विजयाख्यं पुरं चास्य ये स्मरन्तो महेश्वरम् । जलेषु मरुषु चाग्नौ शिरश्छेदेन वा मृताः ॥१९७॥ ते यान्ति बोधमैशानं वीरभद्रं महाद्युतिम् । वैरभद्रोर्ध्वतः कोटिर्विष्कम्भाद्विस्तृतं त्रिधा ॥१९८॥ रुद्राण्डं सालिलं त्वण्डं शक्रचापाकृति स्थितम् । आ वीरभद्रभुवनाद्भद्रकाल्यालयात्तथा ॥१९९॥ त्रयोदशभिरन्यैश्च भुवनैरुपशोभितम् । ततो भुवः सहाद्रेः पूर्गन्धतन्मात्रधारणात् ॥२००॥ मृता गच्छन्ति तां भूमिं धरित्र्याः परमां बुधाः । अब्धेः पुरं ततस्त्वाप्यं रसतन्मात्रधारणात् ॥२०१॥ ततः श्रियः पुरं रुद्रक्रीडावतरणेष्वथ । प्रयागादौ श्रीगिरौ च विशेषान्मरणेन तत् ॥२०२॥ सारस्वतं पुरं तस्माच्छब्दब्रह्मविदां पदम् । रुद्रोचितास्ता मुख्यत्वाद्रुद्रेभ्योऽन्यास्तथा स्थिताः ॥२०३॥ पुरेषु बहुधा गङ्गा देवादौ श्रीः सरस्वती । लकुलाद्यमरेशान्ता अष्टावप्सु सुराधिपाः ॥२०४॥ ततस्तु तैजसं तत्त्वं शिवाग्नेरत्र संस्थितिः । ते चैनं वह्निमायान्ति वाह्नीं ये धारणां श्रिताः ॥२०५॥ भैरवादिहरीन्द्वन्तं तैजसे नायकाष्टकम् । प्राणस्य भुवनं वायोर्दशधा दशधा तु तत् ॥२०६॥ ध्यात्वा त्यक्त्वाथ वा प्राणान् कृत्वा तत्रैव धारणाम् । तं विशन्ति महात्मानो वायुभूताः खमूर्तयः ॥२०७॥ भीमादिगयपर्यन्तमष्टकं वायुतत्त्वगम् । खतत्त्वे भुवनं व्योम्नः प्राप्यं तद्व्योमधारणात् ॥२०८॥ वस्त्रापदान्तं स्थाण्वादि व्योमतत्त्वे सुराष्टकम् । अदीक्षिता ये भूतेषु शिवतत्त्वाभिमानिनः ॥२०९॥ ज्ञानहीना अपि प्रौढधारणास्तेऽण्डतो बहिः । धराब्धितेजो ̕निलखपुरगा दीक्षिताश्च वा ॥२१०॥ तावत्संस्कारयोगार्थं न परं पदमीहितुम् । तथाविधावतारेषु मृताश्चायतनेषु ये ॥२११॥ तत्पदं ते समासाद्य क्रमाद्यान्ति शिवात्मताम् । पुनः पुनरिदं चोक्तं श्रीमद्देव्याख्ययामले ॥२१२॥ श्रीकामिकायां कश्मीरवर्णने चोक्तवान्विभुः । सुरेश्वरीमहाधाम्नि ये म्रियन्ते च तत्पुरे ॥२१३॥ ब्राह्मणाद्याः सङ्करान्ताः पशवः स्थावरान्तगाः । रुद्रजातय एवैते इत्याह भगवाञ्छिवः ॥२१४॥ आकाशावरणादूर्ध्वमहङ्कारादधः प्रिये । तन्मात्रादिमनोऽन्तानां पुराणि शिवशासने ॥२१५॥ पञ्चवर्णयुतं गन्धतन्मात्रमण्डलं महत् । आच्छाद्य योजनानेककोटिभिः स्थितमन्तरा ॥२१६॥ एवं रसादिमात्राणां मण्डलानि स्ववर्णत । शर्वो भवः पशुपतिरीशो भीम इति क्रमात् ॥२१७॥ तन्मात्रेशा यदिच्छातः शब्दाद्याः खादिकारिणः । ततः सूर्येन्दुवेदानां मण्डलानि विभुर्महान् ॥२१८॥ उग्रश्चेत्येषु पतयस्तेभ्यो ̕र्केन्दू सयाजकौ । इत्यष्टौ तनवः शंभोर्याः पराः परिकीर्तिताः ॥२१९॥ अपरा ब्रह्मणोऽण्डे ता व्याप्य सर्वं व्यवस्थिताः । कल्पे कल्पे प्रसूयन्ते धराद्यास्ताभ्य एव तु ॥२२०॥ ततो वागादिकर्माक्षयुक्तं करणमण्डलम् । अग्नीन्द्रविष्णुमित्राः सब्रह्माणस्तेषु नायकाः ॥२२१॥ प्रकाशमण्डलं तस्माच्छ्रुतं बुद्ध्यक्षपञ्चकम् । दिग्विद्युदर्कवरुणभुवः श्रोत्रादिदेवताः ॥२२२॥ प्रकाशमण्डलादूर्ध्वं स्थितं पञ्चार्थमण्डलम् । मनोमण्डलमेतस्मात् सोमेनाधिष्ठितं यतः ॥२२३॥ बाह्यदेवेष्वधिष्ठाता साम्यैश्वर्यसुखात्मकः । मनोदेवस्ततो दिव्यः सोमो विभुरुदीरितः ॥२२४॥ ततोऽपि सकलाक्षाणां योनेर्बुद्ध्यक्षजन्मनः । स्थूलादिच्छगलान्ताष्टयुक्तं चाहङ्कृतेः पुरम् ॥२२५॥ बुद्धितत्त्वं ततो देवयोन्यष्टकपुराधिपम् । पैशाचप्रभृतिब्राह्मपर्यन्तं तच्च कीर्तितम् ॥२२६॥ एतानि देवयोनीनां स्थानान्येव पुराण्यतः । अवतीर्यात्मजन्मानं ध्यायन्तः संभवन्ति ते ॥२२७॥ परमेशनियोगाच्च चोद्यमानाश्च मायया । नियामिता नियत्या च ब्रह्मणोऽव्यक्तजन्मनः ॥२२८॥ व्यज्यन्ते तेन सर्गादौ नामरूपैरनेकधा । स्वांशनैव महात्मानो न त्यजन्ति स्वकेतनम् ॥२२९॥ उक्तं च शिवतनाविदमधिकारपदस्थितेन गुरुणा नः । अष्टानां देवानां शक्त्याविर्भावयोनयो ह्येताः ॥