Tantraloka by Abhinavagupta
In Sanscrito:
CAP.1 - CAP.2 - CAP.3 - CAP.4 - CAP.5 - CAP.6 - CAP.7 - CAP.8 - CAP.9 - CAP.10 CAP.11 - CAP.12 - CAP.13 - CAP.14 - CAP.15 - CAP.16 - CAP.17 - CAP.18 - CAP.19 - CAP.20 CAP.21 - CAP.22 - CAP.23 - CAP.24 - CAP.25 - CAP.26 - CAP.27 - CAP.28 - CAP.29 - CAP.30 CAP.31 - CAP.32 - CAP.33 - CAP.34 - CAP.35 - CAP.36 - CAP.37 - Testo translitterato
TANTRALOKA SANSCRITO
अथ श्रीतन्त्रालोके एकविंशतितममाह्निकम्
परोक्षसंस्थितस्याथ दीक्षाकर्म निगद्यते ॥१॥ भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति । इत्यस्मिन्मालिनीवाक्ये प्रतिः सांमुख्यावाचकः ॥२॥ सांमुख्यं चास्य शिष्यस्य तत्कृपास्पदतात्मकम् । तमाराध्येति वचनं कृपाहेतूपलक्षणम् ॥३॥ तत्संबन्धात्ततः कश्चित्तत्क्षणादपवृज्यते । इत्यस्यायमपि ह्यर्थो मालिनीवाक्यसन्मणेः ॥४॥ तत्क्षणादिति नास्यास्ति यियासादिक्षणान्तरम् । किंत्वेवमेव करुणानिघ्नस्तं गुरुरुद्धरेत् ॥५॥ गुरुसेवाक्षीणतनोर्दीक्षामप्राप्य पञ्चताम् । गतस्याथ स्वयं मृत्युक्षणोदिततथारुचेः ॥६॥ अथवाधरतन्त्रादिदीक्षासंस्कारभागिनः । प्राप्तसामयिकस्याथ परां दीक्षामविन्दतः ॥७॥ डिम्बाहतस्य योगेशीभक्षितस्याभिचारतः । मृतस्य गुरुणा यन्त्रतन्त्रादिनिहतस्य वा ॥८॥ भ्रष्टस्वसमयस्याथ दीक्षां प्राप्तवतोऽप्यलम् । बन्धुभार्यासुहृत्पुत्रगाढाभ्यर्थनयोगतः ॥९॥ स्वयं तद्विषयोत्पन्नकरुणाबलतोऽपि वा । विज्ञाततन्मुखायातशक्तिपातांशधर्मणः ॥१०॥ गुरुर्दीक्षां मृतोद्धारीं कुर्वीत शिवदायिनीम् । श्रीमृत्युञ्जयसिद्धादौ तदुक्तं परमेशिना ॥११॥ अदीक्षिते नृपत्यादावलसे पतिते मृते । बालातुरस्त्रीवृद्धे च मृतोद्धारं प्रकल्पयेत् ॥१२॥ विधिः सर्वः पूर्वमुक्तः स तु संक्षिप्त इष्यते । गुर्वादिपूजारहितो बाह्ये भोगाय सा यतः ॥१३॥ अधिवासचरुक्षेत्रं शय्यामण्डलकल्पने । नोपयोग्यत्र तच्छिष्यसंस्क्रियास्वप्नदृष्टये ॥१४॥ मन्त्रसंनिधिसंतृप्तियोगायात्र तु मण्डलम् । भूयोदिने च देवार्चा साक्षान्नास्योपकारि तत् ॥१५॥ क्रियोपकरणस्थानमण्डलाकृतिमन्त्रतः । ध्यानयोगैकतद्भक्तिज्ञानतन्मयभावतः ॥१६॥ तत्प्रविष्टस्य कस्यापि शिष्याणां च गुरोस्तथा । एकादशैते कथिताः संनिधानाय हेतवः ॥१७॥ उत्तरोत्तरमुत्कृष्टास्तथा व्यामिश्रणावशात् । क्रियातिभूयसी पुष्पाद्युत्तमं लक्षणान्वितम् ॥१८॥ एकलिङ्गादि च स्थानं यत्रात्मा संप्रसीदति । मण्डलं त्रित्रिशूलाब्जचक्रं यन्मन्त्रमण्डले ॥१९॥ अनाहूतेऽपि दृष्टं सत्समयित्वप्रसाधनम् । तदुक्तं मालिनीतन्त्रे सिद्धं समयमण्डलम् ॥२०॥ येन संदृष्टमात्रेति सिद्धमात्रपदद्वयात् । आकृतिर्दीप्तरूपा या मन्त्रस्तद्वत्सुदीप्तिकः ॥२१॥ शिष्टं स्पष्टमतो नेह कथितं विस्तरात्पुनः । कृत्वा मण्डलमभ्यर्च्य तत्र देवं कुशैरथ ॥२२॥ गोमयेनाकृतिं कुर्याच्छिष्यवत्तां निधापयेत् । ततस्तस्यां शोध्यमेकमध्वानं व्याप्तिभावनात् ॥२३॥ प्रकृत्यन्तं विनिक्षिप्य पुनरेनं विधिं चरेत् । महाजालप्रयोगेण सर्वस्मादध्वमध्यतः ॥२४॥ चित्तमाकृष्य तत्रस्थं कुर्यात्तद्विधिरुच्यते । मूलाधारादुदेत्य प्रसृतसुविततानन्तनाड्यध्वदण्डं वीर्येणाक्रम्य नासागगनपरिगतं विक्षिपन् व्याप्तुमीष्टे । यावद्धूमाभिरामप्रचिततरशिखाजालकेनाध्वचक्रं संछाद्याभीष्टजीवानयनमिति महाजालनामा प्रयोगः ॥