Tantraloka by Abhinavagupta
In Sanscrito:
CAP.1 - CAP.2 - CAP.3 - CAP.4 - CAP.5 - CAP.6 - CAP.7 - CAP.8 - CAP.9 - CAP.10 CAP.11 - CAP.12 - CAP.13 - CAP.14 - CAP.15 - CAP.16 - CAP.17 - CAP.18 - CAP.19 - CAP.20 CAP.21 - CAP.22 - CAP.23 - CAP.24 - CAP.25 - CAP.26 - CAP.27 - CAP.28 - CAP.29 - CAP.30 CAP.31 - CAP.32 - CAP.33 - CAP.34 - CAP.35 - CAP.36 - CAP.37 - Testo translitterato
TANTRALOKA SANSCRITO
अथ श्रीतन्त्रालोके सप्तदशमाह्निकम्
अथ भैरवतादात्म्यदायिनीं प्रक्रियां ब्रुवे । एवं मण्डलकुम्भाग्निशिष्यस्वात्मसु पञ्चसु ॥१॥ गृहीत्वा व्याप्तिमैक्येन न्यस्याध्वानं च शिष्यगम् । कर्ममायाणुमलिनत्रयं बाहौ गले तथा ॥२॥ शिखायां च क्षिपेत्सूत्रग्रन्थियोगेन दैशिकः । तस्यातद्रूपताभानं मलो ग्रन्थिः स कीर्त्यते ॥३॥ इतिप्रतीतिदार्ढ्यार्थं बहिर्ग्रन्थ्युपकल्पनम् । बाहू कर्मास्पदं विष्णुर्मायात्मा गलसंश्रितः ॥४॥ अधोवहा शिखाणुत्वं तेनेत्थं कल्पना कृता । नरशक्तिशिवाख्यस्य त्रयस्य बहुभेदताम् ॥५॥ वक्तुं त्रिस्त्रिगुणं सूत्रं ग्रन्थये परिकल्पयेत् । तेजोजलान्नत्रितयं त्रेधा प्रत्येकमप्यदः ॥६॥ श्रुत्यन्ते केऽप्यतः शुक्लकृष्णरक्तं प्रपेदिरे । ततोऽग्नौ तर्पिताशेषमन्त्रे चिद्व्योममात्रके ॥७॥ सामान्यरूपे तत्त्वानां क्रमाच्छुद्धिं समाचरेत् । तत्र स्वमन्त्रयोगेन धरामावाहयेत्पुरा ॥८॥ इष्ट्वा पुष्पादिभिः सर्पिस्तिलाद्यैरथ तर्पयेत् । तत्तत्त्वव्यापिकां पश्चान्मायातत्त्वाधिदेवताम् ॥९॥ मायाशक्तिं स्वमन्त्रेणावाह्याभ्यर्च्य प्रतर्पयेत् । आवाहने मातृकार्णं मालिन्यर्णं च पूजने ॥१०॥ कुर्यादिति गुरुः प्राह स्वरूपाप्यायनद्वयात् । तारो वर्णो ̕थ संबुद्धिपदं त्वामित्यतः परम् ॥११॥ उत्तमैकयुतं कर्मपदं दीपकमप्यतः । तभ्यं नाम चतुर्थ्यन्तं ततोऽप्युचितदीपकम् ॥१२॥ इत्यूहमन्त्रयोगेन तत्तत्कर्म प्रवर्तयेत् । आवाहनानन्तरं हि कर्म सर्वं निगद्यते ॥१३॥ आवाहनं च संबोधः स्वस्वभावव्यवस्थितेः । भावस्याहंमयस्वात्मतादात्म्यावेश्यमानता ॥१४॥ शाक्ती भूमिश्च सैवोक्ता यस्यां मुख्यास्ति पूज्यता । अभातत्वादभेदाच्च नह्यसौ नृशिवात्मनोः ॥१५॥ जडाभासेषु तत्त्वेषु संवित्स्थित्यै ततो गुरुः । आवाहनविभक्तिं प्राक् कृत्वा तुर्यविभक्तितः ॥१६॥ नमस्कारान्ततायोगात्पूर्णां सत्तां प्रकल्पयेत् । ततः पूर्णस्वभावत्वं तद्रूपोद्रेकयोगतः ॥१७॥ ध्येयोद्रेको भवेद्ध्यातृप्रह्वीभाववशाद्यतः । आवाह्येष्ट्वा प्रतर्प्येति श्रीस्वच्छन्दे निरूपितम् ॥१८॥ अनेनैव पथानेयमित्यस्मद्गुरवो जगुः । परत्वेन तु यत्पूज्यं तत्स्वतन्त्रचिदात्मकम् ॥१९॥ अनवच्छित्प्रकाशत्वान्न प्रकाश्यं तु कुत्रचित् । तस्य ह्येतत्प्रपूज्यत्वध्येयत्वादि यदुल्लसेत् ॥२०॥ तस्यैव तत्स्वतन्त्रत्वं यातिदुर्घटकारिता । संबोधरूपे तत्तस्मिन् कथं संबोधना भवेत् ॥२१॥ प्रकाशनायां न स्यात्प्रकाशस्य प्रकाशता । संबोधनविभक्त्यैव विना कर्मादिशक्तिताम् ॥२२॥ स्वातन्त्र्यात्तं दर्शयितुं तत्रोहमिममाचरेत् । देवमावाहयामीति ततो देवाय दीपकम् ॥२३॥ प्राग्युक्त्या पूर्णतादायि नमःस्वाहादिकं भवेत् । नुतिः पूर्णत्वमग्नीन्दुसंघट्टाप्यायता परम् ॥२४॥ आप्यायकं च प्रोच्छालं वौषडादि प्रदीपयेत् । तत्र बाह्ये ̕पि तादात्म्यप्रसिद्धं कर्म चोद्यते ॥२५॥ यदि कर्मपदं तन्नो गुरुरभ्यूहयेत्क्वचित् । अनाभासिततद्वस्तुभासनाय नियुज्यते ॥२६॥ मन्त्रः किं तेन तत्र स्यात्स्फुटं यत्रावभासि तत् । तेन प्रोक्षणसंसेकजपादिविधिषु ध्रुवम् ॥२७॥ तत्कर्माभ्यूहनं कुर्यात्प्रत्युत व्यवधातृताम् । बहिस्तथात्मताभावे कार्यं कर्मपदोहनम् ॥२८॥ तृप्तावाहुतिहुतभुक्पाशप्लोषच्छिदादिषु । यत्रोद्दिष्टे विधौ पश्चात्तदनन्तैः क्रियात्मकैः ॥२९॥ अंशैः साध्यं न तत्रोहो दीक्षणादिविधिष्विव । ततः शिष्यस्य तत्तत्त्वस्थानेऽस्त्रेण प्रताडनम् ॥३०॥ कृत्वाथ शिवहस्तेन हृदयं परिमर्शयेत् । ततः स्वनाडीमार्गेण हृदयं प्राप्य वै शिशोः ॥३१॥ शिष्यात्मना सहैकत्वं गत्वादाय च तं हृदा । पुटितं हंसरूपाख्यं तत्र संहारमुद्रया ॥३२॥ कुर्यादात्मीयहृदयस्थितमप्यवभासकम् । शिष्यदेहस्य तेजोभी रश्मिमात्रावियोगतः ॥३३॥ स्वबन्धस्थानचलनात् स्वतन्त्रस्थानलाभतः । स्वकर्मापरतन्त्रत्वात्सर्वत्रोत्पत्तिमर्हति ॥३४॥ तेनात्महृदयानीतं प्राक्कृत्वा पुद्गलं ततः । मायायां तद्धरातत्त्वशरीराण्यस्य संसृजेत् ॥३५॥ तत्रास्य गर्भाधानं च युक्तं पुंसवनादिभिः । गर्भनिष्क्रामपर्यन्तैरेकां कुर्वीत संस्क्रियाम् ॥३६॥ जननं भोगभोक्तृत्वं मिलित्वैकाथ संस्क्रिया । ततो ̕स्य तेषु भोगेषु कुर्यात्तन्मयतां लयम् ॥३७॥ ततस्तत्तत्त्वपाशानां विच्छेदं समुपाचरेत् । संस्काराणां चतुष्के ̕स्मिन्नपरां च परापराम् ॥३८॥ मन्त्राणां पञ्चदशकं परां वा योजयेत्क्रमात् । पिवन्याद्यष्टकं शस्त्रादिकं षट्कं परा तथा ॥३९॥ इति पञ्चदशैते स्युः क्रमाल्लीनत्वसंस्कृतौ । अपरामन्त्रमुक्त्वा प्रागमुकात्मन इत्यथ ॥४०॥ गर्भाधानं करोमीति पुनर्मन्त्रं तमेव च । स्वाहान्तमुच्चरन्दद्यादाहुतित्रितयं गुरुः ॥४१॥ परं परापरामन्त्रममुकात्मन इत्यथ । जातस्य भोगभोक्तृत्वं करोम्यथ परापराम् ॥४२॥ अन्ते स्वाहेति प्रोच्चार्य वितरेत्तिस्र आहुतीः । उच्चार्य पिवनीमन्त्रममुकात्मन इत्यथ ॥४३॥ भोगे लयं करोमीति पुनर्मन्त्रं तमेव च । स्वाहान्तमाहुतीस्तिस्रो दद्यादाज्यतिलादिभिः ॥४४॥ एष एव वमन्यादौ विधिः पञ्चदशान्तके । पूर्वं परात्मकं मन्त्रममुकात्मन इत्यथ ॥४५॥ पाशाच्छेदं करोमीति परामन्त्रः पुनस्ततः । हुं स्वाहा फट् समुच्चार्य दद्यात्तिस्रोऽप्यथाहुतीः ॥४६॥ संस्काराणां चतुष्के ̕स्मिन्ये मन्त्राः कथिता मया । तेषु कर्मपदात्पूर्वं धरातत्त्वपदं वदेत् ॥४७॥ ततो धरातत्त्वपतिमामन्त्र्येष्ट्वा प्रतर्प्य च । शिवाभिमानसंरब्धो गुरुरेवं समादिशेत् ॥