२३०॥ तनुभोगाः पुनरेषामधः प्रभूतात्मकाः प्रोक्ताः । चत्वारिंशत्तुल्योपभोगदेशाधिकानि भुवनानि ॥२३१॥ साधनभेदात्केवलमष्टकपञ्चकतयोक्तानि । एतानि भक्तियोगप्राणत्यागादिगम्यानि ॥२३२॥ तेषूमापतिरेव प्रभुः स्वतन्त्रेन्द्रियो विकरणात्मा । तरतमयोगेन ततोऽपि देवयोन्यष्टकं लक्ष्यं तु ॥२३३॥ लोकानामक्षाणि च विषयपरिच्छित्तिकरणानि । गन्धादेर्महदन्तादेकाधिक्येन जातमैश्वर्यम् ॥२३४॥ अणिमाद्यात्मकमस्मिन्पैशाचाद्ये विरिञ्चान्ते । ज्ञात्वैवं शोधयेद्बुद्धिं सार्धं पुर्यष्टकेन्द्रियैः ॥२३५॥ क्रोधेशाष्टकमानीलं संवर्ताद्यं ततो विदुः । तेजोष्टकं बलाध्यक्षप्रभृतिक्रोधनाष्तकात् ॥२३६॥ अकृतादि ततो बुद्धौ योगाष्टकमुदाहृतम् । स्वच्छन्दशासने तत्तु मूले श्रीपूर्वशासने ॥२३७॥ योगाष्टकपदे यत्तु सोमे श्रैकण्ठमेव च । ततो मायापुरं भूयः श्रीकण्ठस्य च कथ्यते ॥२३८॥ तेन द्वितीयं भुवनं तयोः प्रत्येकमुच्यते । तत्र मायापुरं देव्या यया विश्वमधिष्ठितम् ॥२३९॥ प्रतिकल्पं नामभेदैर्भण्यते सा महेश्वरी । उमापतेः पुरं पश्चान्मातृभिः परिवारितम् ॥२४०॥ श्रीकण्ठ एव परया मूर्त्योमापतिरुच्यते । ब्राह्म्यैशी स्कन्दजा हारी वाराह्यैन्द्री सविच्चिका [चर्चिका] ॥२४१॥ पीता शुक्ला पीतनीले नीला शुक्लारुणा क्रमात् । अग्नीशसौम्ययाम्याप्यपूर्वनैरृतगास्तु ताः ॥२४२॥ अंशेन मानुषे लोके धात्रा ता ह्यवतारिताः । स्वच्छन्दास्ताः पराश्चान्याः परे व्योम्नि व्यवस्थिताः ॥२४३॥ स्वच्छन्दं ता निषेवन्ते सप्तधेयमुमा यतः । उमापतिपुरस्योर्ध्व स्थितं मूर्त्यष्टकं परम् ॥२४४॥ शर्वादिकं यस्य सृष्टिर्धराद्या याजकान्ततः । ताभ्य ईशानमूर्तिर्या सा मेरौ संप्रतिष्ठिता ॥२४५॥ श्रीकण्ठः स्फटिकाद्रौ सा व्याप्ता तन्वष्टकैर्जगत् । ये योगं सगुणं शम्भोः संयताः पर्युपासते ॥२४६॥ तन्मण्डलं वा दृष्ट्वैव मुक्तद्वैता हृतत्रयाः । गुणानामाधरौत्तर्याच्छुद्धाशुद्धत्वसंस्थितेः ॥२४७॥ तारतम्याच्च योगस्य भेदात्फलविचित्रता । ततो भोगफलावाप्तिभेदाद्भेदो ̕यमुच्यते ॥२४८॥ मूर्त्यष्टकोपरिष्टात्तु सुशिवा द्वादशोदिताः । वामाद्येकशिवान्तास्ते कुङ्कुमाभाः सुतेजसः ॥२४९॥ तदूर्ध्व वीरभद्राख्यो मण्डलाधिपतिः स्थितः । यत्त [स्त] त्सायुज्यमापन्नः स तेन सह मोदते ॥२५०॥ ततो ̕प्यङ्गुष्ठमात्रान्तं महादेवाष्टकं भवेत् । बुद्धितत्त्वमिदं प्रोक्तं देवयोन्यष्टकादितः ॥२५१॥ महादेवाष्टकान्ते तद् योगाष्टकमिहोदितम् । तत्र श्रैकण्ठमुक्तं यत् तस्यैवोमापतिस्तथा ॥२५२॥ मूर्तयः सुशिवा वीरो महादेवाष्टकं वपुः । उपरिष्टाद्धियोऽधश्च प्रकृतेर्गुणसंज्ञितम् ॥२५३॥ तत्त्वं तत्र तु संक्षुब्धा गुणाः प्रसुवते धियम् । न वैषम्यमनापन्नं कारणं कार्यसूतये ॥२५४॥ गुणसाम्यत्मिका तेन प्रकृतिः कारणं भवेत् । नन्वेवं सापि संक्षोभं विना तान्विषमान्गुणान् ॥२५५॥ कथं सुवीत तत्राद्ये क्षोभे स्यादनवस्थितिः । सांख्यस्य दोष एवायं यदि वा तेन ते गुणाः ॥२५६॥ अव्यक्तमिष्टाः साम्यं तु सङ्गमात्रं न चेतरत् । अस्माकं तु स्वतन्त्रेशतथेच्छाक्षोभसंगतम् ॥२५७॥ अव्यक्तं बुद्धितत्त्वस्य कारणं क्षोभिता गुणाः । ननु तत्त्वेश्वरेच्छातो यः क्षोभः प्रकृतेः पुरा ॥२५८॥ तदेव बुद्धितत्त्वं स्यात् किमन्यैः कल्पितैर्गुणैः । नैतत्कारणतारूपपरामर्शावरोधि यत् ॥२५९॥ क्षोभान्तरं ततः कार्य बीजोच्छूनाङ्कुरादिवत् । क्रमात्तमोरजःसत्त्वे गुरूणां पङ्क्तयः स्थिताः ॥२६०॥ तिस्रो द्वात्रिंशदेकातस्त्रिंशदप्येकविंशतिः । स्वज्ञनयोगबलतः क्रीडन्तो दैशिकोत्तमाः ॥२६१॥ त्रिनेत्राः पाशनिर्मुक्तास्तेऽत्रानुग्रहकारिणः । बुद्धेश्च गुणपर्यन्तमुभे सप्ताधिके शते ॥२६२॥ रुद्राणां भुवनानां च मुख्यतो ̕न्ये तदन्तरे । योगाष्टकं गुणस्कन्धे प्रोक्तं शिवतनौ पुनः ॥२६३॥ योनीरतीत्य गौणे स्कन्धे स्युर्योगदातारः । अकृतकृतविभुविरिञ्चा हरिर्गुहः क्रमवशात्ततो देवी ॥२६४॥ करणान्यणिमादिगुणाः कार्याणि प्रत्ययप्रपञ्चश्च । अव्यक्तादुत्पन्ना गुणाश्च सत्त्वादयोऽमीषाम् ॥२६५॥ धर्मज्ञानविरागानैश्वर्यं तत्फलानि विविधानि । यच्छन्ति गुणेभ्योऽमी पुरुषेभ्यो योगदातारः ॥२६६॥ तेभ्यः परतो भुवनं सत्त्वादिगुणासनस्य देवस्य । सकलजगदेकमातुर्भर्तुः श्रीकण्ठनाथस्य ॥२६७॥ येनोमागुहनीलब्रह्मऋभुक्षकृताकृतादिभुवनेषु । ग्रहरूपिण्या शक्त्या प्राभ्व्याधिष्ठानि भूतानि ॥२६८॥ उपसंजिहीर्षुरिह यश्चतुराननपङ्कजं समाविश्य । दग्ध्वा चतुरो लोकाञ्जनलोकान्निर्मिणोति पुनः ॥२६९॥ यस्येच्छातः सत्त्वादिगुणशरीरा विसृजति रुद्राणी । अनुकल्पो रुद्राण्या वेदी तत्रेज्यते ̕नुकल्पेन ॥२७०॥ पशुपतिरिन्द्रोपेन्द्रविरिञ्चैरथ तदुपलम्भतो देवैः । गन्धर्वयक्षराक्षसपितृमुनिभिश्चित्रितास्तथा यागाः ॥२७१॥ गुणानां यत्परं साम्यं तदव्यक्तं गुणोर्ध्वतः । क्रोधेशचण्डसंवर्ता ज्योतिःपिङ्गलसूरकौ ॥२७२॥ पञ्चान्तकैकवीरौ च शिखोदश्चाष्ट तत्र ते । गहनं पुरुषनिधानं प्रकृतिर्मूलं प्रधानमव्यक्तम् ॥२७३॥ गुणकारणमित्येते मायाप्रभवस्य पर्यायाः । यावन्तः क्षेत्रज्ञाः सहजागन्तुकमलोपदिग्धचितः ॥२७४॥ ते सर्वेऽत्र विनिहिता रुद्राश्च तदुत्थभोगभुजः । मूढविवृत्तविलीनैः करणैः केचित्तु विकरणकाः ॥२७५॥ अकृताधिष्ठानतया कृत्याशक्तानि मूढानि । प्रतिनियतविषयभाञ्जि स्फुटानि शास्त्रे विवृत्तानि ॥२७६॥ भग्नानि महाप्रलये सृष्टौ नोत्पादितानि लीनानि । इच्छाधीनानि पुनर्विकरणसंज्ञानि कार्यमप्येवम् ॥२७७॥ पुंस्तत्त्वे तुष्टिनवकं सिद्धयोऽष्टौ च तत्पुरः । तावत्य एवाणिमादिभुवनाष्टकमेव च ॥२७८॥ अतत्त्वे तत्त्वबुद्ध्या यः सन्तोषस्तुष्टिरत्र सा । हेयेऽप्यादेयधीः सिद्धिः तथा चोक्तं हि कापिलैः ॥२७९॥ आध्यात्मिकाश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः । पञ्च विषयोपरमतोऽर्जनरक्षासङ्गसंक्षयविघातैः ॥२८०॥ ऊहः शब्दो ̕ध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः । दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः ॥२८१॥ अणिमाद्यूर्ध्वतस्तिस्रः पङ्क्तयो गुरुशिष्यगाः । तत्रापि त्रिगुणच्छायायोगात् त्रित्वमुदाहृतम् ॥२८२॥ नाडीविद्याष्टकं चोर्ध्वं पङ्क्तीनां स्यादिडादिकम् । पुंसि नादमयी शक्तिः प्रसराख्या च यत्स्थिता ॥२८३॥ न ह्यकर्ता पुमान्कर्तुः कारणत्वं च संस्थितम् । अकर्तर्यपि वा पुंसि सहकारितया स्थिते ॥२८४॥ शेषकार्यात्मतैष्टव्यान्यथा सत्कार्यहानितः । तस्मात्तथाविधे कार्ये या शक्तिः पुरुषस्य सा ॥२८५॥ तावन्ति रूपाण्यादाय पूर्णतामधिगच्छति । नाड्यष्टकोर्ध्वे कथितं विग्रहाष्टकमुच्यते ॥२८६॥ कार्यं हेतुर्दुःखं सुखं च विज्ञानसाध्यकरणानि । साधनमिति विग्रहतायुगष्टकं भवति पुंस्तत्त्वे ॥२८७॥ भुवनं देहधर्माणां दशानां विग्रहाष्टकात् । अहिंसा सत्यमस्तेयं ब्रह्माकल्काक्रुधो गुरोः ॥२८८॥ शुश्रूषाशौचसन्तोषा ऋजुतेति दशोदिताः । पुंस्तत्त्व एव गन्धान्तं स्थितं षोडशकं पुनः ॥२८९॥ आरभ्य देहपाशाख्यं पुरं बुद्धिगुणास्ततः । तत्रैवाष्टावहंकारस्त्रिधा कामादिकास्तथा ॥२९०॥ पाशा आगन्तुकगाणेशवैद्येश्वरभेदिताः । त्रिविधास्ते स्थिताः पुंसि मोक्षमार्गोपरोधकाः ॥२९१॥ यत्किंचित्परमाद्वैतसंवित्स्वातन्त्र्यसुन्दरात् । पराच्छिवादुक्तरूपादन्यत्तत्पाश उच्यते ॥२९२॥ तदेवं पुंस्त्वमापन्ने पूर्णे ̕पि परमेश्वरे । तत्स्वरूपापरिज्ञानं चित्रं हि पुरुषास्ततः ॥२९३॥ उक्तानुक्तास्तु ये पाशाः परतन्त्रोक्तलक्षणाः । ते पुंसि सर्वे तांस्तत्र शोधयन्मुच्यते भवात् ॥२९४॥ पुंस ऊर्ध्व तु नियतिस्तत्रस्थाः शंकरा दश । हेमाभाः सुसिताः कालतत्त्वे तु दश ते शिवाः ॥२९५॥ कोटिः षोडशसाहस्रं प्रत्येकं परिवारिणः । रागे वीरेशभुवनं गुर्वन्तेवासिनां पुरम् ॥२९६॥ पुरं चाशुद्धविद्यायां स्याच्छक्तिनवकोज्ज्वलम् । मनोन्मन्यन्तगास्ताश्च वामाद्याः परिकीर्तिताः ॥२९७॥ कलायां स्यान्महादेवत्रयस्य पुरमुत्तमम् । ततो माया त्रिपुटिका मुख्यतोऽनन्तकोटिभिः ॥२९८॥ आक्रान्ता सा भगबिलैः प्रोक्तं शैव्यां तनौ पुनः । अङ्गुष्ठमात्रपर्यन्तं महादेवाष्टकं निशि ॥२९९॥ चक्राष्टकाधिपत्येन तथा श्रीमालिनीमते । वामाद्याः पुरुषादौ ये प्रोक्ताः श्रीपूर्वशासने ॥३००॥ ते मायातत्त्व एवोक्तास्तनौ शैव्यामनन्ततः । कपालव्रतिनः स्वाङ्गहोतारः कष्टतापसाः ॥३०१॥ सर्वाभयाः खड्गधाराव्रतास्तत्तत्त्ववेदिनः । क्रमात्तत्तत्त्वमायान्ति यत्रेशोऽनन्त उच्यते ॥३०२॥ उक्तं च तस्य परतः स्थानमनन्ताधिपस्य देवस्य । स्थितिविलयसर्गकर्तुर्गुहाभगद्वारपालस्य ॥३०३॥ धर्मानणिमादिगुणाञ्ज्ञानानि तपःसुखानि योगांश्च । मायाबिलात्प्रदत्ते पुंसां निष्कृष्य निष्कृष्य ॥३०४॥ तच्छक्तीद्धस्वबला गुहाधिकारान्धकारगुणदीपाः । सर्वे ̕नन्तप्रमुखा दीप्यन्ते शतभवप्रमुखान्ताः ॥३०५॥ सो ̕व्यक्तमधिष्ठाय प्रकरोति जगन्नियोगतः शम्भोः । शुद्धाशुद्धस्रोतो ̕धिकारहेतुः शिवो यस्मात् ॥३०६॥ शिवगुणयोगे तस्मिन् महति पदे ये प्रतिष्ठिताः प्रथमम् । तेऽनन्तादेर्जगतः सर्गस्थितिविलयकर्तारः ॥३०७॥ मायाबिलमिदमुक्तं परतस्तु गुहा जगद्योनिः । उत्पत्त्या तेष्वस्याः पतिशक्तिक्षोभमनुविधीयमानेषु ॥३०८॥ योनिविवरेषु नानाकामसमृद्धेषु भगसंज्ञा । कामयते पतिरेनामिच्छानुविधायिनीं यदा देवीम् ॥३०९॥ प्रतिभगमव्यक्ताद्याः प्रजास्तदास्याः प्रजायन्ते । तेषामतिसूक्ष्माणामेतावत्त्वं न वर्ण्यते विधिषु ॥३१०॥ अववरकाण्येकस्मिन्यद्वत्साले बहूनि बद्धानि । योनिबिलान्येकस्मिंस्तद्वन्मायाशिरःसाले ॥३११॥ मायापटलैः सूक्ष्मैः कुड्यैः पिहिताः परस्परमदृश्याः । निवसन्ति तत्र रुद्राः सुखिनः प्रतिबिलमसंख्याताः ॥३१२॥ स्थाने सायुज्यगताः सामीप्यगताः परे सलोकस्थाः । प्रतिभुवनमेवमयं निवासिनां गुरुभिरुद्दिष्टः ॥३१३॥ अपि सर्वसिद्धवाचः क्षीयेरन्दीर्घकालमुद्गीर्णाः । न पुनर्योन्यानन्त्यादुच्यन्ते स्रोतसां संख्याः ॥३१४॥ तस्मान्निरयाद्येकं यत्प्रोक्तं द्वारपालपर्यन्तम् । स्रोतस्तेनान्यान्यपि तुल्यविधानानि वेद्यानि ॥३१५॥ अव्यक्तकले गुहया प्रकृतिकलाभ्यां विकार आत्मीयः । ओतः प्रोतो व्याप्तः कलितः पूर्णः परिक्षिप्तः ॥३१६॥ मध्ये पुटत्रयं तस्या रुद्राः षडधरेऽन्तरे । एक ऊर्ध्वे च पञ्चेति द्वादशैते निरूपिताः ॥३१७॥ गहनासाध्यौ हरिहरदशेश्वरौ त्रिकलगोपती षडिमे । मध्येऽनन्तः क्षेमो द्विजेशविद्येशविश्वशिवाः ॥३१८॥ इति पञ्च तेषु पञ्चसु षट्सु च पुटगेषु तत्परावृत्त्या । परिवर्त्तते स्थितिः किल देवो ̕नन्तस्तु सर्वथा मध्ये ॥३१९॥ ऊर्ध्वाधरगकपालकपुटषट्कयुगेन तत्परावृत्त्या । मध्यतोऽष्टाभिर्दिक्स्थैर्व्याप्तो ग्रन्थिर्मतङ्गशास्त्रोक्तः ॥३२०॥ श्रीसारशासने पुनरेषा षट्पुटतया विनिर्दिष्टा । ग्रन्थ्याख्यमिदं तत्त्वं मायाकार्यं ततो माया ॥३२१॥ मायातत्त्वं विभु किल गहनमरूपं समस्तविलयपदम् । तत्र न भुवनविभागो युक्तो ग्रन्थावसौ तस्मात् ॥३२२॥ मायातत्त्वाधिपतिः सोऽनन्तः समुदितान्विचार्याणून् । युगपत्क्षोभयति निशां सा सूते संपुटैरनन्तैः स्वैः ॥३२३॥ तेन कलादिधरान्तं यदुक्तमावरणजालमखिलं तत् । निःसंख्यं च विचित्रं मायैवैका त्वभिन्नेयम् ॥३२४॥ उक्तं श्रीपूर्वशास्त्रे च धराव्यक्तात्मकं द्वयम् । असंख्यातं निशाशक्तिसंज्ञं त्वेकस्वरूपकम् ॥३२५॥ पाशाः पुरोक्ताः प्रणवाः पञ्चमानाष्टकं मुनेः । कुलं योनिश्च वागीशी यस्यां जातो न जायते ॥