Tantraloka by Abhinavagupta
In Sanscrito:
CAP.1 - CAP.2 - CAP.3 - CAP.4 - CAP.5 - CAP.6 - CAP.7 - CAP.8 - CAP.9 - CAP.10 CAP.11 - CAP.12 - CAP.13 - CAP.14 - CAP.15 - CAP.16 - CAP.17 - CAP.18 - CAP.19 - CAP.20 CAP.21 - CAP.22 - CAP.23 - CAP.24 - CAP.25 - CAP.26 - CAP.27 - CAP.28 - CAP.29 - CAP.30 CAP.31 - CAP.32 - CAP.33 - CAP.34 - CAP.35 - CAP.36 - CAP.37 - Testo translitterato
TANTRALOKA SANSCRITO
अथ श्रीतन्त्रालोके एकादशमाह्निकम्
कलाध्वा वक्ष्यते श्रीमच्छांभवाज्ञानुसारतः ॥१॥ यथा पूर्वोक्तभुवनमध्ये निजनिजं गणम् । अनुयत्परतो भिन्नं तत्त्वं नामेति भण्यते ॥२॥ तथा तेष्वपि तत्त्वेषु स्ववर्गेऽनुगमात्मकम् । व्यावृत्तं परवर्गाच्च कलेति शिवशासने ॥३॥ केचिदाहुः पुनर्यासौ शक्तिरन्तः सुसूक्ष्मिका । तत्त्वानां सा कलेत्युक्ता धरण्यां धारिका यथा ॥४॥ अत्र पक्षद्वये वस्तु न भिन्नं भासते यतः । अनुगामि न सामान्यमिष्टं नैयायिकादिवत् ॥५॥ अन्ये वदन्ति दीक्षादौ सुखसंग्रहणार्थतः । शिवेन कल्पितो वर्गः कलेति समयाश्रयः ॥६॥ कृतश्च देवदेवेन समयोऽपरमार्थताम् । न गच्छतीति नासत्यो न चान्यसमयोदयः ॥७॥ निवृत्तिः पृथिवीतत्त्वे प्रतिष्ठाव्यक्तगोचरे । विद्या निशान्ते शान्ता च शक्त्यन्ते ̕ण्डमिदं चतुः ॥८॥ शान्तातीता शिवे तत्त्वे कलातीतः परः शिवः । नह्यत्र वर्गीकरणं समयः कलनापि वा ॥९॥ युज्यते सर्वतोदिक्कं स्वातन्त्र्योल्लासधामनि । स्वातन्त्र्यात्तु निजं रूपं बोद्धृधर्मादविच्युतम् ॥१०॥ उपदेशतदावेशपरमार्थत्वसिद्धये । बोध्यतामानयन्देवः स्फुटमेव विभाव्यते ॥११॥ यतोऽतः शिवतत्त्वे ̕पि कलासंगतिरुच्यते । अण्डं च नाम भुवनविभागस्थितिकारणम् ॥१२॥ प्राहुरावरणं तच्च शक्त्यन्तं यावदस्ति हि । यद्यपि प्राक् शिवाख्ये ̕पि तत्त्वे भुवनपद्धतिः ॥१३॥ उक्ता तथाप्यप्रतिघे नास्मिन्नावृतिसंभवः । नन्वेवं धरणीं मुक्त्वा शक्तौ प्रकृतिमाययोः ॥१४॥ अपि चाप्रतिघत्वे ̕पि कथमण्डस्य संभवः । अत्रास्मद्गुरवः प्राहुर्यत्पृथिव्यादिपञ्चकम् ॥१५॥ प्रत्यक्षमिदमाभाति ततोऽन्यन्नास्ति किंचन । मेयत्वे स्थूलसूक्ष्मत्वान्मानत्वे करणत्वतः ॥१६॥ कर्तृतोल्लासतः कर्तृभावे स्फुटतयोदितम् । त्रिंशत्तत्त्वं विभेदात्म तदभेदो निशा मता ॥१७॥ कार्यत्वकरणत्वादिविभागगलने सति । विकासोत्कस्वतन्त्रत्वे शिवान्तं पञ्चकं जगुः ॥१८॥ श्रीमत्कालोत्तरादौ च कथितं भूयसा तथा । पञ्चैतानि तु तत्त्वानि यैर्व्याप्तमखिलं जगत् ॥१९॥ पञ्चमन्त्रतनौ तेन सद्योजातादि भण्यते । ईशानान्तं तत्र तत्र धरादिगगनान्तकम् ॥२०॥ शिवतत्त्वमतः शून्यातिशून्यं स्यादनाश्रि[वृ]तम् । यत्तु सर्वाविभागात्म स्वतन्त्रं बोधसुन्दरम् ॥२१॥ सप्तत्रिंशं तु तत्प्राहुस्तत्त्वं परशिवाभिधम् । तस्याप्युक्तनयाद्वेद्यभावेऽत्र परिकल्पिते ॥२२॥ यदास्ते ह्यनवच्छिन्नं तदष्टात्रिंशमुच्यते । न चानवस्था ह्येवं स्याद्दृश्यतां हि महात्मभिः ॥२३॥ यद्वेद्यं किंचिदाभाति तत्क्षये यत्प्रकाशते । तत्तत्त्वमिति निर्णीतं षट्त्रिंशं हृदि भासते ॥२४॥ तत्किं न किंचिद्वा किंचिदित्याकाङ्क्षावशे वपुः । चिदानन्दस्वतन्त्रैकरूपं तदिति देशने ॥२५॥ सप्तत्रिंशं समाभाति तत्राकाङ्क्षा च नापरा । तच्चापि क्लृप्तवेद्यत्वं यत्र भाति स चिन्मयः ॥२६॥ अष्टात्रिंशत्तमः सो ̕पि भावनायोपदिश्यते । यदि नाम ततः सप्तत्रिंश एव पुनर्भवेत् ॥२७॥ अविभागस्वतन्त्रत्वचिन्मयत्वादिधर्मता । समैव वेद्यीकरणं केवलं त्वधिकं यतः ॥२८॥ धरायां गुणतत्त्वान्ते मायान्ते क्रमशः स्थिताः । गन्धो रसो रूपमन्तः सूक्ष्मभावक्रमेण तु ॥२९॥ इति स्थिते नये शक्तितत्त्वान्तेऽप्यस्ति सौक्ष्म्यभाक् । स्पर्शः कोऽपि सदा यस्मै योगिनः स्पृहयालवः ॥३०॥ तत्स्पर्शान्ते तु संवित्तिः शुद्धचिद्व्योमरूपिणी । यस्यां रूढः समभ्येति स्वप्रकाशात्मिकां पराम् ॥३१॥ अतो विन्दुरतो नादो रूपमस्मादतो रसः । इत्युक्तं क्षोभकत्वेन स्पन्दे स्पर्शस्तु नो तथा ॥३२॥ मतं चैतन्महेशस्य श्रीपूर्वे यदभाषत । धारिकाप्यायिनी बोद्ध्री पवित्री चावकाशदा ॥३३॥ एभिः शब्दैर्व्यवहरन् निवृत्त्यादेर्निजं वपुः । पञ्चतत्त्वविधिः प्रोक्तस्त्रितत्त्वमधुनोच्यते ॥३४॥ विज्ञानाकलपर्यन्तमात्मा विद्येश्वरान्तकम् । शेषे शिवस्त्रितत्त्वे स्यादेकतत्त्वे शिवः परम् ॥३५॥ इमौ भेदावुभौ तत्त्वभेदमात्रकृताविति । तत्त्वाध्वैवायमित्थं च न षडध्वस्थितेः क्षतिः ॥३६॥ प्रकृत् पुमान्यतिः कालो माया विद्येशसौशिवौ । शिवश्च नवतत्त्वे ̕पि विधौ तत्त्वाध्वरूपता ॥३७॥ एवमष्टादशाख्ये ̕पि विधौ न्यायं वदेत्सुधीः । यत्र यत्र हि भोगेच्छा तत्प्राधान्योपयोगतः ॥