२५॥ एतेनाच्छादनीयं व्रजति परवशं संमुखीनत्वमादौ पञ्चादानीयते चेत्सकलमथ ततोऽप्यध्वमध्याद्यथेष्टम् । आकृष्टावुद्धृतौ वा मृतजनविषये कर्षणीयेऽथ जीवे योगः श्रीशंभुनाथागमपरिगमितो जालनामा मयोक्तः ॥२६॥ चिरविघटिते सेनायुग्मेयथामिलिते पुनर्हयगजनरं स्वां स्वां जातिं रसादभिधावति । करणपवनैर्नाडीचक्रैस्तथैव समागतैर्निजनिजरसादेकीभाव्यं स्वजालवशीकृतैः ॥२७॥ महाजालसमाकृष्टो जीवो विज्ञानशालिना । स्वःप्रेततिर्यङ्निरयांस्तदैवैष विमुञ्चति ॥२८॥ तज्ज्ञानमन्त्रयोगाप्तः पुरुषश्चैष कृत्रिमम् । योगीव साध्यहृदयात्तदा तादात्म्यमुज्झति ॥२९॥ स्थावरादिदशाश्चित्रास्तत्सलोकसमीपताः । त्यजेच्चेति न चित्रं स एवं यः कर्मणापि वा ॥३०॥ अधिकारिशरीरत्वान्मानुष्ये तु शरीरगः । न तदा मुच्यते देहाद्देहान्ते तु शिवं व्रजेत् ॥३१॥ तस्मिन्देहे तु काप्यस्य जायते शाङ्करी परा । भक्तिरूहाच्च विज्ञानादाचार्याद्वाप्यसेवितात् ॥३२॥ तद्देहसंस्थितोऽप्येष जीवो जालबलादिमम् । दार्भादिदेहं व्याप्नोति स्वाधिष्ठित्याप्यचेतयन् ॥३३॥ योगमन्त्रक्रियाज्ञानभूयोबलवशात्पुनः । मनुष्यदेहमप्येष तदैवाशु विमुञ्चति ॥३४॥ सुप्तकल्पोऽप्यदेहो ̕पि यो जीवः सो ̕पि जालतः । आकृष्टो दार्भमायाति देहं फलमयं च वा ॥३५॥ जातीफलादि यत्किंचित्तेन वा देहकल्पना । अन्तर्बहिर्द्वयौचित्यात्तदत्रोत्कृष्टमुच्यते ॥३६॥ ततो जालक्रमानीतः स जीवः सुप्तवत्स्थितः । मनोविशिष्टदेहादिसामग्रीप्राप्त्यभावतः ॥३७॥ न स्पन्दते न जानाति न वक्ति न किलेच्छति । तादृशस्यैव संस्कारान् सर्वान् प्राग्वत्प्रकल्पयेत् ॥३८॥ निर्बीजदीक्षायोगेन सर्वं कृत्वा पुरोदितम् । विधिं योजनिकां पूर्णाहुत्या साकं क्षिपेच्च तम् ॥३९॥ दार्भादिदेहे मन्त्राग्नावर्पिते पूर्णया सह । मुक्तपाशः शिवं याति पुनरावृत्तिवर्जितः ॥४०॥ सप्रत्यया त्वियं यत्र स्पन्दते दर्भजा तनुः । तत्र प्राणमनोमन्त्रार्पणयोगात्तथा भवेत् ॥४१॥ साभ्यासस्य तदप्युक्तं बलाश्वासि न तत्कृते । मृतोद्धारोदितैरेव यथासंभूति हेतुभिः ॥४२॥ जीवत्परोक्षदीक्षापि कार्या निर्बीजिका तु सा । तस्यां दर्भाकृतिप्रायकल्पने जालयोगतः ॥४३॥ संकल्पमात्रेणाकर्षो जीवस्य मृतिभीतितः । शिष्टं प्राग्वत्कुशाद्युत्थाकारविप्लोषवर्जितम् ॥४४॥ पारिमित्यादनैश्वर्यात्साध्ये नियतियन्त्रणात् । जालाकृष्टिर्विनाभ्यासं रागद्वेषान्न जायते ॥४५॥ परोक्ष एवातुल्याभिर्दीक्षाभिर्यदि दीक्षितः । तत्रोत्तरं स्याद्बलवत्संस्काराय त्वधस्तनम् ॥४६॥ भुक्तियोजनिकायां तु भूयोभिर्गुरुभिस्तथा । कृतायां भोगवैचित्र्यं हेतुवैचित्र्ययोगतः ॥४७॥ परोक्षदीक्षणे मायोत्तीर्णे भोगाय योजयेत् । भोगानीप्सा दुर्लभा हि सती वा भोगहानये ॥४८॥ उक्तं हि स्वान्यसंवित्त्योः स्वसंविद्बलवत्तरा । बाधकत्वे बाधिकासौ साम्यौदासीन्ययोस्तथा ॥४९॥ श्रीमान् धर्मशिवोऽप्याह पारोक्ष्यां कर्मपद्धतौ । परोक्षदीक्षणे सम्यक् पूर्णाहुतिविधौ यदि ॥५०॥ अग्निश्चिटिचिटाशब्दं सधूमं प्रतिमुञ्चति । धत्ते नीलाम्बुदच्छायां मुहुर्ज्वलति शाम्यति ॥५१॥ विस्तरो घोररूपश्च महीं धावति चाप्यधः । ध्वांक्षाद्यश्रव्यशब्दो वा तदा तं लक्षयेद्गुरुः ॥५२॥ ब्रह्महत्यादिभिः पापैस्तत्सङ्गैश्चोपपातकैः । तदा तस्य न कर्तव्या दीक्षास्मिन्नकृते विधौ ॥५३॥ नवात्मा फट्पुटान्तःस्थः पुनः पञ्चफडन्वितः । अमुकस्येति पापानि दहाम्यनु फडष्टकम् ॥