३२६॥ दीक्षाकाले ̕धराध्वस्थशुद्धौ यच्चाधराध्वगम् । अनन्तस्य समीपे तु तत्सर्वं परिनिष्ठितम् ॥३२७॥ साध्यो दाता दमनो ध्यानो भस्मेति बिन्दवः पञ्च । पञ्चार्थगुह्यरुद्राङ्कुशहृदयलक्षणं च सव्यूहम् ॥३२८॥ आकर्षादर्शौ चेत्यष्टकमेतत्प्रमाणानाम् । अलुप्तविभवाः सर्वे मायातत्त्वाधिकारिणः ॥३२९॥ मायामयशरीरास्ते भोगं स्वं परिभुञ्जते । प्रलयान्ते ह्यनन्तेन संहृतास्ते त्वहर्मुखे ॥३३०॥ अन्यानन्तप्रसादेन विबुधा अपि तं परम् । सुप्तबुद्धं मन्यमानाः स्वतन्त्रम्मन्यताजडाः ॥३३१॥ स्वात्मानमेव जानन्ति हेतुं मायान्तरालगाः । अतः परं स्थिता माया देवी जन्तुविमोहिनी ॥३३२॥ देवदेवस्य सा शक्तिरतिदुर्घटकारिता । निर्वैरपरिपन्थिन्या तया भ्रमितबुद्धयः ॥३३३॥ इदं तत्त्वमिदं नेति विवदन्तीह वादिनः । गुरुदेवाग्निशास्त्रेषु ये न भक्ता नराधमाः ॥३३४॥ सत्पथं तान्परित्याज्य सोत्पथं नयति ध्रुवम् । असद्युक्तिविचारज्ञाञ्छुष्कतर्कावलम्बिनः ॥३३५॥ भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया । शिवदीक्षासिना च्छिन्ना शिवज्ञानासिना तथा ॥३३६॥ न प्ररोहेत्पुनर्नान्यो हेतुस्तच्छेदनं प्रति । महामायोर्ध्वतः शुद्धा महाविद्याथ मातृका ॥३३७॥ वागीश्वरी च तत्रस्थं वामादिनवसत्पुरम् । वामा ज्येष्ठा रौद्री काली कलविकरणीबलविकारिके तथा ॥३३८॥ मथनी दमनी मनोन्मनी च त्रिदृशः पीताः समस्तास्ताः । सप्तकोट्यो मुख्यमन्त्रा विद्यातत्त्वेऽत्र संस्थिताः ॥३३९॥ एकैकार्बुदलक्षांशाः पद्माकारपुरा इह । विद्याराज्ञ्यस्त्रिगुण्याद्याः सप्त सप्तार्बुदेश्वराः ॥३४०॥ विद्यातत्त्वोर्ध्वमैशं तु तत्त्वं तत्र क्रमोर्ध्वगम् । शिखण्ड्याद्यमनन्तान्तं पुराष्टकयुतं पुरम् ॥३४१॥ शिखण्डी श्रीगलो मूर्तिरेकनेत्रैकरुद्रकौ । शिवोत्तमः सूक्ष्मरुद्रोऽनन्तो विद्येश्वराष्टकम् ॥३४२॥ क्रमादूर्ध्वोर्ध्वसंस्थानं सप्तानां नायको विभुः । अनन्त एव ध्येयश्च पूज्यश्चाप्युत्तरोत्तरः ॥३४३॥ मुख्यमन्त्रेश्वराणां यत् सार्धं कोटित्रयं स्थितम् । तन्नायका इमे तेन विद्येशाश्चक्रवर्तिनः ॥३४४॥ उक्तं च गुरुभिरित्थं शिवतन्वाद्येषु शासनेष्वेतत् । भगबिलशतकलितगुहामूर्धासनगो ̕ष्टशक्तियुग्देवः ॥३४५॥ गहनाद्यं निरयान्तं सृजति च रुद्रांश्च विनियुङ्क्ते । उद्धरति मनोन्मन्या पुंसस्तेष्वेव भवति मध्यस्थः ॥३४६॥ ते तेनोदस्तचितः परतत्त्वालोचने ̕भिनिविशन्ते । स पुनरधः पथवर्तिष्वधिकृत एवाणुषु शिवेन ॥३४७॥ अवसितपतिविनियोगः सार्धमनेकात्ममन्त्रकोटीभिः । निर्वात्यनन्तनाथस्तद्धामाविशति सूक्ष्मरुद्रस्तु ॥३४८॥ अनुगृह्याणुमपूर्वं स्थापयति पतिः शिखण्डिनः स्थाने । इत्यष्टौ परिपाट्या यावद्धामानि याति गुरुरेकः ॥३४९॥ तावदसंख्यातानां जन्तूनां निर्वृतिं कुरुते । तेऽष्टावपि शक्त्यष्टकयोगामलजलरुहासनासीनाः ॥३५०॥ आलोकयन्ति देवं हृदयस्थं कारणं परमम् । तं भगवन्तमनन्तं ध्यायन्तः स्वहृदि कारणं शान्तम् ॥३५१॥ सप्तानुध्यायन्त्यपि मन्त्राणां कोटयः शुद्धाः । मायादिरवीच्यन्तो भवस्त्वनन्तादिरुच्यतेऽप्यभवः ॥३५२॥ शिवशुद्धगुणाधीकारान्तः सो ̕प्येष हेयश्च । अत्रापि यतो दृष्टानुग्राह्याणां नियोज्यता शैवी ॥३५३॥ इष्टा च तन्निवृत्तिर्ह्यभवस्त्वधरे न भूयते यस्मात् । पत्युरपसर्पति यतः कारणता कार्यता च सिद्धेभ्यः ॥३५४॥ कञ्चुकवच्छिवसिद्धौ तावतिभवसंज्ञयातिमध्यस्थौ । धर्मज्ञानविरागैश्यचतुष्टयपुरं तु यत् ॥३५५॥ रूपावरणसंज्ञं तत्तत्त्वे ̕स्मिन्नैश्वरे विदुः । वामा ज्येष्ठा च रौद्रीति भुवनत्रयशोभितम् ॥३५६॥ सूक्ष्मावरणमाख्यातमीशतत्त्वे गुरूत्तमैः । ऐशात्सादाशिवं ज्ञानक्रियायुगलमण्डितम् ॥३५७॥ शुद्धावरणमित्याहुरुक्ता शुद्धावृतेः परम् । विद्यावृतिस्ततो भावाभावशक्तिद्वयोज्ज्वला ॥