३८॥ अन्यान्तर्भावनातश्च दीक्षानन्तविभेदभाक् । तेन षट्त्रिंशतो यावदेकतत्त्वविधिर्भवेत् ॥३९॥ तत्त्वाध्वैव स देवेन प्रोक्तो व्याससमासतः । एकतत्त्वविधिश्चैष सुप्रबुद्धं गुरुं प्रति ॥४०॥ शिष्यं च गतभोगाशमुदितः शंभुना यतः । भेदं विस्फार्य विस्फार्य शक्त्या स्वच्छन्दरूपया ॥४१॥ स्वात्मन्यभिन्ने भगवान्नित्यं विश्रमयन् स्थितः । इत्थं त्र्यात्माध्वनो भेदः स्थूलसूक्ष्मपरत्वतः ॥४२॥ मेयभागगतः प्रोक्तः पुरतत्त्वकलात्मकः । अधुना मातृभागस्थं रूपं त्रेधा निरूप्यते ॥४३॥ यत्प्रमाणात्मकं रूपमध्वनो मातृभागगम् । पदं ह्यवगमात्मत्वसमावेशात्तदुच्यते ॥४४॥ तदेव च पदं मन्त्रः प्रक्षोभात्प्रच्युतं यदा । गुप्तभाषी यतो माता तूष्णींभूतो व्यवस्थितः ॥४५॥ तथापि न विमर्शात्म रूपं त्यजति तेन सः । प्रमाणात्मविमर्शात्मा मानवत्क्षोभभाङ्नतु ॥४६॥ मन्त्राणां च पदानां च तेनोक्तं त्रिकशासने । अभिन्नमेव स्वं रूपं निःस्पन्दक्षोभिते परम् ॥४७॥ औदासीन्यपरित्यागे प्रक्षोभानवरोहणे । वर्णाध्वा मातृभागे स्यात् पूर्वं या कथिता प्रमा ॥४८॥ सा तु पूर्णस्वरूपत्वादविभागमयी यतः । तत एकैकवर्णत्वं तत्त्वे तत्त्वे क्षमादितः ॥४९॥ कृत्वा शैवे परे प्रोक्ताः षोडशार्णा विसर्गतः । तत्र शक्तिपरिस्पन्दस्तावान् प्राक् च निरूपितः ॥५०॥ संकलय्योच्यते सर्वमधुना सुखसंविदे । पदमन्त्रवर्णमेकं पुरषोडशकं धरेति च निवृत्तिः । तत्त्वार्णमग्निनयनं रसशरपुरमस्त्रमन्त्रपदमन्या ॥५१॥ मुनितत्त्वार्णं द्विकपदमन्त्रं वस्वक्षिभुवनमपरकला । अग्न्यर्णतत्त्वमेककपदमन्त्रं सैन्यभुवनमिति तुर्या ॥५२॥ षोडश वर्णाः पदमन्त्रतत्त्वमेकं च शान्त्यतीतेयम् । अभिनवगुप्तेनार्यात्रयमुक्तं संग्रहाय शिष्येभ्यः ॥५३॥ सोऽयं समस्त एवाध्वा भैरवाभेदवृत्तिमान् । तत्स्वातन्त्र्यात्स्वतन्त्रत्वमश्नुवानो ̕वभासते ॥५४॥ तथाहि मातृरूपस्थो मन्त्राध्वेति निरूपितः । तथाहि चिद्विमर्शेन ग्रस्ता वाच्यदशा यदा ॥५५॥ शिवज्ञानक्रियायत्तमननत्राणतत्परा । अशेषशक्तिपटलीलीलालाम्पट्यपाटवात् ॥५६॥ च्युता मानमयाद्रूपात् संविन्मन्त्राध्वतां गता । प्रमाणरूपतामेत्य प्रयात्यध्वा पदात्मताम् ॥५७॥ तथा हि मातुर्विश्रान्तिर्वर्णान्संघट्य तान्बहून् । संघट्टनं च क्रमिकं संजल्पात्मकमेव तत् ॥