५४॥ इति साहस्रिको होमः कर्तव्यस्तिलतण्डुलैः । अन्ते पूर्णा च दातव्या ततोऽस्मै दीक्षया गुरुः ॥५५॥ परयोजनपर्यन्तं कुर्यात्तत्त्वविशोधनम् । प्रत्यक्षेऽपि स्थितस्याणोः पापिनो भगवन्मयीम् ॥५६॥ शक्तिं प्राप्तवतो ज्येष्ठामेवमेव विधिं चरेत् । यदि वा दैशिकः सम्यङ् न दीप्तस्तस्य तत्पुरा ॥५७॥ प्रायश्चित्तैस्तथा दानैः प्राणायामैश्च शोधनम् । कृत्वा विधिमिमां चापि दीक्षां कुर्यादशङ्कितः ॥५८॥ सर्वथा वर्तमानोऽपि तत्त्वविन्मोचयेत्पशून् । इच्छयैव शिवः साक्षात्तस्मात्तं पूजयेत्सदा ॥५९॥ शाठ्यं तत्र न कार्यं च तत्कृत्वाधो व्रजेच्छिशुः । न पुनः कीर्तयेत्तस्य पापं कीर्तयिता व्रजेत् ॥६०॥ निरयं वर्जयेत्तस्मादिति दीक्षोत्तरे विधिः । एषा परोक्षदीक्षा द्विधोदिता जीवदितरभेदेन ॥६१॥
अथ श्रीतन्त्रालोके द्वाविंशतितममाह्निकम्
लिङ्गोद्धाराख्यामथ वच्मः शिवशासनैकनिर्दिष्टाम् ॥१॥ उक्तं श्रीमालिनीतन्त्रे किल पार्थिवधारणाम् । उक्त्वा यो योजितो यत्र स तस्मान्न निवर्तते ॥२॥ योग्यतावशसंजाता यस्य यत्रैव शासना । स तत्रैव नियोक्तव्यो दीक्षाकाले ततस्त्वसौ ॥३॥ फलं सर्वं समासाद्य शिवे युक्तो ̕पवृज्यते । अयुक्तो ̕प्यूर्ध्वसंशुद्धिं संप्राप्य भुवनेशतः ॥४॥ शुद्धः शिवत्वमायाति दग्धसंसारबन्धनः । उक्त्वा पुंधारणां चोक्तमेतद्वैदान्तिकं मया ॥५॥ कपिलाय पुरा प्रोक्तं प्रथमे पटले तथा । अनेन क्रमयोगेन संप्राप्तः परमं पदम् ॥६॥ न भूयः पशुतामेति शुद्धे स्वात्मनि तिष्ठति । अतो हि ध्वन्यतेऽर्थोऽयं शिवतत्त्वाधरेष्वपि ॥७॥ तत्त्वेषु योजितस्यास्ति पुनरुद्धरणीयता । समस्तशास्त्रकथितवस्तुवैविक्त्यदायिनः ॥८॥ शिवागमस्य सर्वेभ्योऽप्यागमेभ्यो विशिष्टता । शिवज्ञानेन च विना भूयो ̕पि पशुतोद्भवः ॥९॥ क्रमश्च शक्तिसंपातो मलहानिर्यियासुता । दीक्षा बोधो हेयहानिरुपादेयलयात्मता ॥१०॥ भोग्यत्वपाशवत्यागः पतिकर्तृत्वसंक्षयः । स्वात्मस्थितिश्चेत्येवं हि दर्शनान्तरसंस्थितेः ॥११॥ प्रोक्तमुद्धरणीयत्वं शिवशक्तीरितस्य हि । अथ वैष्णवबौद्धादितन्त्रान्ताधरवर्तिनाम् ॥१२॥ यदा शिवार्करश्म्योघैर्विकासि हृदयाम्बुजम् । लिङ्गोद्धृतिस्तदा पूर्वं दीक्षाकर्म ततः परम् ॥१३॥ प्राग्लिङ्गान्तरसंस्थो ̕पि दीक्षातः शिवतां व्रजेत् । तत्रोपवास्य तं चान्यदिने साधारमन्त्रतः ॥१४॥ स्थण्डिले पूजयित्वेशं श्रावयेत्तस्य वर्तनीम् । एष प्रागभवल्लिङ्गी चोदितस्त्वधुना त्वया ॥१५॥ प्रसन्नेन तदेतस्मै कुरु सम्यगनुग्रहम् । स्वलिङ्गत्यागशङ्कोत्थं प्रायश्चित्तं च मास्य भूत् ॥१६॥ अचिरात्त्वन्मयीभूय भोगं मोक्षं प्रपद्यताम् । एवमस्त्वित्यथाज्ञां च गृहीर्वा व्रतमस्य तत् ॥१७॥ अपास्याम्भसि निक्षिप्य स्नपयेदनुरूपतः । स्नातं संप्रोक्षयेदर्घपात्राम्भोभिरनन्तरम् ॥१८॥ पञ्चगव्यं दन्तकाष्ठं ततस्तस्मै समर्पयेत् । ततस्तं बद्धनेत्रं च प्रवेश्य प्रणिपातयेत् ॥१९॥ प्रणवो मातृका माया व्योमव्यापी षडक्षरः । बहुरूपोऽथ नेत्राख्यः सप्त साधारणा अमी ॥२०॥ तेषां मध्यादेकतमं मन्त्रमस्मै समर्पयेत् । सोऽप्यहोरात्रमेवैनं जपेदल्पभुगप्यभुक् ॥२१॥ मन्त्रमस्मै समर्प्याथ साधारविधिसंस्कृते । वह्नौ तर्पिततन्मन्त्रे व्रतशुद्धिं समाचरेत् ॥२२॥ पूजितेनैव मन्त्रेण कृत्वा नामास्य संपुटम् । प्रायश्चित्तं शोधयामि फट्स्वाहेत्यूहयोगतः ॥२३॥ शतं सहस्रं वा हुत्वा पुनः पूर्णाहुतिं तथा । प्रयोगाद्वौषडन्तां च क्षिप्त्वाहूय व्रतेश्वरम् ॥२४॥ तारो व्रतेश्वरायेति नमश्चेत्येनमर्चयेत् । श्रावयेच्च त्वया नास्य कार्यं किंचिच्छिवाज्ञया ॥२५॥ ततो व्रतेश्वरस्तर्प्यः स्वाहान्तेन ततश्च सः । क्षमयित्वा विसृज्यः स्यात्ततोऽग्नेश्च विसर्जनम् ॥२६॥ तच्छ्रावणं च देवाय क्षमस्वेति विसर्जनम् । ततस्तृतीयदिवसे प्राग्वत्सर्वो विधिः स्मृतः ॥२७॥ अधिवासादिकः स्वेष्टदीक्षाकर्मावसानकः । प्राग्लिङ्गिनां मोक्षदीक्षा साधिकारविवर्जिता ॥२८॥ साधकाचार्यतामार्गे न योग्यास्ते पुनर्भुवः । पुनर्भुवोऽपि ज्ञानेद्धा भवन्ति गुरुतास्पदम् ॥२९॥ मोक्षायैव न भोगाय भोगायाप्यभ्युपायतः । इत्युक्तवान्स्वपद्धत्यामीशानशिवदैशिकः ॥३०॥ श्रीदेव्या यामलीयोक्तितत्त्वसम्यक्प्रवेदकः । गुर्वन्तस्याप्यधोदृष्टिशायिनः संस्क्रियामिमाम् ॥३१॥ कृत्वा रहस्यं कथयेन्नान्यथा कामिके किल । अन्यतन्त्राभिषिक्तेऽपि रहस्यं न प्रकाशयेत् ॥३२॥ स्वतन्त्रस्थो ̕पि गुर्वन्तो गुरुमज्ञमुपाश्रितः । तत्र पश्चादनाश्वस्तस्तत्रापि विधिमाचरेत् ॥३३॥ अज्ञाचार्यमुखायातं निर्वीर्यं मन्त्रमेष यत् । जप्तवान्स गुरुश्चात्र नाधिकार्युक्तदूषणात् ॥३४॥ ततोऽस्य शुद्धिं प्राक्कृत्वा ततो दीक्षां समाचरेत् । अधोदर्शनसंस्थेन गुरुणा दीक्षितः पुरा ॥३५॥ तीव्रशक्तिवशात्पश्चाद्यदा गच्छेत्स सद्गुरुम् । तदाप्यस्य शिशोरेवं शुद्धिं कृत्वा स सद्गुरुः ॥३६॥ दीक्षादिकर्म निखिलं कुर्यादुक्तविधानतः । प्राप्तो ̕पि सद्गुरुर्योग्यभावमस्य न वेत्ति चेत् ॥३७॥ विज्ञानदाने तच्छिष्यो योग्यतां दर्शयेन्निजाम् । सर्वथा त्वब्रुवन्नेष ब्रुवाणो वा विपर्ययम् ॥३८॥ अज्ञो वस्तुत एवेति तत्त्यक्त्वेत्थं विधिं चरेत् । न तिरोभावशङ्कात्र कर्तव्या बुद्धिशालिना ॥३९॥ अधःस्पृक्त्वं तिरोभूतिर्नोर्ध्वोपायविवेचनम् । सिद्धान्ते दीक्षितास्तन्त्रे दशाष्टादशभेदिनि ॥४०॥ भैरवीये चतुःषष्टौ तान्पशून्दीक्षयेत्त्रिके । सिद्धवीरावलीसारे भैरवीये कुले ̕पि च ॥४१॥ पञ्चदीक्षाक्रमोपात्ता दीक्षानुत्तरसंज्ञिता । तेन सर्वो ̕धरस्थो ̕पि लिङ्गोद्धृत्यानुगृह्यते ॥४२॥ योऽपि हृत्स्थमहेशानचोदनातः सुविस्तृतम् । शास्त्रज्ञानं समन्विच्छेत्सोऽपि यायाद्बहून्गुरून् ॥४३॥ तद्दीक्षाश्चापि गृह्णीयादभिषेचनपश्चिमाः । ज्ञानोपोद्बलिकास्ता हि तत्तज्ज्ञानवता कृताः ॥४४॥ उक्तं च श्रीमते शास्त्रे तत्र तत्र च भूयसा । आमोदार्थी यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् ॥४५॥ विज्ञानार्थी तथा शिष्यो गुरोर्गुर्वन्तरं त्विति । गुरूणां भूयसां मध्ये यतो विज्ञानमुत्तमम् ॥४६॥ प्राप्तं सोऽस्य गुरुर्दीक्षा नात्र मुख्या हि संविदि । सर्वज्ञाननिधानं तु गुरुं संप्राप्य सुस्थितः ॥४७॥ तमेवाराधयेद्धीमांस्तत्तज्जिज्ञासनोन्मुखः । इति दीक्षाविधिः प्रोक्तो लिङ्गोद्धरणपश्चिमः ॥४८॥
अथ श्रीतन्त्रालोके त्रयोविंशतितममाह्निकम्