३५८॥ शक्त्यावृतिः प्रमाणाख्या ततः शास्त्रे निरूपिता । शक्त्यावृतेस्तु तेजस्विध्रुवेशाभ्यामलङ्कृतम् ॥३५९॥ तेजस्व्यावरणं वेदपुरा मानावृतिस्ततः । मानावृतेः सुशुद्धावृत्पुरत्रितयशोभिता ॥३६०॥ सुशुद्धावरणादूर्ध्व शैवमेकपुरं भवेत् । शिवावृतेरूर्ध्वमाहुर्मोक्षावरणसंज्ञितम् ॥३६१॥ अस्यां मोक्षावृतौ रुद्रा एकादश निरूपिताः । मोक्षावरणतस्त्वेकपुरमावरणं ध्रुवम् ॥३६२॥ ऊर्ध्वे ध्रुवावृतेरिच्छावरणं तत्र ते शिवाः । ईश्वरेच्छागृहान्तस्थास्तत्पुरं चैकमुच्यते ॥३६३॥ इच्छावृतेः प्रबुद्धाख्यं दिग्रुद्राष्टकचर्चितम् । प्रबुद्धावरणादूर्ध्व समयावरणं महत् ॥३६४॥ भुवनैः पञ्चभिर्गर्भीकृतानन्तसमावृति । सामयात्सौशिवं तत्र सादाख्यं भुवनं महत् ॥३६५॥ तस्मिन्सदाशिवो देवस्तस्य सव्यापसव्ययोः । ज्ञानक्रिये परेच्छा तु शक्तिरुत्सङ्गगामिनी ॥३६६॥ सृष्ट्यादिपञ्चकृत्यानि कुरुते स तयेच्छया । पञ्च ब्रह्माण्यङ्गषट्कं सकलाद्यष्टकं शिवाः ॥३६७॥ दशाष्टादश रुद्राश्च तैरेव सुशिवो वृतः । सद्यो वामाघोरौ पुरुषेशौ ब्रह्मपञ्चकं हृदयम् ॥३६८॥ मूर्धशिखावर्मदृगस्त्रमङ्गानि षट् प्राहुः । सकलाकलशून्यैः सह कलाढ्यखमलङ्कृते क्षपणमन्त्यम् ॥३६९॥ कण्ठ्यौष्ठ्यमष्टमं किल सकलाष्टकमेतदाम्नातम् । ॐ कारशिवौ दीप्तो हेत्वीशदशेशकौ सुशिवकालौ ॥३७०॥ सूक्ष्मसुतेजःशर्वाः शिवाः दशैतेऽत्र पूर्वादेः । विजयो निःश्वासश्च स्वायम्भुवो वह्निवीररौरवकाः ॥३७१॥ मुकुटविसरेन्दुविन्दुप्रोद्गीता ललितसिद्धरुद्रौ च । सन्तानशिवौ परकिरणपारमेशा इति स्मृता रुद्राः ॥३७२॥ सर्वेषामेतेषां ज्ञानानि विदुः स्वतुल्यनामानि । मन्त्रमुनिकोटिपरिवृत मथ विभुवामादिरुद्रतच्छक्तियुतम् ॥३७३॥ तारादिशक्तिजुष्टं सुशिवासनमतिसितकजमसंख्यदलम् । यः शक्तिरुद्रवर्गः परिवारे विष्टरे च सुशिवस्य ॥३७४॥ प्रत्येकमस्य निजनिजपरिवारे परार्धकोटयो ̕संख्याः । मायामलनिर्मुक्ताः केवलमधिकारमात्रसंरूढाः ॥३७५॥ सुशिवावरणे रुद्राः सर्वज्ञाः सर्वशक्तिसम्पूर्णाः । अधिकारबन्धविलये शान्ताः शिवरूपिणो पुनर्भविनः ॥३७६॥ ऊर्ध्वे बिन्द्वावृतिर्दीप्ता तत्र तत्र पद्मं शशिप्रभम् । शान्त्यतीतः शिवस्तत्र तच्छक्त्युत्सङ्गभूषितः ॥३७७॥ निवृत्त्यादिकलावर्गपरिवारसमावृतः । असंख्यरुद्रतच्छक्तिपुरकोटिभिरावृतः ॥३७८॥ श्रीमन्मतङ्गशास्त्रे च लयाख्यं तत्त्वमुत्तमम् । पारिभाषिकमित्येतन्नाम्ना बिन्दुरिहोच्यते ॥३७९॥ चतुर्मूर्तिमयं शुभ्रं यत्तत्सकलनिष्कलम् । तस्मिन्भोगः समुद्दिष्ट इत्यत्रेदं च वर्णितम् ॥३८०॥ निवृत्त्यादेः सुसूक्ष्मत्वाद्धराद्यारब्धदेहता । मातुः स्फूर्जन्महाज्ञानलीनत्वान्न विभाव्यते ॥३८१॥ उद्रिक्त तैजसत्वेन हेम्नो भूपरमाणवः । यथा पृथङ्न भान्त्येवमूर्ध्वाधोरुद्रदेहगाः ॥३८२॥ बिन्दूर्ध्वेऽर्धेन्दुरेतस्य कला ज्योत्स्ना च तद्वती । कान्तिः प्रभा च विमला पञ्चैता रोधिकास्ततः ॥३८३॥ रुन्धनी रोधनी रोद्ध्री ज्ञानबोधा तमोपहा । एताः पञ्च कलाः प्राहुर्निरोधिन्यां गुरूत्तमाह् ॥३८४॥ अर्धमात्रः स्मृतो बिन्दुर्व्योमरूपी चतुष्कलः । तदर्धमर्धचन्द्रस्तदष्टांशेन निरोधिका ॥३८५॥ हेतून्ब्रह्मादिकान् रुन्द्धे रोधिकां तां त्यजेत्ततः । निरोधिकामिमां भित्त्वा सादाख्यं भुवनं परम् ॥३८६॥ पररूपेण यत्रास्ते पञ्चमन्त्रमहातनुः । इत्यर्धेन्दुनिरोध्यन्तबिन्द्वावृत्यूर्ध्वतो महान् ॥३८७॥ नादः किञ्जल्कसदृशो महद्भिः पुरुषैर्वृतः । चत्वारि भुवनान्यत्र दिक्षु मध्ये च पञ्चमम् ॥३८८॥ इन्धिका दीपिका चैव रोधिका मोचिकोर्ध्वगा । मध्येऽत्र पद्मं तत्रोर्ध्वगामी तच्छक्तिभिर्वृतः ॥३८९॥ नादोर्ध्वतस्तु सौषुम्नं तत्र तच्छक्तिभृत्प्रभुः । तदीशः पिङ्गलेलाभ्यां वृतः सव्यापसव्ययोः ॥३९०॥ या प्रभोरङ्कगा देवी सुषुम्ना शशिसप्रभा । ग्रथितो ̕ध्वा तया सर्व ऊर्ध्वश्चाधस्तनस्तथा ॥३९१॥ नादःसुषुम्नाधारस्तु भित्त्वा विश्वमिदं जगत् । अधःशक्त्या विनिर्गच्छेदूर्ध्वशक्त्या च मूर्धतः ॥३९२॥ नाड्या ब्रह्मबिले लीनः सो ̕व्यक्तध्वनिरक्षरः । नदन्सर्वेषु भूतेषु शिवशक्त्या ह्यधिष्ठितः ॥३९३॥ सुषुम्नोर्ध्वे ब्रह्मबिलसंज्ञयावरणं त्रिदृक् । तत्र ब्रह्मा सितः शूली पञ्चास्यः शशिशेखरः ॥३९४॥ तस्योत्सङ्गे परा देवी ब्रह्माणी मोक्षमार्गगा । रोद्ध्री दात्री च मोक्षस्य तां भित्त्वा चोर्ध्वकुण्डली ॥३९५॥ शक्तिः सुप्ताहिसदृशी सा विश्वाधार उच्यते । तस्यां सूक्ष्मा सुसूक्ष्मा च तथान्ये अमृतामिते ॥३९६॥ मध्यतो व्यापिनी तस्यां व्यापीशो व्यापिनीधरः । शक्तितत्त्वमिदं यस्य प्रपञ्चोऽयं धरान्तकः ॥३९७॥ शिवतत्त्वं ततस्तत्र चतुर्दिक्कं व्यवस्थिताः । व्यापी व्योमात्मकोऽनन्तोऽनाथस्तच्छक्तिभागिनः ॥३९८॥ मध्ये त्वनाश्रितं तत्र देवदेवो ह्यनाश्रितः । तच्छक्त्युत्सङ्गभृत्सूर्यशतकोटिसमप्रभः ॥३९९॥ शिवतत्त्वोर्ध्वतः शक्तिः परा सा समनाह्वया । सर्वेषां कारणानां सा कर्तृभूता व्यवस्थिता ॥४००॥ बिभर्त्यण्डान्यनेकानि शिवेन समधिष्ठिता । तदारूढः शिवः कृत्यपञ्चकं कुरुते प्रभुः ॥४०१॥ समना करणं तस्य हेतुकर्तुर्महोशितुः । अनाश्रितं तु व्यापारे निमित्तं हेतुरुच्यते ॥४०२॥ तयाधितिष्ठति विभुः कारणानां तु पञ्चकम् । अनाश्रितो ̕नाथमयमनन्तं खवपुः सदा ॥४०३॥ स व्यापिनं प्रेरयति स्वशक्त्या करणेन तु । कर्मरूपा स्थिता माया यदधः शक्तिकुण्डली ॥४०४॥ नादबिन्द्वादिकं कार्यमित्यादिजगदुद्भवः । यत्सदाशिवपर्यन्तं पार्थिवाद्यं च शासने ॥४०५॥ तत्सर्व प्राकृतं प्रोक्तं विनाशोत्पत्तिसंयुतम् । अथ सकलभुवनमानं यन्मह्यं निगदितं निजैर्गुरुभिः ॥४०६॥ तद्वक्ष्यते समासाद्बुद्धौ येनाशु सङ्क्रामेत् । अण्डस्यान्तरनन्तः कालः कूष्माण्डहाटकौ ब्रह्महरी ॥४०७॥ रुद्राः शतं सवीरं बहिर्निवृत्तिस्तु साष्टशतभुवना स्यात् । जलतेजःसमीरनभोऽहंकृद्धीमूलसप्तके प्रत्येकम् ॥४०८॥ अष्टौ षट्पञ्चाशद्भुवना तेन प्रतिष्ठेति कला कथिता । अत्र प्राहुः शोध्यानष्टौ केचिन्निजाष्टकाधिपतीन् ॥४०९॥ अन्ये तु समस्तानां शोध्यत्वं वर्णयन्ति भुवनानाम् । श्रीभूतिराजमिश्रा गुरवः प्राहुः पुनर्बही रुद्रशतम् ॥४१०॥ अष्टावन्तः साकं शर्वेणेतीदृशी निवृत्तिरियं स्यात् । रुद्राः काली वीरो धराब्धिलक्ष्म्यः सरस्वती गुह्यम् ॥४११॥ इत्यष्टकं जलेऽनौ वह्न्यतिगुह्यद्वयं मरुति वायोः । स्वपुरं गयादि खे च व्योम पवित्राष्टकं च भुवनयुगम् ॥४१२॥ अभिमानेऽहङ्कारच्छगलाद्यष्टकमथान्तरा नभोऽहंकृत् । तन्मात्रार्केन्दुश्रतिपुराष्टकं बुद्धिकर्मदेवानाम् ॥४१३॥ दश तन्मात्रसमूहे भुवनं पुनरक्षवर्गविनिपतिते । मनसश्चेत्यभिमाने द्वाविंशतिरेव भुवनानाम् ॥४१४॥ धियि दैवीनामष्टौ क्रुत्तेजोयोगसंज्ञकं त्रयं तदुमा । तत्पतिरथ मूर्त्यष्टकसुशिवद्वादशकवीरभद्राः स्युः ॥४१५॥ तदथ महादेवाष्टकमिति बुद्धौ सप्तदश संख्या । गुणतत्त्वे पङ्क्तित्रयमिति षट्पञ्चाशतं पुराणि विदुः ॥४१६॥ यद्यपि गुणसाम्यात्मनि मूले क्रोधेश्वराष्टकं तथापि धियि । तच्छोधितमिति गणनां न पुनः प्राप्तं प्रतिष्ठायाम् ॥४१७॥ इति जलतत्त्वान्मूलं तत्त्वचतुर्विंशतिः प्रतिष्ठायाम् । अम्बादितुष्टिवर्गस्ताराद्याः सिद्धयो ̕णिमादिगणः ॥४१८॥ गुरवो गुरुशिष्या ऋषिवर्ग इडादिश्च विग्रहाष्टकयुक् । गन्धादिविकारपुरं बुद्धिगुणाष्टकमहंक्रिया विषयगुणाः ॥४१९॥ कामादिसप्तविंशकमागन्तु तथा गणेशविद्येशमयौ । इति पाशेषु पुरत्रयमित्थं पुरुषेऽत्र भुवनषोडशकम् ॥४२०॥ नियतौ शङ्करदशकं काले शिवदशकमिति पुरद्वितयम् । रागे सुहृष्टभुवनं गुरुशिष्यपुरं च वित्कलायुगले ॥४२१॥ भुवनं भुवनं निशि पुटपुरत्रयं वाक्पुरं प्रमाणपुरम् । इति सप्तविंशतिपुरा विद्या पुरुषादितत्त्वसप्तकयुक् ॥४२२॥ वामेशरूपसूक्ष्मं शुद्धं विद्याथ शक्तितेजस्विमितिः । सुविशुद्धिशिवौ मोक्ष धुवेषिसंबुद्धसमयसौशिवसंज्ञाः ॥४२३॥ सप्तदशपुरा शान्ता विद्येशसदाशिवपुरत्रितययुक्ता । बिन्द्वर्धेन्दुनिरोध्यः परसौशिवमिन्धिकादिपुरसौषुम्ने ॥४२४॥ परनादो ब्रह्मबिलं सूक्ष्मादियुतोर्ध्वकुण्डली शक्तिः । व्यापिव्योमानन्तानाथानाश्रितपुराणि पञ्च ततः ॥४२५॥ षष्ठं च परममनाश्रितमथ समनाभुवनषोडशी यदि वा । बिन्द्वावरणं परसौशिवं च पञ्चेन्धिकादिभुवनानि ॥४२६॥ सौषुम्नं ब्रह्मबिलं कुण्डलिनी व्यापिपञ्चकं समना । इति षोडशभुवनेयं तत्त्वयुगं शान्त्यतीता स्यात् ॥४२७॥ श्रीमन्मतङ्गशास्त्रे च क्रमोऽयं पुरपूगगः । कालाग्निर्नरकाः खाब्धियुतं मुख्यतया शतम् ॥४२८॥ कूष्माण्डः सप्तपाताली सप्तलोकी महेश्वरः । इत्यण्डमध्यं तद्बाह्ये शतं रुद्रा इति स्थिताः ॥४२९॥ स्थानानां द्विशती भूमिः सप्तपञ्चाशता युता । पञ्चाष्टकस्य मध्याद्द्वात्रिंशद्भूतचतुष्टये ॥४३०॥ तन्मात्रेषु च पञ्च स्युर्विश्वेदेवास्ततोऽष्टकम् । पञ्चमं सेन्द्रिये गर्वे बुद्धौ देवाष्टकं गुणे ॥४३१॥ योगाष्टकं क्रोधसंज्ञं मूले काले सनैयते । पतद्रुगाद्याश्चाङ्गुष्ठमात्राद्या रागतत्त्वगाः ॥४३२॥ द्वादशैकशिवाद्याः स्युर्विद्यायां कलने दश । वामाद्यास्त्रिशती सेयं त्रिपर्वण्यब्धिरस्ययुक् ॥४३३॥ शैवाः केचिदिहानन्ताः श्रैकण्ठा इति संग्रहः । यत्र यदा परभोगान् बुभुक्षते तत्र योजनं कार्यम् ॥४३४॥ शोधनमथ तद्धानौ शेषं त्वन्तर्गतं कार्यम् । इत्यागमं प्रथयितुं दर्शितमेतद्विकल्पितं तेन ॥४३५॥ अन्ये ̕पि बहुविकल्पाः स्वधियाचार्यैः समभ्यूह्याः । श्रीपूर्वशासने पुनरष्टादशाधिकं शतं कथितम् ॥४३६॥ तदिह प्रधानमधिकं संक्षेपेणोच्यते शोध्यम् । कालाग्निः कूष्माण्डो नरकेशो हाटकोऽथ भूतलपः ॥४३७॥ ब्रह्मा मुनिलोकेशो रुद्राः पञ्चान्तरालस्थाः । अधरेऽनन्तः प्राच्याः कपालिवह्न्यन्तनिरृतिबलाख्याः ॥४३८॥ लघुनिधिपतिविद्याधिपशम्भूर्ध्वान्तं सवीरभद्रपति । एकादशभिर्बाह्ये ब्रह्माण्डं पञ्चभिस्तथान्तरिकैः ॥४३९॥ इति षोडशपुरमेतन्निवृत्तिकलयेह कलनीयम् । लकुलीशभारभूती दिण्ड्याषाढी च पुष्करनिमेषौ ॥४४०॥ प्रभाससुरेशाविति सलिले प्रत्यात्मकं सपरिवारे । भैरवकेदारमहाकाला मध्याम्रजल्पाख्याः ॥४४१॥ श्रीशैलहरिश्चन्द्राविति गुह्याष्टकमिदं महसि । भीमेन्द्राट्टहासविमलकनखलनाखलकुरुस्थितिगयाख्याः ॥४४२॥ अतिगुह्याष्टकमेतन्मरुति च सतन्मात्रके च साक्षे च । स्थाणुसुवर्णाख्यौ किल भद्रो गोकर्णको महालयकः ॥४४३॥ अविमुक्तरुद्रकोटी वस्त्रापद इत्यदः पवित्रं खे । स्थूलस्थूलेशशङ्कुश्रुतिकालञ्जराश्च मण्डलभृत् ॥४४४॥ माकोटाण्डद्वितयच्छगलाण्डा अष्टकं ह्यहङ्कारे । अन्येऽहङ्कारान्तस्तन्मात्राणीन्द्रियाणि चाप्याहुः ॥४४५॥ धियि योन्यष्टकमुक्तं प्रकृतौ योगाष्टकं किलाकृतप्रभृति । इति सप्ताष्टकभुवना प्रतिष्ठितिः सलिलतो हि मूलान्ता ॥४४६॥ नरि वामो भीमोग्रौ भवेशवीराः प्रचण्डगौरीशौ । अजसानन्तैकशिवौ विद्यायां क्रोधचण्डयुग्मं स्यात् ॥४४७॥ संवर्तो ज्योतिरथो कलानियत्यां च सूरपञ्चान्तौ । वीरशिखीशश्रीकण्ठसंज्ञमेतत्त्रयं च काले स्यात् ॥४४८॥ समहातेजा वामो भवोद्भवश्चैकपिङ्गलेशानौ । भुवनेशपुरःसरकावङ्गुष्ठ इमे निशि स्थिता ह्यष्टौ ॥४४९॥ अष्टाविंशतिभुवना विद्या पुरुषान्निशान्तमियम् । हालाहलरुद्रक्रुदम्बिकाघोरिकाः सवामाः स्युः ॥४५०॥ विद्यायां विद्येशास्त्वष्टावीशे सदाशिवे पञ्च । वामा ज्येष्ठा रौद्री शक्तिः सकला च शोन्तयम् ॥४५१॥ अष्टादश भुवना स्यात् शान्त्यतीता त्वभुवनैव । इति देशाध्वविभागः कथितः श्रीशम्भुना समादिष्टः ॥४५२॥
|
|