५८॥ विकल्पस्य स्वकं रूपं भोगावेशमयं स्फुटम् । अतः प्रमाणतारूपं पदमस्मद्गुरुर्जगौ ॥५९॥ प्रमाणरूपतावेशमपरित्यज्य मेयताम् ॥६०॥ गच्छन्कलनया योगादध्वा प्रोक्तः कलात्मकः । शुद्धे प्रमेयतायोगे सूक्ष्मस्थूलत्वभागिनि ॥६१॥ तत्त्वाध्वभुवनाध्वत्वे क्रमेणानुसरेद्गुरुः । प्रमेयमानमातॄणां यद्रूपमुपरि स्थितम् ॥६२॥ प्रमात्मात्र स्थितोऽध्वायं वर्णात्मा दृश्यतां किल । उच्छलत्संविदामात्रविश्रान्त्यास्वादयोगिनः ॥६३॥ सर्वाभिधानसामर्थ्यादनियन्त्रितशक्तयः । सृष्टाः स्वात्मसहोत्थेऽर्थे धरापर्यन्तभागिनि ॥६४॥ आमृशन्तः स्वचिद्भूमौ तावतो ̕र्थानभेदतः । वर्णौघास्ते प्रमारूपां सत्यां बिभ्रति संविदम् ॥६५॥ बालास्तिर्यक्प्रमातारो येऽप्यसंकेतभागिनः । तेऽप्यकृत्रिमसंस्कारसारामेनां स्वसंविदम् ॥६६॥ भिन्नभिन्नामुपाश्रित्य यान्ति चित्रां प्रमातृताम् । अस्या चाकृत्रिमानन्तवर्णसंविदि रूढताम् ॥६७॥ संकेता यान्ति चेत्ते ̕पि यान्त्यसंकेतवृत्तिताम् । अनया तु विना सर्वे संकेता बहुशः कृताः ॥६८॥ अविश्रान्ततया कुर्युरनवस्थां दुरुत्तराम् । बालो व्युत्पाद्यते येन तत्र संकेतमार्गणात् ॥६९॥ अङ्गुल्यादेशनेऽप्यस्य नाविकल्पा तथा मतिः । विकल्पः शब्दमूलश्च शब्दः संकेतजीवितः ॥७०॥ तेनानन्तो ह्यमायीयो यो वर्णग्राम ईदृशः । संविद्विमर्शसचिवः सदैव स हि जृम्भते ॥७१॥ यत एव च मायीया वर्णाः सूतिं वितेनिरे । ये च मायीयवर्णेषु वीर्यत्वेन निरूपिताः ॥७२॥ संकेतनिरपेक्षास्ते प्रमेति परिगृह्यताम् । तथा हि परवाक्येषु श्रुतेष्वाव्रियते निजा ॥७३॥ प्रमा यस्य जडोऽसौ नो तत्रार्थेऽभ्येति मातृताम् । शुकवत्स पठत्येव परं तत्क्रमितैकभाक् ॥७४॥ स्वातन्त्र्यलाभतः स्वाक्यप्रमालाभे तु बोद्धृता । यस्य हि स्वप्रमाबोधो विपक्षोद्भेदनिग्रहात् ॥७५॥ वाक्यादिवर्णपुञ्जे स्वे स प्रमाता वशीभवेत् । यथा यथा चाकृतकं तद्रूपमतिरिच्यते ॥७६॥ तथा तथा चमत्कारतारतम्यं विभाव्यते । आद्यामायीयवर्णान्तर्निमग्ने चोत्तरोत्तरे ॥७७॥ सकेते पूर्वपूर्वांशमज्जने प्रतिभाभिदः । आद्योद्रेकमहत्त्वे ̕पि प्रतिभात्मनि निष्ठिताः ॥७८॥ ध्रुवं कवित्ववक्तृत्वशालितां यान्ति सर्वतः । यावद्धामनि संकेतनिकारकलनोज्झिते ॥७९॥ विश्रान्तश्चिन्मये किं किं न वेत्ति कुरुते न वा । अत एव हि वाक्सिद्धौ वर्णानां समुपास्यता ॥