अथाभिषेकस्य विधिः कथ्यते पारमेश्वरः ॥१॥ यैषा पुत्रकदीक्षोक्ता गुरुसाधकयोरपि । सैवाधिकारिणी भोग्यतत्त्वयुक्तिमती क्रमात् ॥२॥ स्वभ्यस्तज्ञानिनं सन्तं बुभूषुमथ भाविनम् । योग्यं ज्ञात्वा स्वाधिकारं गुरुस्तस्मै समर्पयेत् ॥३॥ यो नैवं वेद नैवासावभिषिक्तोऽपि दैशिकः । समय्यादिक्रमेणेति श्रीमत्कामिक उच्यते ॥४॥ यो न वेदाध्वसन्धानं षोढा बाह्यान्तरस्थितम् । स गुरुर्मोचयेन्नेति सिद्धयोगीश्वरीमते ॥५॥ सर्वलक्षणहीनोऽपि ज्ञानवान् गुरुरिष्यते । ज्ञानप्राधान्यमेवोक्तमिति श्रीकचभार्गवे ॥६॥ पदवाक्यप्रमाणज्ञः शिवभक्त्येकतत्परः । समस्तशिवशास्त्रार्थबोद्धा कारुणिको गुरुः ॥७॥ न स्वयंभूस्तस्य चोक्तं लक्षणं परमेशिना । अभक्तो जीवितधिया कुर्वन्नीशानधिष्ठितः ॥८॥ पश्चात्मना स्वयंभूष्णुर्नाधिकारी स कुत्रचित् । भस्माङ्कुरो व्रतिसुतो दुःशीलातनयस्तथा ॥९॥ कुण्डो गोलश्च ते दुष्टा उक्तं देव्याख्ययामले । पुनर्भूश्चान्यलिङ्गो यः पुनः शैवे प्रतिष्ठितः ॥१०॥ श्रीपूर्वशास्त्रे न त्वेष नियमः कोऽपि चोदितः । यथार्थतत्त्वसंघज्ञस्तथा शिष्ये प्रकाशकः ॥११॥ यः पुनः सर्वतत्त्वानि वेत्तीत्यादि च लक्षणम् । योगचारे च यद्यत्र तन्त्रे चोदितमाचरेत् ॥१२॥ तथैव सिद्धये सेयमाज्ञेति किल वर्णितम् । यस्तु कर्मितयाचार्यस्तत्र काणादिवर्जनम् ॥१३॥ यतः कारकसामग्र्यात्कर्मणो नाधिकः क्वचित् । देव्या यामलशास्त्रे च काञ्च्यादिपरिवर्जनम् ॥१४॥ तद्दृष्टदोषात्क्रोधादेः सम्यक्ज्ञातर्यसौ कुतः । गुरवस्तु स्वयंभ्वादि वर्ज्यं यद्यामलादिषु ॥१५॥ कर्म्यभिप्रायतः सर्वं तदिति व्याचचक्षिरे । अतो देशकुलाचारदेहलक्षणकल्पनाम् ॥१६॥ अनादृत्यैव संपूर्णज्ञानं कुर्याद्गुरुर्गुरुम् । प्राग्वत्संपूज्य हुत्वा च श्रावयित्वा चिकीर्षितम् ॥१७॥ ततो ̕भिषिञ्चेत्तं शिष्यं चतुःषष्ट्या ततः सकृत् । तन्मन्त्ररसतोयेन पूर्वोक्तविधिना गुरुः ॥१८॥ विभवेन सुविस्तीर्णं ततस्तस्मै वदेत्स्वकम् । सर्वं कर्तव्यसारं यच्छास्त्राणां परमं रहः ॥१९॥ अनुग्राह्यास्त्वया शिष्याः शिवशक्तिप्रचोदिताः । उक्तं ज्ञानोत्तरे चैतद्ब्राह्मणाः क्षत्रिया विशः ॥२०॥ नपुंसकाः स्त्रियः शूद्रा ये चान्येऽपि तदर्थिनः । ते दीक्षायां न मीमांस्या ज्ञानकाले विचारयेत् ॥२१॥ ज्ञानमूलो गुरुः प्रोक्तः सप्तसत्रीं प्रवर्तयेत् । दीक्षा व्याख्या कृपा मैत्री शास्त्रचिन्ता शिवैकता ॥२२॥ अन्नादिदानमित्येतत्पालयेत्सप्तसत्रकम् । अभिषेकविधौ चास्मै करणीखटिकादिकम् ॥२३॥ सर्वोपकरणव्रातमर्पणीयं विपश्चिते । सो ̕भिषिक्तो गुरुं पश्चाद्दक्षिणाभिः प्रपूजयेत् ॥२४॥ ज्ञानहीनो गुरुः कर्मी स्वाधिकारं समर्प्य नो । दीक्षाद्यधिकृतिं कुर्याद्विना तस्याज्ञया पुनः ॥२५॥ इत्येवं श्रावयेत्सोऽपि नमस्कृत्याभिनन्दयेत् । ततः प्रभृत्यसौ पूर्वो गुरुस्त्यक्ताधिकारकः ॥२६॥ यथेच्छं विचरेद्व्याख्यादीक्षादौ यन्त्रणोज्झितः । कुर्वन्न बाध्यते यस्माद्दीपाद्दीपवदीदृशः ॥२७॥ सन्तानो नाधिकारस्य च्यवोऽकुर्वन्न बाध्यते । प्राक् च कुर्वन्विहन्येत सिद्धातन्त्रे तदुच्यते ॥२८॥ यथार्थमुपदेशं तु कुर्वन्नाचार्य उच्यते । न चावज्ञा क्रियाकाले संसारोद्धरणं प्रति ॥२९॥ न दीक्षेत गुरुः शिष्यं तत्त्वयुक्तस्तु गर्वतः । योऽस्य स्यान्नरके वास इह च व्याधितो भवेत् ॥३०॥ प्राप्ताभिषेकः स गुरुः षण्मासान्मन्त्रपद्धतिम् । सर्वां तन्त्रोदितां ध्यायेज्जपेच्चातन्मयत्वतः ॥३१॥ यदैव तन्मयीभूतस्तदा वीर्यमुपागतः । छिन्द्यात्पाशांस्ततो यत्नं कुर्यात्तन्मयतास्थितौ ॥३२॥ हृच्चक्रादुत्थिता सूक्ष्मा शशिस्फटिकसंनिभा । लेखाकारा नादरूपा प्रशान्ता चक्रपङ्क्तिगा ॥३३॥ द्वादशान्ते निरूढा सा सौषुम्ने त्रिपथान्तरे । तत्र हृच्चक्रमापूर्य जपेन्मन्त्रं ज्वलत्प्रभम् ॥३४॥ चक्षुर्लोमादिरन्ध्रौघवहज्ज्वालौर्वसंनिभम् । यावच्छान्तशिखाकीर्णं विश्वाज्यप्रविलापकम् ॥३५॥ तदाज्यधारासंतृप्तमानाभिकुहरान्तरम् । एवं मन्त्रा मोक्षदाः स्युर्दीप्ता बुद्धाः सुनिर्मलाः ॥३६॥ मूलकन्दनभोनाभिहृत्कण्ठालिकतालुगम् । अर्धेन्दुरोधिकानादतदन्तव्यापिशक्तिगम् ॥३७॥ समनोन्मनशुद्धात्मपरचक्रसमाश्रितम् । यत्र यत्र जपेच्चक्रे समस्तव्यस्तभेदनात् ॥३८॥ तत्र तत्र महामन्त्र इति देव्याख्ययामले । विद्याव्रतमिदं प्रोक्तं मन्त्रवीर्यप्रसिद्धये ॥३९॥ तच्च तादात्म्यमेवेति यदुक्तं स्पन्दशासने । तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः ॥४०॥ प्रवर्तन्ते ̕धिकाराय करणानीव देहिनाम् । कृतविद्याव्रतः पश्चाद्दीक्षाव्याख्यादि सर्वतः ॥४१॥ कुर्याद्योग्येषु शिष्येषु नायोग्येषु कदाचन । रहस्ये योजयेद्विप्रं परीक्ष्य विपरीततः ॥४२॥ आचाराच्छक्तिमप्येव नान्यथेत्यूर्मिशासने । नित्याद्यल्पाल्पकं कुर्याद्यदुक्तं ब्रह्मयामले ॥४३॥ चीर्णविद्याव्रतः सर्वं मनसा वा स्मरेत्प्रिये । देहसंबन्धसंछन्नसार्वज्ञ्यो दम्भभाजनम् ॥४४॥ अविदन्दीक्षमाणोऽपि न दुष्येद्दैशिकः क्वचित् । ज्ञात्वा त्वयोग्यतां नैनं दीक्षेत प्रत्यवायिताम् ॥४५॥ बुद्ध्वा ज्ञाने शास्त्रसिद्धिगुरुत्वादौ च तं पुनः । भूय एव परीक्षेत तत्तदौचित्यशालिनम् ॥४६॥ तत्र तत्र नियुञ्जीत नतु जातु विपर्ययात् । ननु तद्वस्त्वयोग्यस्य तत्रेच्छा जायते कुतः ॥४७॥ तदीशाधिष्ठितेच्छैव योग्यतामस्य सूचयेत् । सत्यं कापि प्रबुद्धासाविच्छा रूढिं न गच्छति ॥४८॥ विद्युद्वत्पापशीलस्य यथा पापापवर्जने । रूढ्यरूढी तदिच्छाया अपि शंभुप्रसादतः ॥४९॥ अप्ररूढतथेच्छाकस्तत एव न भाजनम् । यः सम्यग्ज्ञानमादाय गुरुविश्वासवर्जितः ॥५०॥ लोकं विप्लावयेन्नास्मिञ्ज्ञाते विज्ञानमर्पयेत् । अज्ञाते ̕पि पुनर्ज्ञाते विज्ञानहरणं चरेत् ॥५१॥ पुनःपुनर्यदा ज्ञातो विश्वासपरिवर्जितः । तदा तमग्रतो ध्यायेत्स्फुरन्तं चन्द्रसूर्यवत् ॥५२॥ ततो निजहृदम्भोजबोधाम्बरतलोदिताम् । स्वर्भानुमलिनां ध्यायेद्वामां शक्तिं विमोहनीम् ॥५३॥ वामाचारक्रमेणैनां निःसृतां साध्यगामिनीम् । चिन्तयित्वा तया ग्रस्तप्रकाशं तं विचिन्तयेत् ॥५४॥ अनेन क्रमयोगेन मूढबुद्धेर्दुरात्मनः । विज्ञानमन्त्रविद्याद्याः प्रकुर्वन्त्यपकारिताम् ॥५५॥ ननु विज्ञानमात्मस्थं कथं हर्तुं क्षमं भवेत् । अतो विज्ञानहरणं कथं श्रीपूर्व उच्यते ॥५६॥ उच्यते नास्य शिष्यस्य विज्ञानं रूढिमागतम् । तथात्वे हरणं कस्मात्पूर्णयोग्यत्वशालिनः ॥५७॥ किंत्वेष वामया शक्त्या मूढो गाढं विभोः कृतः । स्वभावादेव तेनास्य विद्याद्यमपकारकम् ॥५८॥ गुरुः पुनः शिवाभिन्नः सन्यः पञ्चविधां कृतिम् । कुर्याद्यदि ततः पूर्णमधिकारित्वमस्य तत् ॥५९॥ अतो यथा शुद्धतत्त्वसृष्टिस्थित्योर्मलात्यये । योजनानुग्रहे कार्यचतुष्के ̕धिकृतो गुरुः ॥६०॥ शिवाभेदेन तत्कुर्यात्तद्वत्पञ्चममप्ययम् । तिरोभावाभिधं कृत्यं तथासौ शिवतात्मकः ॥६१॥ अत एव शिवे शास्त्रे ज्ञाने चाश्वासभाजनम् । गुरोर्मूढतया कोपधामापि न तिरोहितः ॥६२॥ गुरुर्हि कुपितो यस्य स तिरोहित उच्यते । संसारी सतु देवो हि गुरुर्न च मृषाविदः ॥६३॥ तत एव च शास्त्रादिदूषको यद्यपि क्रुधा । न दह्यतेऽसौ गुरुणा तथाप्येष तिरोहितः ॥६४॥ अस्मद्गुर्वागमस्त्वेष तिरोभूते स्वयं शिशौ । न कुप्येन्न शपेद्धीमान् स ह्यनुग्राहकः सदा ॥६५॥ ईशेच्छाचोदितः पाशं यदि कण्ठे निपीडयेत् । किमाचार्येण तत्रास्य कार्या स्यात्सहकारिता ॥६६॥ शिवाभिन्नोऽपि हि गुरुरनुग्रहमयीं विभोः । मुख्यां शक्तिमुपासीनोऽनुगृह्णीयात्स सर्वथा ॥६७॥ स्वातन्त्र्यमात्रज्ञप्त्यै तु कथितं शास्त्र ईदृशम् । न कार्यं पततां हस्तालम्बः सह्यो न पातनम् ॥६८॥ अत एव स्वतन्त्रत्वादिच्छायाः पुनरुन्मुखम् । प्रायश्चित्तैर्विशोध्यैनं दीक्षेत कृपया गुरुः ॥६९॥ ऊर्ध्वदृष्टौ प्रपन्नः सन्ननाश्वस्तस्ततः परम् । अधःशास्त्रं प्रपद्यापि न श्रेयःपात्रतामियात् ॥७०॥ अधोदृष्टौ प्रपन्नस्तु तदनाश्वस्तमानसः । ऊर्ध्वशासनभाक् पापं तच्चोज्झेच्च शिवीभवेत् ॥७१॥ राज्ञे द्रुह्यन्नमात्याङ्गभूतोऽपि हि विहन्यते । विपर्ययस्तु नेत्येवमूर्ध्वां दृष्टिं समाश्रयेत् ॥७२॥ श्रीपूर्वशास्त्रे तेनोक्तं यावत्तेनैव नोद्धृतः । अत्र ह्यर्थोऽयमेतावत्पूर्वोक्तज्ञानवृंहितः ॥७३॥ गुरुस्तावत्स एवात्र तच्छब्देनावमृश्यते । तादृक्स्वभ्यस्तविज्ञानभाजोर्ध्वपदशालिना ॥७४॥ अनुद्धृतस्य न श्रेय एतदन्यगुरूद्धृतेः । अत एवाम्बुजन्मार्कदृष्टान्तोऽत्र निरूपितः ॥७५॥ त्रिजगज्ज्योतिषो ह्यन्यत्तेजोऽन्यच्च निशाकृतः । ज्ञानमन्यत्त्रिकगुरोरन्यत्त्वधरवर्तिनाम् ॥७६॥ अत एव पुराभूतगुर्वभावो यदा तदा । तदन्यं लक्षणोपेतमाश्रयेत्पुनरुन्मुखः ॥७७॥ सति तस्मिंस्तून्मुखः सन्कस्माज्जह्याद्यदि स्फुटम् । स्यादन्यतरगो दोषो यो ̕धिकारापघातकः ॥७८॥ दोषश्चेह न लोकस्थो दोषत्वेन निरूप्यते । अज्ञानख्यापनायुक्तख्यापनात्मा त्वसौ मतः ॥७९॥ शिष्यस्यापि तथाभूतज्ञानानाश्वस्तरूपता । मुख्यो दोषस्तदन्ये हि दोषास्तत्प्रभवा यतः ॥८०॥ न ध्वस्तव्याधिकः को हि भिषजं बहु मन्यते । असूयुर्नूनमध्वस्तव्याधिः स्वस्थायते बलात् ॥८१॥ एवं ज्ञानसमाश्वस्तः किं किं न गुरवे चरेत् । नो चेन्नूनमविश्वस्तो विश्वस्त इव तिष्ठति ॥८२॥ अज्ञानादय एवैते दोषा न लौकिका गुरोः । इति ख्यापयितुं प्रोक्तं मालिनीविजयोत्तरे ॥८३॥ न तस्यान्वेषयेद्वृत्तं शुभं वा यदि वाशुभम् । स एव तद्विजानाति युक्तं चायुक्तमेव वा ॥८४॥ अकार्येषु यदा सक्तः प्राणद्रव्यापहारिषु । तदा निवारणीयो ̕सौ प्रणतेन विपश्चिता ॥८५॥ विशेषणमकार्याणामुक्ताभिप्रायमेव यत् । तेनातिवार्यमाणोऽपि यद्यसौ न निवर्तते ॥८६॥ तदान्यत्र क्वचिद्गत्वा शिवमेवानुचिन्तयेत् । न ह्यस्य स गुरुत्वे स्याद्दोषो येनोषरे कृषिम् ॥८७॥ कुर्याद्व्रजेन्निशायां वा स त्वर्थप्राणहारकः । तदीयाप्रियभीरुस्तु परं तादृशमाचरेत् ॥८८॥ यतस्तदप्रियं नैष शृणुयादिति भाषितम् । श्रीमातङ्गे तदुक्तं च नाधीतं भूमभीतितः ॥८९॥ यच्चैतदुक्तमेतावत्कर्तव्यमिति तद्ध्रुवम् । तीव्रशक्तिगृहीतानां स्वयमेव हृदि स्फुरेत् ॥९०॥ उपदेशस्त्वयं मन्दमध्यशक्तेर्निजां क्रमात् । शक्तिं ज्वलयितुं प्रोक्तः सा ह्येवं जाज्वलीत्यलम् ॥९१॥ दृढानुरागसुभगसंरम्भाभोगभागिनः । स्वोल्लासि स्मरसर्वस्यं दार्ढ्यायान्यत्र दृश्यते ॥९२॥ नन्वेष कस्माद्दृष्टान्तः किमेतेनाशुभं कृतम् । चित्स्पन्दः सर्वगो भिन्नादुपाधेः स तथा तथा ॥९३॥ भवेत्कोऽपि तिरोभूतः पुनरुन्मुखितोऽपि सन् । विनापि दैशिकात्प्राग्वत्स्वयमेव विमुच्यते ॥९४॥ प्रकारस्त्वेष नात्रोक्तः शक्तिपातबलाद्गतः । असंभाव्यतया चात्र दृढकोपप्रसादवत् ॥९५॥ इत्येष यो गुरोः प्रोक्तो विधिस्तं पालयेद्गुरुः । अन्यथा न शिवं यायाच्छ्रीमत्सारे च वर्णितम् ॥