४८॥ तत्त्वेश्वर त्वया नास्य पुत्रकस्य शिवाज्ञया । प्रतिबन्धः प्रकर्तव्यो यातुः पदमनामयम् ॥४९॥ ततो यदि समीहेत धरातत्त्वान्तरालगम् । पृथक् शोधयितुं मन्त्री भुवनाद्यध्वपञ्चकम् ॥५०॥ अपरामन्त्रतः प्राग्वत्तिस्रस्तिस्रस्तदाहुतीः । दद्यात्पुरं शोधयामीत्यूहयुक्तं प्रसन्नधीः ॥५१॥ एवं कलामन्त्रपदवर्णेष्वपि विचक्षणः । तिस्रस्तिस्रो हुतीर्दद्यात् पृथक् सामस्त्यतो ̕पिवा ॥५२॥ ततः पूर्णाहुतिं दत्त्वा परया वौषडन्तया । अपरामन्त्रतः शिष्यमुद्धृत्यात्महृदं नयेत् ॥५३॥ यदा त्वेकेन शुद्धेन तदन्तर्भावचिन्तनात् । न पृथक् शोधयेत्तत्त्वनाथसंश्रवणात्परम् ॥५४॥ तदा पूर्णां वितीर्याणुमुत्क्षिप्यात्मनि योजयेत् । तात्स्थ्यात्मसंस्थ्ययोगाय तयैवापरयाहुतीः ॥५५॥ सकर्मपदया दद्यादिति केचित्तु मन्वते । अन्ये तु गुरवः प्राहुर्भावनामयमीदृशम् ॥५६॥ नात्र बाह्याहुतिर्देया दैशिकस्य पृथक् पुनः । दद्याद्वा यदि नो दोषः स्यादुपायः स भावने ॥५७॥ एवं प्राक्तनतात्स्थ्यात्मसंस्थत्वे योजयेद्गुरुः । ततः शिष्यहृदं नेयः स आत्मा तावतो ̕ध्वनः ॥५८॥ शुद्धस्तद्दार्ढ्यसिद्ध्यै च पूर्णा स्यात्परया पुनः । महापाशुपतं पूर्वं विलोमस्य विशुद्धये ॥५९॥ जुहोमि पुनरस्त्रेण वौषडन्त इति क्षिपेत् । पुनः पूर्णां ततो मायामभ्यर्च्याथ विसर्जयेत् ॥६०॥ धरातत्त्वं विशुद्धं सज्जलेन शुद्धरूपिणा । भावयेन्मिश्रितं वारि शुद्धियोग्यं ततो भवेत् ॥६१॥ तथा तत्तत्पुरातत्त्वमिश्रणादुत्तरोत्तरम् । सर्वा शिवीभवेत्तत्त्वावली शुद्धान्यथा पृथक् ॥६२॥ पृथक्त्वं च मलो मायाभिधानस्तस्य संभवे । कर्मक्षयेऽपि नो मुक्तिर्भवेद्विद्येश्वरादिवत् ॥६३॥ ततोऽपि जलतत्त्वस्य वह्नौ व्योम्नि चिदात्मके । आह्वानाद्यखिलं यावत्तेजस्यस्य विमश्रणम् ॥६४॥ एवं क्रमात्कलातत्त्वे शुद्धे पाशं भुजाश्रितम् । छिन्द्यात्कला हि सा किंचित्कर्तृत्वोन्मीलनात्मिका ॥६५॥ कर्माख्यमलजृम्भात्मा तं च ग्रन्थिं स्रुगग्रगम् । पूर्णाहुत्या समं वह्निमन्त्रतेजसि निर्दहेत् ॥६६॥ मन्त्रो हि विश्वरूपः सन्नुपाश्रयवशात्तथा । व्यक्तरूपस्ततो वह्नौ पाशप्लोषविधायकः ॥६७॥ प्लुष्टो लीनस्वभावो ̕सौ पाशस्तं प्रति शम्भुवत् । परमेशमहातेजःशेषमात्रत्वमश्नुते ॥६८॥ कर्मपाशेऽत्र होतव्ये पूर्णयास्य शुभाशुभम् । अशुभं वा भवद्भूतं भावि वाथ समस्तकम् ॥६९॥ दहामि फट्त्रयं वौषडिति पूर्णां विनिक्षिपेत् । एवं मायान्तसंशुद्धौ कण्ठपाशं च होमयेत् ॥७०॥ पूर्णस्य तस्य मायाख्यं पाशभेदप्रथात्मकम् । दहामि फट्त्रयं वौषडिति पूर्णां क्षिपेद्गुरुः ॥७१॥ निर्बीजा यदि कार्या तु तदात्रैवापरां क्षिपेत् । पूर्णां समयपाशाख्यबीजदाहपदान्विताम् ॥७२॥ गुरौ देवे तथा शास्त्रे भक्तिः कार्यास्य नह्यसौ । समयः शक्तिपातस्य स्वभावो ह्येष नो पृथक् ॥७३॥ मायान्ते शुद्धिमायाते वागीशी या पुराभवत् । माया शक्तिमयी सैव विद्याशक्तित्वमश्नुते ॥