८०॥ सर्वज्ञत्वादिसिद्धौ वा का सिद्धिर्या न तन्मयी । तदुक्तं वरदेन श्रीसिद्धयोगीश्वरीमते ॥८१॥ तेन गुप्तेन गुप्तास्ते शेषा वर्णास्त्विति स्फुटम् । एवं मामातृमानत्वमेयत्वैर्योऽवभासते ॥८२॥ षड्विधः स्ववपुःशुद्धौ शुद्धिं सो ̕ध्वाधिगच्छति । एकेन वपुषा शुद्धौ तत्रैवान्यप्रकारताम् ॥८३॥ अन्तर्भाव्याचरेच्छुद्धिमनुसंधानवान् गुरुः । अनन्तर्भावशक्तौ तु सूक्ष्मं सूक्ष्मं तु शोधयेत् ॥८४॥ तद्विशुद्धं बीजभावात् सूते नोत्तरसंततिम् । शोधनं बहुधा तत्तद्भोगप्राप्त्येकतानता ॥८५॥ तदाधिपत्यं तत्त्यागस्तच्छिवात्मत्ववेदनम् । तल्लीनता तन्निरासः सर्वं चैतत्क्रमाक्रमात् ॥८६॥ अत एव च ते मन्त्राः शोधकाश्चित्ररूपिणः । सिद्धान्तवामदक्षादौ चित्रां शुद्धिं वितन्वते ॥८७॥ अनुत्तरत्रिकानामक्रममन्त्रास्तु ये किल । ते सर्वे सर्वदाः किन्तु कस्याचित् क्वापि मुख्यता ॥८८॥ अतः शोधकभावेन शास्त्रे श्रीपूर्वसंज्ञिते । परापरादिमन्त्राणामध्वन्युक्ता व्यवस्थितिः ॥८९॥ शोधकत्वं च मालिन्या देवीनां त्रितयस्य च । देवत्रयस्य वक्त्राणामङ्गानामष्टकस्य च ॥९०॥ किं वातिबहुना द्वारवास्त्वाधारगुरुक्रमे । लोकपास्त्रविधौ मन्त्रान् मुक्त्वा सर्वं विशोधकम् ॥९१॥ यच्चैतदध्वनः प्रोक्तं शोध्यत्वं शोद्धृता च या । सा स्वातन्त्र्याच्छिवाभेदे युक्तेत्युक्तं च शासने ॥९२॥ सर्वमेतद्विभात्येव परमेशितरि ध्रुवे । प्रतिबिम्बस्वरूपेण न तु बाह्यतया यतः ॥९३॥ चिद्व्योम्न्येव शिवे तत्तद्देहादिमतिरीदृशी । भिन्ना संसारिणां रज्जौ सर्पस्रग्वीचिबुद्धिवत् ॥९४॥ यतः प्राग्देहमरणसिद्धान्तः स्वप्नगोचरः । देहान्तरादिर्मरणे कीदृग्वा देहसंभवः ॥९५॥ स्वप्नेऽपि प्रतिभामात्रसामान्यप्रथनाबलात् । विशेषाः प्रतिभासन्ते न भाव्यन्तेऽपि ते यथा ॥९६॥ शालग्रामोपलाः केचिच्चित्राकृतिभृतो यथा । तथा मायादिभूम्यन्तलेखाचित्रहृदश्चितः ॥९७॥ नगरार्णवशैलाद्यास्तदिच्छानुविधायिनः । न स्वयं सदसन्तो नो कारणाकारणात्मकाः ॥९८॥ नियतेश्चिररूढायाः समुच्छेदात्प्रवर्तनात् । अरूढायाः स्वतन्त्रोऽयं स्थितश्चिद्व्योमभैरवः ॥९९॥ एकचिन्मात्रसंपूर्णभैरवाभेदभागिनि । एवमस्मीत्यनामर्शो भेदको भावमण्डले ॥१००॥ सर्वप्रमाणैर्नो सिद्धं स्वप्ने कर्त्रन्तरं यथा । स्वसंविदः स्वसिद्धायास्तथा सर्वत्र बुद्ध्यताम् ॥