९६॥ अन्यायं ये प्रकुर्वन्ति शास्त्रार्थं वर्जयन्त्यलम् । तेऽर्धनारीशपुरगा गुरवः समयच्युताः ॥९७॥ अन्यत्राप्यधिकारं च नेयाद्विद्येशतां व्रजेत् । अन्यत्र समयत्यागात्क्रव्यादत्वं शतं समाः ॥९८॥ इयत्तत्रत्यतात्पर्यं सिद्धान्तगुरुरुन्नयः । भवेत्पिशाचविद्येशः शुद्ध एव तु तान्त्रिकः ॥९९॥ षडर्धदैशिकश्चार्धनारीशभुवनस्थितिः । एषा कर्मप्रधानानां गुरूणां गतिरुच्यते ॥१००॥ ज्ञानिनां चैष नो बन्ध इति सर्वत्र वर्णितम् । साधकस्याभिषेके ̕पि सर्वोऽयं कथ्यते विधिः ॥१०१॥ अधिकारार्पणं नात्र नच विद्याव्रतं किल । साध्यमन्त्रार्पणं त्वत्र स्वोपयोगिक्रियाक्रमे ॥१०२॥ समस्तेऽप्युपदेशः स्यान्निजोपकरणार्पणम् । अभिषेकविधिर्निरूपितः परमेशेन यथा निरूपितः ॥१०३॥
अथ श्रीतन्त्रालोके चतुर्विंशतितममाह्निकम्
अथ शाम्भवशासनोदितां सरहस्यां शृणुतान्त्यसंस्क्रियाम् ॥१॥ सर्वेषामधरस्थानां गुर्वन्तानामपि स्फुटम् । शक्तिपातात्पुराप्रोक्तात्कुर्यादन्त्येष्टिदीक्षणम् ॥२॥ ऊर्ध्वशासनगानां च समयोपहतात्मनाम् । अन्त्येष्टिदीक्षा कर्तव्या गुरुणा तत्त्ववेदिना ॥३॥ समयाचारदोषेषु प्रमादात्स्खलितस्य हि । अन्त्येष्टिदीक्षा कार्येति श्रीदीक्षोत्तरशासने ॥४॥ यत्किंचित्कथितं पूर्वं मृतोद्धाराभिधे विधौ । प्रतिमायां तदेवात्र सर्वं शवतनौ चरेत् ॥५॥ श्रीसिद्धातन्त्रकथितो विधिरेष निरूप्यते । अन्तिमं यद्भवेत्पूर्वं तत्कृत्वान्तिममादिमम् ॥६॥ संहृत्यैकैकमिष्टिर्या सान्त्येष्टिर्द्वितयी मता । पूजाध्यानजपाप्लुष्टसमये नतु साधके ॥७॥ पिण्डपातादयं मुक्तः खेचरो वा भवेत्प्रिये । आचार्ये तत्त्वसंपन्ने यत्र तत्र मृते सति ॥८॥ अन्त्येष्टिर्नैव विद्येत शुद्धचेतस्यमूर्धनि । मन्त्रयोगादिभिर्ये च मारिता नरके तु ते ॥९॥ कार्या तेषामिहान्त्येष्टिर्गुरुणातिकृपालुना । न मण्डलादिकं त्वत्र भवेच्छमाशानिके विधौ ॥१०॥ केचित्तदपि कर्तव्यमूचिरे प्रेतसद्मनि । पूजयित्वा विभुं सर्वं न्यासं पूर्ववदाचरेत् ॥११॥ संहारक्रमयोगेन चरणान्मूर्धपश्चिमम् । तथैव बोधयेदेनं क्रियाज्ञानसमाधिभिः ॥१२॥ बिन्दुना रोधयेत्तत्त्वं शक्तिबीजेन वेधयेत् । घट्टयेन्नाददेशे तु त्रिशूलेन तु ताडयेत् ॥१३॥ सुषुम्नान्तर्गतेनैव विसर्गेण पुनः पुनः । ताडयेत कलाः सर्वाः कम्पतेऽसौ ततः पशुः ॥१४॥ उत्क्षिपेद्वामहस्तं वा ततस्तं योजयेत्परे । प्रत्ययेन विना मोक्षो ह्यश्रद्धेयो विमोहितैः ॥१५॥ तदर्थमेतदुदितं नतु मोक्षोपयोग्यदः । इत्यूचे परमेशः श्रीकुलगह्वरशासने ॥१६॥ साध्योऽनुमेयो मोक्षादिः प्रत्ययैर्यदतीन्द्रियः । दीक्षोत्तरे च पुर्यष्टवर्गार्पणमिहोदितम् ॥१७॥ तद्विधिः श्रुतिपत्रेऽब्जे मध्ये देवं सदाशिवम् । ईशरुद्रहरिब्रह्मचतुष्कं प्राग्दिगादितः ॥१८॥ पूजयित्वा श्रुतिस्पर्शौ रसं गन्धं वपुर्द्वयम् । ध्यहंकृती मनश्चेति ब्रह्मादिष्वर्पयेत्क्रमात् ॥१९॥ एतेषां तर्पणं कृत्वा शतहोमेन दैशिकः । एषा सांन्यासिकी दीक्षा पुर्यष्टकविशोधनी ॥२०॥ पुर्यष्टकस्याभावे च न स्वर्गनरकादयः । तथा कृत्वा न कर्तव्यं लौकिकं किंचनापि हि ॥२१॥ उक्तं श्रीमाधवकुले शासनस्थो मृतेष्वपि । पिण्डपातोदकास्र्वादि लौकिकं परिवर्जयेत् ॥२२॥ शिवं संपूज्य चक्रार्चां यथाशक्ति समाचरेत् । क्रमात्त्रिदशमत्रिंशत्रिंशवत्सरवासरे ॥२३॥ इत्युक्तोऽन्त्येष्टियागोऽयं परमेश्वरभाषितः ॥२४॥
|
|