७४॥ तच्छुद्धविद्यामाहूय विद्याशक्तिं नियोजयेत् । एवं क्रमेण संशुद्धे सदाशिवपदेऽप्यलम् ॥७५॥ शिखां ग्रन्थियुतां छित्त्वा मलमाणवकं दहेत् । यतो ̕धिकारभोगाख्यौ द्वौ पाशौ तु सदाशिवे ॥७६॥ इत्युक्त्याणवपाशोऽत्र मायीयस्तु निशावधिः । शिष्यो यथोचितं स्नायादाचामेद्दैशिकः स्वयम् ॥७७॥ आणवाख्ये विनिर्दग्धे ह्यधोवाहिशिखामले । ततः प्रागुक्तसकलप्रमेयं परिचिन्तयन् ॥७८॥ शिष्यदेहादिमात्मीयदेहप्राणादियोजितम् । कृत्वात्मदेहप्राणादेर्विश्वमन्तरनुस्मरेत् ॥७९॥ उक्तप्रक्रियया चैवं दृढबुद्धिरनन्यधीः । प्राणस्थं देशकालाध्वयुगं प्राणं च शक्तिगम् ॥८०॥ तां च संविद्गतां शुद्धां संविदं शिवरूपिणीम् । शिष्यसंविदभिन्नां च मन्त्रवह्न्याद्यभेदिनीम् ॥८१॥ ध्यायन् प्राग्वत्प्रयोगेण शिवं सकलनिष्कलम् । द्व्यात्मकं वा क्षिपेत्पूर्णां प्रशान्तकरणेन तु ॥८२॥ उक्तं त्रैशिरसे तन्त्रे सर्वसंपूरणात्मकम् । मूलादुदयगत्या तु शिवेन्दुपरिसंप्लुतम् ॥८३॥ जन्मान्तमध्यकुहरमूलस्रोतःसमुत्थितम् । शिवार्करश्मिभिस्तीव्रैः क्षुब्धं ज्ञानामृतं तु यत् ॥८४॥ तेन संतर्पयेत्सम्यक् प्रशान्तकरणेन तु । शून्यधामाब्जमध्यस्थप्रभाकिरणभास्वरः ॥८५॥ आधेयाधारनिःस्पन्दबोधशास्त्रपरिग्रहः । जन्माधेयप्रपञ्चैकस्फोटसंघट्टघट्टनः ॥८६॥ मूलस्थानात्समारभ्य कृत्वा सोमेशमन्तगम् । खमिवातिष्ठते यावत्प्रशान्तं तावदुच्यते ॥८७॥ उक्तं श्रीपूर्वशास्त्रे च स्रुचमापूर्य सर्पिषा । कृत्वा शिष्यं तथात्मस्थं मूलमन्त्रमनुस्मरन् ॥८८॥ शिवं शक्तिं तथात्मानं शिष्यं सर्पिस्तथानलम् । एकीकुर्वञ्छनैर्गच्छेद्द्वादशान्तमनन्यधीः ॥८९॥ तत्र कुम्भकमास्थाय ध्यायन्सकलनिष्कलम् । तिष्ठेत्तावदनुद्विग्नो यावदाज्यक्षयो भ्वेत् ॥९०॥ एवं युक्तः परे तत्त्वे गुरुणा शिवमूर्तिना । न भूयः पशुतामेति दग्धमायानिबन्धनः ॥९१॥ देहपाते पुनः प्रेप्सेद्यदि तत्त्वेषु कुत्रचित् । भोगान् समस्तव्यस्तत्वभेदैरन्ते परं पदम् ॥९२॥ तदा तत्तत्त्वभूमौ तु तत्संख्यायामनन्यधीः । पुनर्योजनिकां कुर्यात्पूर्णाहुत्यन्तरेण तु ॥९३॥ मुक्तिप्रदा भोगमोक्षप्रदा वा या प्रकीर्तिता । दीक्षा सा स्यात्सबीजत्वनिर्बीजात्मतया द्विधा ॥९४॥ बाले निर्ज्ञातमरणे त्वशक्ते वा जरादिभिः । कार्या निर्बीजिका दीक्षा शक्तिपातबलोदये ॥९५॥ निर्बीजायां सामयांस्तु पाशानपि विशोधयेत् । कृतनिर्बीजदीक्षस्तु देवाग्निगुरुभक्तिभाक् ॥९६॥ इयतैव शिवं यायात् सद्यो भोगान् विभुज्य वा । श्रीमद्दीक्षोत्तरे चोक्तं चारे षट्त्रिंशदङ्गुले ॥९७॥ तत्त्वान्यापादमूर्धान्तं भुवनानि त्यजेत्क्रमात् । तुटिमात्रं निष्कलं तददेहं तदहंपरम् ॥९८॥ शक्त्या तत्र क्षिपाम्येनमिति ध्यायंस्तु दीक्षयेत् । सबीजायां तु दीक्षायां समयान्न विशोधयेत् ॥९९॥ विशेषस्त्वयमेतस्यां यावज्जीवं शिशोर्गुरुः । शेषवृत्त्यै शुद्धतत्त्वसृष्टिं कुर्वीत पूर्णया ॥१००॥ अभिन्नाच्छिवसंबोधजलधेर्युगपत्स्फुरत् । पूर्णां क्षिपंस्तत्त्वजालं ध्यायेद्भारूपकं सृतम् ॥१०१॥ विशुद्धतत्त्वसृष्टिं वा कुर्यात्कुम्भाभिषेचनात् । तथा ध्यानबलादेव यद्वा पूर्णाभिषेचनैः ॥१०२॥ पृथिवी स्थिररूपास्य शिवरूपेण भाविता । स्थिरीकरोति तामेव भावनामिति शुद्ध्यति ॥१०३॥ जलमाप्याययत्येनां तेजो भास्वरतां नयेत् । मरुदानन्दसंस्पर्शं व्योम वैतत्यमावहेत् ॥१०४॥ एवं तन्मात्रवर्गोऽपि शिवतामय इष्यते । परानन्दमहाव्याप्तिरशेषमलविच्युतिः ॥१०५॥ शिवे गन्तृत्वमादानमुपादेयशिवस्तुतिः । शिवामोदभरास्वाददर्शनस्पर्शनान्यलम् ॥१०६॥ तदाकर्णनमित्येवमिन्द्रियाणां विशुद्धता । संकल्पाध्यवसामानाः प्रकाशो रक्तिसंस्थिती ॥१०७॥ शिवात्मत्वेन यत्सेयं शुद्धता मानसादिके । नियमो रञ्जनं कर्तृभावः कलनया सह ॥१०८॥ वेदनं हेयवस्त्वंशविषये सुप्तकल्पता । इत्थं शिवैक्यरूढस्य षट्कञ्चुकगणोऽप्ययम् ॥१०९॥ शुद्ध एव पुमान् प्राप्तशिवभावो विशुद्ध्यति । विद्येशादिषु तत्त्वेषु नैव काचिदशुद्धता ॥११०॥ इत्येवं शुद्धतत्त्वानां सृष्ट्या शिष्यो ̕पि तन्मयः । भवेद्ध्येतत्सूचितं श्रीमालिनीविजयोत्तरे ॥१११॥ बन्धमोक्षावुभावेताविन्द्रियाणि जगुर्बुधाः । निगृहीतानि बन्धाय विमुक्तानि विमुक्तये ॥११२॥ एतानि व्यापके भावे यदा स्युर्मनसा सह । मुक्तानि क्वापि विषये रोधाद्बन्धाय तानि तु ॥११३॥ इत्येवं द्विविधो भावः शुद्धाशुद्धप्रभेदतः । इन्द्रियाणां समाख्यातः सिद्धयोगीश्वरे मते ॥११४॥ श्रीमान् विद्यागुरुस्त्वाह प्रमाणस्तुतिदर्शने । समस्तमन्त्रैर्दीक्षायां नियमस्त्वेष कथ्यते ॥११५॥ मायान्तशुद्धौ सर्वाः स्युः क्रिया ह्यपरया सदा । द्व्यात्मया सकलान्ते तु निष्कले परयैव तु ॥११६॥ ईशान्ते च पिवन्यादि सकलान्तेऽङ्गपञ्चकम् । इत्येवंविधिमालोच्य कर्म कुर्याद्गुरूत्तमः ॥११७॥ पुराध्वनि हुतीनां या संख्येयं तत्त्ववर्णयोः । तामेव द्विगुणीकुर्यात्पदाध्वनि चतुर्गुणाम् ॥११८॥ क्रमान्मन्त्रकलामार्गे द्विगुणा द्विगुणा क्रमात् । यावत्त्रितत्त्वसंशुद्धौ स्याद्विंशतिगुणा ततः ॥११९॥ प्रतिकर्म भवेत्षष्टिराहुतीनां त्रितत्त्वके । एकतत्त्वे शतं प्राहुराहुतीनां तु साष्टकम् ॥१२०॥ विलोमकर्मणा साकं याः पूर्णाहुतयः स्मृताः । तासां सर्वाध्वसंशुद्धौ संख्यान्यत्वं न किंचन ॥१२१॥ इत्येषा कथिता दीक्षा जननादिसमन्विता ॥१२२॥
अथ श्रीतन्त्रालोके अष्टादशमाह्निकम्
अथ संक्षिप्तदीक्षेयं शिवतापत्तिदोच्यते । न रजो नाधिवासोऽत्र न भूक्षेत्रपरिग्रहः । यत्र तत्र प्रदेशे तु पूजयित्वा गुरुः शिवम् ॥१॥ अध्वानं मनसा ध्यात्वा दीक्षयेत्तत्त्वपारगः । जननादिविहीनां तु येन येनाध्वना गुरुः ॥२॥ कुर्यात्स एकतत्त्वान्तां शिवभावैकभावितः । परामन्त्रस्ततोऽस्येति तत्त्वं संशोधयाम्यथ ॥३॥ स्वाहेति प्रतितत्त्वं स्याच्छुद्धे पूर्णाहुतिं क्षिपेत् । एवं मन्त्रान्तरैः कुर्यात्समस्तैरथवोक्तवत् ॥४॥ परासंपुटितं नाम स्वाहान्तं प्रथमान्तकम् । शतं सहस्रं साष्टं वा तेन शक्त्यैव होमयेत् ॥५॥ ततः पूर्णेति संशोध्यहीनमुत्तममीदृशम् । दीक्षाकर्मोदितं तत्र तत्र शास्त्रे महेशिना ॥६॥ प्रत्येकं मातृकायुग्मवर्णैस्तत्त्वानि शोधयेत् । यदि वा पिण्डमन्त्रेण सर्वमन्त्रेष्वयं विधिः ॥७॥ यथा यथा च स्वभ्यस्तज्ञानस्तन्मयतात्मकः । गुरुस्तथा तथा कुर्यात् संक्षिप्तं कर्म नान्यथा ॥८॥ श्रीब्रह्मयामले चोक्तं संक्षिप्तेऽपि हि भावयेत् । व्याप्तिं सर्वाध्वसामान्यां किंतु यागे न विस्तरः ॥९॥ अतन्मयीभूतमिति विक्षिप्तं कर्म सन्दधत् । क्रमात्तादात्म्यमेतीति विक्षिप्तं विधिमाचरेत् ॥१०॥ संक्षिप्तो विधिरुक्तोऽयं कृपया यः शिवोदितः । दीक्षोत्तरे कैरणे च तत्र तत्रापि शासने ॥११॥
अथ श्रीतन्त्रालोके एकान्नविंशमाह्निकम्
अथ सद्यःसमुत्क्रान्तिप्रदा दीक्षा निरूप्यते । तत्क्षणाच्चोपभोगाद्वा देहपाते शिवं व्रजेत् । इत्युक्त्या मालिनीशास्त्रे सूचितासौ महेशिना ॥१॥ देहपाते समीपस्थे शक्तिपातस्फुटत्वतः । आसाद्य शांकरीं दीक्षां तस्माद्दीक्षाक्षणात्परम् ॥२॥ शिवं व्रजेदित्यर्थोऽत्र पूर्वापरविवेचनात् । व्याख्यातः श्रीमतास्माकं गुरुणा शम्भुमूर्तिना ॥३॥ यदा ह्यासन्नमरणे शक्तिपातः प्रजायते । तत्र मन्देऽथ गुर्वादिसेवयायुः क्षयं व्रजेत् ॥४॥ अथवा बन्धुमित्रादिद्वारा सास्य विभोः पतेत् । पूर्वं वा समयी नैव परां दीक्षामवाप्तवान् ॥५॥ आप्तदीक्षो ̕पि वा प्राणाञ्जिहासुः क्लेशवर्जितम् । अन्त्यान्गुरुस्तदा कुर्यात्सद्यउत्क्रान्तिदीक्षणम् ॥६॥ नत्वपक्वमले नापि शेषकार्मिकविग्रहे । कुर्यादुत्क्रमणं श्रीमद्गह्वरे च निरूपितम् ॥७॥ दृष्ट्वा शिष्यं जराग्रस्तं व्याधिना परिपीडितम् । उत्क्रमय्य ततस्त्वेनं परतत्त्वे नियोजयेत् ॥८॥ विशेषणविशेष्यत्वे कामचारविधानतः । पूर्वोक्तमर्थजातं श्रीशम्भुनात्र निरूपितम् ॥९॥ विधिं पूर्वोदितं सर्वं कृत्वा समयशुद्धितः । क्षुरिकामस्य विन्यस्येज्ज्वलन्तीं मर्मकर्तरीम् ॥१०॥ कृत्वा पूर्वोदितं न्यासं कालानलसमप्रभम् । संहृतिक्रमतः सार्धं सृक्छिन्दियुगलेन तु ॥११॥ आग्नेयीं धारणां कृत्वा सर्वमर्मप्रतापनीम् । पूरयेद्वायुना देहमङ्गुष्ठान्मस्तकान्तकम् ॥१२॥ तमुत्कृष्य ततोऽङ्गुष्ठादूर्ध्वान्तं वक्ष्यमाणया । कृन्तेन्मर्माणि रन्ध्रान्तात् कालरात्र्या विसर्जयेत् ॥१३॥ अनेन क्रमयोगेन योजितो हुतिवर्जितः । समय्यप्येति तां दीक्षामिति श्रीमालिनीमते ॥१४॥ षोडशाधारषट्चक्रलक्ष्यत्रयखपञ्चकात् । क्वचिदन्यतरत्राथ प्रागुक्तपशुकर्मवत् ॥१५॥ प्रविश्य मूलं कन्दादेश्छिन्दन्नैक्यविभावनात् । पूर्णाहुतिप्रयोगेण स्वेष्टे धाम्नि नियोजयेत् ॥१६॥ ज्ञानत्रिशूलं संदीप्तं दीप्तचक्रत्रयोज्ज्वलम् । चिन्तयित्वामुना तस्य वेदनं बोधनं भ्रमम् ॥१७॥ दीपनं ताडनं तोदं चलनं च पुनः पुनः । कन्दादिचक्रगं कुर्याद्विशेषेण हृदम्बुजे ॥१८॥ द्वादशान्ते ततः कृत्वा बिन्दुयुग्मगते क्षिपेत् । निर्लक्ष्ये वा परे धाम्नि संयुक्तः परमेश्वरः ॥१९॥ न तस्य कुर्यात्संस्कारं कंचिदित्याह गह्वरे । देवः किमस्य पूर्णस्य श्राद्धाद्यैरिति भावितः ॥२०॥ श्रीमद्दीक्षोत्तरे त्वेष विधिर्वह्निपुटीकृतः । हंसः पुमानधस्तस्य रुद्रबिन्दुसमन्वितः ॥२१॥ शिष्यदेहे नियोज्यैतदनुद्वग्नः शतं जपेत् । उत्क्रम्योर्ध्वनिमेषेण शिष्य इत्थं परं व्रजेत् ॥२२॥ एष एव विधिः श्रीमत्सिद्धयोगीश्वरीमते । इयमुत्क्रामणी दीक्षा कर्तव्या योगिनो गुरोः ॥२३॥ अनभ्यस्तप्राणचारः कथमेनां करिष्यति । वक्ष्यमाणां ब्रह्मविद्यां सकलां निष्कलोम्भिताम् ॥२४॥ कर्णेऽस्य वा पठेद्भूयो भूयो वाप्यथ पाठयेत् । स्वयं च कर्म कुर्वीत तत्त्वशुद्ध्यादिकं गुरुः ॥२५॥ मन्त्रक्रियाबलात्पूर्णाहुत्येत्थं योजयेत्परे । योगाभ्यासमकृत्वापि सद्य-उत्क्रान्तिदां गुरुः ॥२६॥ ज्ञानमन्त्रक्रियाध्यानबलात्कर्तुं भवेत्प्रभुः । अनयोत्क्रम्यते शिष्यो बलादेवैककं क्षणम् ॥२७॥ कालस्योल्लङ्घ्य भोगो हि क्षणिकोऽस्यास्तु किं ततः । सद्य उत्क्रान्तिदा चान्या यस्यां पूर्णाहुतिं तदा ॥२८॥ दद्याद्यदास्य प्राणाः स्युर्ध्रुवं निष्क्रमणेच्छवः । विनापि क्रियया भाविब्रह्मविद्याबलाद्गुरुः ॥२९॥ कर्णजापप्रयोगेण तत्त्वकञ्चुकजालतः । निःसारयन्यथाभीष्टे सकले निष्कले द्वये ॥३०॥ तत्त्वे वा यत्र कुत्रापि योजयेत्पुद्गलं क्रमात् । समयी पुत्रको वापि पठेद्विद्यामिमां तथा ॥३१॥ तत्पाठात्तु समय्युक्तां रुद्रांशापत्तिमश्नुते । एतौ जपे चाध्ययने यस्मादधिकृतावुभौ ॥३२॥ नाध्यापनोपदेशे वा स एषोऽध्ययनादृते । पठतोस्त्वनयोर्वस्तुस्वभावात्तस्य सा गतिः ॥३३॥ यथा निषिद्धभूतादिकर्मा मन्त्रं स्मरन्स्वयम् । आविष्टे ̕पि क्वचिन्नैति लोपं कर्तृत्ववर्जनात् ॥३४॥ यथा च वाचयञ्शास्त्रं समयी शून्यवेश्मनि । न लुप्यते तदन्तःस्थप्राणिवर्गोपकारतः ॥३५॥ तथा स्वयं पठन्नेष विद्यां वस्तुस्वभावतः । तस्मिन्मुक्ते न लुप्येत यतो किंचित्करो ̕त्र सः ॥३६॥ ननु चादीक्षिताग्रे स नोच्चरेच्छास्त्रपद्धतिम् ॥३७॥ हन्त कुड्याग्रतोऽप्यस्य निषेधस्त्वथ कथ्यते । पर्युदासेन यः श्रोतुमवधारयितुं क्षमः ॥३८॥ स एवात्र निषिद्धो नो कुड्यकीटपतत्रिणः । तर्हि पाषाणतुल्यो ̕सौ विलीनेन्द्रियवृत्तिकः ॥३९॥ तस्याग्रे पठतस्तस्य निषेधोल्लङ्घना कथम् । स तु वस्तुस्वभावेन गलिताक्षोऽपि बुध्यते ॥४०॥ अक्षानपेक्षयैवान्तश्चिच्छक्त्या स्वप्रकाशया । प्राग्देहं किल तित्यक्षुर्नोत्तरं चाधितष्ठिवान् ॥४१॥ मध्ये प्रबोधकबलात् प्रतिबुध्येत् पुद्गलः । मन्त्राः शब्दमयाः शुद्धविमर्शात्मतया स्वयम् ॥४२॥ अर्थात्मना चावभान्तस्तदर्थप्रतिबोधकाः । तेनास्य गलिताक्षस्य प्रबोधो जायते स्वयम् ॥४३॥ स्वचित्समानजातीयमन्त्रामर्शनसंनिधेः । यथा ह्यल्पजवो वायुः सजातीयविमिश्रितः ॥४४॥ जवी तथात्मा संसुप्तामर्शोऽप्येवं प्रबुध्यते । प्रबुद्धः स च संजातो न चादीक्षित उच्यते ॥