१०१॥ चित्तचित्रपुरोद्याने क्रीडेदेवं हि वेत्ति यः । अहमेव स्थितो भूतभावतत्त्वपुरैरिति ॥१०२॥ एवं जातो मृतोऽस्मीति जन्ममृत्युविचित्रताः । अजन्मन्यमृतौ भान्ति चित्तभित्तौ स्वनिर्मिताः ॥१०३॥ परेहसंविदामात्रं परलोकेहलोकते । वस्तुतः संविदो देशः कालो वा नैव किंचन ॥१०४॥ अभविष्यदयं सर्गो मूर्तश्चेन्न तु चिन्मयः । तदवेक्ष्यत तन्मध्यात् केनैको ̕पि धराधरः ॥१०५॥ भूततन्मात्रवर्गादेराधाराधेयताक्रमे । अन्ते संविन्मयी शक्तिः शिवरूपैव धारिणी ॥१०६॥ तस्मात्प्रतीतिरेवेत्थं कर्त्री धर्त्री च सा शिवः । ततो भावास्तत्र भावाः शक्तिराधारिका ततः ॥१०७॥ सांकल्पिकं निराधारमपि नैव पतत्यधः । स्वाधारशक्तौ विश्रान्तं विश्वमित्थं विमृश्यताम् ॥१०८॥ अस्या घनाहमित्यादिरूढिरेव धरादिता । यावदन्ते चिदस्मीति निर्वृत्ता भैरवात्मता ॥१०९॥ मणाविन्द्रायुधे भास इव नीलादयः शिवे । परमार्थत एषां तु नोदयो न व्ययः क्वचित् ॥११०॥ देशे कालेऽत्र वा सृष्टिरित्येतदसमञ्जसम् । चिदात्मना हि देवेन सृष्टिर्दिक्कालयोरपि ॥१११॥ जागराभिमते सार्धहस्तत्रितयगोचरे । प्रहरे च पृथक् स्वप्नाश्चित्रदिक्कालमानिनः ॥११२॥ अत एव क्षणं नाम न किंचिदपि मन्महे । क्रियाक्षणे वाप्येकस्मिन् बह्व्यः संस्युर्द्रुताः क्रियाः ॥११३॥ तेन ये भावसंकोचं क्षणान्तं प्रतिपेदिरे । ते नूनमेनया नाड्या शून्यदृष्ट्यवलम्बिनः ॥११४॥ तद्य एष सतो भावाञ् शून्यीकर्तुं तथासतः । स्फुटीकर्तुं स्वतन्त्रत्वादीशः सोऽस्मत्प्रभुः शिवः ॥११५॥ तदित्थं परमेशानो विश्वरूपः प्रगीयते । न तु भिन्नस्य कस्यापि धरादेरुपपन्नता ॥११६॥ उक्तं चैतत्पुरैवेति न भूयः प्रविविच्यते । भूयोभिश्चापि बाह्यार्थदूषणैः प्रव्यरम्यत ॥११७॥ तदित्थमेष निर्णीतः कलादेर्विस्तरोऽध्वनः ॥११८॥
अथ श्रीतन्त्रालोके द्वादशमाह्निकम्
अथाध्वनोऽस्य प्रकृत उपयोगः प्रकाश्यते ॥१॥ इत्थमध्वा समस्तोऽयं यथा संविदि संस्थितः । तद्द्वारा शून्यधीप्राणनाडीचक्रतनुष्वथो ॥२॥ बहिश्च लिङ्गमूर्त्यग्निस्थण्डिलादिषु सर्वतः । तथा स्थितः समस्तश्च व्यस्तश्चैष क्रमाक्रमात् ॥३॥ आसंवित्तत्त्वमाबाह्यं योऽयमध्वा व्यवस्थितः । तत्र तत्रोचितं रूपं स्वं स्वातन्त्र्येण भासयेत् ॥४॥ सर्वं सर्वत्र रूपं च तस्यापि न न भासते । नह्यवच्छेदितां क्वापि स्वप्ने ̕पि विषहामहे ॥५॥ एवं विश्वाध्वसंपूर्णं कालव्यापारचित्रितम् । देशकालमयस्पन्दसद्म देहं विलोकयेत् ॥६॥ तथा विलोक्यमानोऽसौ विश्वान्तर्देवतामयः । ध्येयः पूज्यश्च तर्प्यश्च तदाविष्टो विमुच्यते ॥७॥ इत्थं घटं पटं लिङ्गं स्थण्डिलं पुस्तकं जलम् । यद्वा किंचित्क्वचित्पश्येत्तत्र तन्मयतां व्रजेत् ॥८॥ तत्रार्पणं हि वस्तूनामभेदेनार्चनं मतम् । तथा संपूर्णरूपत्वानुसंधिर्ध्यानमुच्यते ॥९॥ संपूर्णत्वानुसंधानमकम्पं दार्ढ्यमानयन् । तथान्तर्जल्पयोगेन विमृशञ्जपभाजनम् ॥१०॥ तत्रार्पितानां भावानां स्वकभेदविलापनम् । कुर्वंस्तद्रश्मिसद्भावं दद्याद्धोमक्रियापरः ॥११॥ तथैवंकुर्वतः सर्वं समभावेन पश्यतः । निष्कम्पता व्रतं शुद्धं साम्यं नन्दिशिखोदितम् ॥१२॥ तथार्चनजपध्यानहोमव्रतविधिक्रमात् । परिपूर्णां स्थितिं प्राहुः समाधिं गुरवः पुरा ॥१३॥ अत्र पूजाजपाद्येषु बहिरन्तर्द्वयस्थितौ । द्रव्यौघे न विधिः कोऽपि न कापि प्रतिषिद्धता ॥१४॥ कल्पनाशुद्धिसंध्यादेर्नोपयोगोऽत्र कश्चन । उक्तं श्रीत्रिकसूत्रे च जायते यजनं प्रति ॥१५॥ अविधिज्ञो विधिज्ञश्चेत्येवमादि सुविस्तरम् । यदा यथा येन यत्र स्वा सम्वित्तिः प्रसीदति ॥१६॥ तदा तथा तेन तत्र तत्तद्भोग्यं विधिश्च सः । लौकिकालौकिकं सर्वं तेनात्र विनियोजयेत् ॥१७॥ निष्कम्पत्वे सकम्पस्तु कम्पं निर्ह्रासयेद्बलात् । यथा येनाभ्युपायेन क्रमादक्रमतोऽपि वा ॥१८॥ विचिकित्सा गलत्यन्तस्तथासौ यत्नवान्भवेत् । धीकर्माक्षगता देवीर्निषिद्धैरेव तर्पयेत् ॥१९॥ वीरव्रतं चाभिनन्देदिति भर्गशिखावचः । तथाहि शङ्का मालिन्यं ग्लानिः संकोच इत्यदः ॥२०॥ संसारकारागारान्तः स्थूलस्थूणाघटायते । मन्त्रा वर्णस्वभावा ये द्रव्यं यत्पाञ्चभौतिकम् ॥२१॥ यच्चिदात्म प्राणिजातं तत्र कः संकरः कथम् । संकराभावतः केयं शङ्का तस्यामपि स्फुटम् ॥२२॥ न शङ्केत तथा शङ्का विलीयेतावहेलया । श्रीसर्वाचारवीरालीनिशाचरक्रमादिषु ॥२३॥ शास्त्रेषु विततं चैतत्तत्र तत्रोच्यते यतः । शङ्कया जायते ग्लानिः शङ्कया विघ्नभाजनम् ॥२४॥ उवाचोत्पलदेवश्च श्रीमानस्मद्गुरोर्गुरुः । सर्वाशङ्काशनिं मार्गं नुमो माहेश्वरं त्विति ॥२५॥ अनुत्तरपदाप्तये तदिदमाणवं दर्शिताभ्युपायमतिविस्तरान्ननु विदांकुरुध्वं बुधाः ॥२६॥
|
|