४५॥ दीक्षा हि नाम संस्कारो न त्वन्यत्सो ̕स्ति चास्य हि । अत एव निजं शास्त्रं पठति क्वापि सामये ॥४६॥ तच्छ्रुत्वा कोऽपि धन्यश्चेन्मुच्यते नास्य सा क्षतिः । शास्त्रनिन्दां मैष कार्षीद्द्वयोः पातित्यदायिनीम् ॥४७॥ इत्येवंपरमेतन्नादीक्षिताग्रे पठेदिति । यथा च समयी काष्ठे लोष्टे वा मन्त्रयोजनाम् ॥४८॥ कुर्वंस्तस्मिंश्चलत्येति न लोपं तद्वदत्र हि । यतो ̕स्य प्रत्ययप्राप्तिप्रेप्सोः समयिनस्तथा ॥४९॥ प्रवृत्तस्य स्वभावेन तस्मिन्मुक्ते न वै क्षतिः । साधकस्तु सदा साध्ये फले नियतियन्त्रणात् ॥५०॥ मक्षिकाश्रुतमन्त्रोऽपि प्रायश्चित्तौचितीं चरेत् । इत्थं सद्यःसमुत्क्रान्तिर्योक्ता तामाज्ञया गुरोः ॥५१॥ समय्यादिरपि प्रोक्तकाले प्रोक्तार्थसिद्धये । स्वयं कुर्यात्समभ्यस्तप्राणचारगमागमः ॥५२॥ अकृताधिकृतिर्वापि गुरुः समयशुद्धये । अधस्तनपदावस्थो नतु ज्ञानेद्धचेतनः ॥५३॥ इतीयं सद्य उत्क्रान्तिः सूचिता मालिनीमते । स्वयं वा गुरुणा वाथ कार्यत्वेन महेशिना ॥५४॥ सर्वं भोगं विरूपं तु मत्वा देहं त्यजेद्यदि । तदा तेन क्रमेणाशु योजितः समयी शिवः ॥५५॥ उक्तेयं सद्य-उत्क्रान्तिर्या गोप्या प्राणवद्बुधैः ॥५६॥
अथ श्रीतन्त्रालोके विंशतितममाह्निकम्
अथ दीक्षां ब्रुवे मूढजनाश्वासप्रदायिनीम् ॥१॥ त्रिकोणे वह्निसदने वह्निवर्णोज्ज्वले ̕भितः । वायव्यपुरनिर्धूते करे सव्ये सुजाज्वले ॥२॥ बीजं किंचिद्गृहीत्वैतत्तथैव हृदयान्तरे । करे च दह्यमानं सच्चिन्तयेत्तज्जपैकयुक् ॥३॥ वह्निदीपितफट्कारधोरणीदाहपीडितम् । बीजं निर्बीजतामेति स्वसूतिकरणाक्षमम् ॥४॥ तप्तं नैतत्प्ररोहाय तेनैव प्रत्ययेन तु । मलमायाख्यकर्माणि मन्त्रध्यानक्रियाबलात् ॥५॥ दग्धानि न स्वकार्याय निर्बीजप्रत्ययं त्विमम् । स श्रीमान्सुप्रसन्नो मे शंभुनाथो न्यरूपयत् ॥६॥ बीजस्याप्यत्र कार्या च योजना कृपया गुरोः । यतो दीक्षा सुदीप्तत्वात्स्थावराण्यपि मोचयेत् ॥७॥ यो गुरुर्जपहोमार्चाध्यानसिद्धत्वमात्मनि । ज्ञात्वा दीक्षां चरेत्तस्य दीक्षा सप्रत्यया स्मृता ॥८॥ अवधूते निराचारे तत्त्वज्ञे नत्वयं विधिः । साचारैः क्रियते दीक्षा या दृष्टप्रत्ययान्विता ॥९॥ निराचारेण दीक्षायां प्रत्ययस्तु न गद्यते । ज्ञानं स्वप्रत्ययं यस्मान्न फलान्तरमर्हति ॥१०॥ ध्यानादि तु फलात्साध्यमिति सिद्धामतोदितम् । तुलाशुद्धिपरीक्षां वा कुर्यात्प्रत्यययोगिनीम् ॥११॥ यथा श्रीतन्त्रसद्भावे कथिता परमेशिना । श्रीपूर्वशास्त्रेऽप्येषा च सूचिता परमेशिना ॥१२॥ आनन्द उद्भवः कम्पो निद्रा घूर्णिश्च पञ्चमी । इत्येवंवदता शक्तितारतम्याभिधायिना ॥१३॥ उद्भवो लघुभावेन देहग्रहतिरोहितेः । देहो हि पार्थिवो मुख्यस्तदा मुख्यत्वमुज्झति ॥१४॥ भाविलाघवमन्त्रेण शिष्यं ध्यात्वा समुत्प्लुतम् । कर्माणि तत्राशेषाणि पूर्वोक्तान्याचरेद्गुरुः ॥१५॥ उक्ता सेयं तुलाशुद्धिदीक्षा प्रत्ययदायिनी ।
|
|