Tantraloka by Abhinavagupta
In Sanscrito:
CAP.1 - CAP.2 - CAP.3 - CAP.4 - CAP.5 - CAP.6 - CAP.7 - CAP.8 - CAP.9 - CAP.10 CAP.11 - CAP.12 - CAP.13 - CAP.14 - CAP.15 - CAP.16 - CAP.17 - CAP.18 - CAP.19 - CAP.20 CAP.21 - CAP.22 - CAP.23 - CAP.24 - CAP.25 - CAP.26 - CAP.27 - CAP.28 - CAP.29 - CAP.30 CAP.31 - CAP.32 - CAP.33 - CAP.34 - CAP.35 - CAP.36 - CAP.37 - Testo translitterato
TANTRALOKA SANSCRITO
अथ श्रीतन्त्रालोके पञ्चममाह्निकम्
आणवेन विधिना परधाम प्रेप्सतामथ निरूप्यत एतत् ॥१॥ विकल्पस्यैव संस्कारे जाते निष्प्रतियोगिनि । अभीष्टे वस्तुनि प्राप्तिर्निश्चिता भोगमोक्षयोः ॥२॥ विकल्पः कस्यचित्स्वात्मस्वातन्त्र्यादेव सुस्थिरः । उपायान्तरसापेक्ष्यवियोगेनैव जायते ॥३॥ कस्यचित्तु विकल्पोऽसौ स्वात्मसंस्करणं प्रति । उपायान्तरसापेक्षस्तत्रोक्तः पूर्वको विधिः ॥४॥ विकल्पो नाम चिन्मात्रस्वभावो यद्यपि स्थितः । तथापि निश्चयात्मासावणोः स्वातन्त्र्ययोजकः ॥५॥ निश्चयो बहुधा चैष तत्रोपायाश्च भेदिनः । अणुशब्देन ते चोक्ता दूरान्तिकविभेदतः ॥६॥ तत्र बुद्धौ तथा प्राणे देहे चापि प्रमातरि । अपारमार्थिकेऽप्यस्मिन् परमार्थः प्रकाशते ॥७॥ यतः प्रकाशाच्चिन्मात्रात् प्राणाद्यव्यतिरेकवत् । तस्यैव तु स्वतन्त्रत्वाद्द्विगुणं जडचिद्वपुः ॥८॥ उक्तं त्रैशिरसे चैतद्देव्यै चन्द्रार्धमौलिना । जीवः शक्तिः शिवस्यैव सर्वत्रैव स्थितापि सा ॥९॥ स्वरूपप्रत्यये रूढा ज्ञानस्योन्मीलनात्परा । तस्य चिद्रूपतां सत्यां स्वातन्त्र्योल्लासकल्पनात् ॥१०॥ पश्यञ्जडात्मताभागं तिरोधायाद्वयो भवेत् । तत्र स्वातन्त्र्यदृष्ट्या वा दर्पणे मुखबिम्बवत् ॥११॥ विशुद्धं निजचैतन्यं निश्चिनोत्यतदात्मकम् । बुद्धिप्राणादितो भिन्नं चैतन्यं निश्चितं बलात् ॥१२॥ सत्यतस्तदभिन्नं स्यात्तस्यान्योन्यविभेदतः । विश्वरूपाविभेदित्वं शुद्धत्वादेव जायते ॥१३॥ निष्ठितैकस्फुरन्मूर्तेर्मूर्त्यन्तरविरोधतः । अन्तः संविदि सत्सर्वं यद्यप्यपरथा धियि ॥१४॥ प्राणे देहेऽथवा कस्मात्संक्रामेत्केन वा कथम् । तथापि निर्विकल्पे ̕स्मिन्विकल्पो नास्ति तं विना ॥१५॥ दृष्टेऽप्यदृष्टकल्पत्वं विकल्पेन तु निश्चयः । बुद्धिप्राणशरीरेषु पारमेश्वर्यमञ्जसा ॥१६॥ विकल्प्यं शून्यरूपे न प्रमातरि विकल्पनम् । बुद्धिर्ध्यानमयी तत्र प्राण उच्चारणात्मकः ॥१७॥ उच्चारणं च प्राणाद्या व्यानान्ताः पञ्च वृत्तयः । आद्या तु प्राणनाभिख्यापरोच्चारात्मिका भवेत् ॥१८॥ शरीरस्याक्षविषयैतत्पिण्डत्वेन संस्थितिः । तत्र ध्यानमयं तावदनुत्तरमिहोच्यते ॥१९॥ यः प्रकाशः स्वतन्त्रोऽयं चित्स्वभावो हृदि स्थितः । सर्वतत्त्वमयः प्रोक्तमेतच्च त्रिशिरोमते ॥२०॥ कदलीसंपुटाकारं सबाह्याभ्यन्तरान्तरम् । ईक्षते हृदयान्तःस्थं तत्पुष्पमिव तत्त्ववित् ॥२१॥ सोमसूर्याग्निसंघट्टं तत्र ध्यायेदनन्यधीः । तद्ध्यानारणिसंक्षोभान्महाभैरवहव्यभुक् ॥२२॥ हृदयाख्ये महाकुण्डे जाज्वलन् स्फीततां व्रजेत् । तस्य शक्तिमतः स्फीतशक्तेर्भैरवतेजसः ॥२३॥ मातृमानप्रमेयाख्यं धामाभेदेन भावयेत् । वह्न्यर्कसोमशक्तीनां तदेव त्रितयं भवेत् ॥२४॥ परा परापरा चेयमपरा च सदोदिता । सृष्टिसंस्थितिसंहारैस्तासां प्रत्येकतस्त्रिधा ॥२५॥ चतुर्थं चानवच्छिन्नं रूपमासामकल्पितम् । एवं द्वादश ता देव्यः सूर्यबिम्बवदास्थिताः ॥२६॥ एकैकमासां वह्न्यर्कसोमतच्छान्तिभासनम् । एतदानुत्तरं चक्रं हृदयाच्चक्षुरादिभिः ॥२७॥ व्योमभिर्निःसरत्येव तत्तद्विषयगोचरे । तच्चक्रभाभिस्तत्रार्थे सृष्टिस्थितिलयक्रमात् ॥२८॥ सोमसूर्याग्निभासात्म रूपं समवतिष्ठते । एवं शब्दादिविषये श्रोत्रादिव्योमवर्त्मना ॥२९॥ चक्रेणानेन पतता तादात्म्यं परिभावयेत् । अनेन क्रमयोगेन यत्र यत्र पतत्यदः ॥३०॥ चक्रं सर्वात्मकं तत्तत्सार्वभौममहीशवत् । इत्थं विश्वाध्वपटलमयत्नेनैव लीयते ॥३१॥ भैरवीयमहाचक्रे संवित्तिपरिवारिते । ततः संस्कारमात्रेण विश्वस्यापि परिक्षये ॥३२॥ स्वात्मोच्छलत्तया भ्राम्यच्चक्रं संचिन्तयेन्महत् । ततस्तद्दाह्यविलयात् तत्संस्कारपरिक्षयात् ॥३३॥ प्रशाम्यद्भावयेच्चक्रं ततः शान्तं ततः शमम् । अनेन ध्यानयोगेन विश्वं चक्रे विलीयते ॥३४॥ तत्संविदि ततः संविद्विलीनार्थैव भासते । चित्स्वाभाव्यात् ततो भूयः सृष्टिर्यच्चिन्महेश्वरी ॥३५॥ एवं प्रतिक्षणं विश्वं स्वसंविदि विलापयन् । विसृजंश्च ततो भूयः शश्वद्भैरवतां व्रजेत् ॥३६॥ एवं त्रिशूलात् प्रभृति चतुष्पञ्चारकक्रमात् । पञ्चाशदरपर्यन्तं चक्रं योगी विभावयेत् ॥३७॥ चतुष्षष्टिशतारं वा सहस्रारमथापि वा । असंख्यारसहस्रं वा चक्रं ध्यायेदनन्यधीः ॥३८॥ संविन्नाथस्य महतो देवस्योल्लासिसंविदः । नैवास्ति काचित्कलना विश्वशक्तेर्महेशितुः ॥३९॥ शक्तयोऽस्य जगत् कृत्स्नं शक्तिमांस्तु महेश्वरः । इति माङ्गलशास्त्रे तु श्रीश्रीकण्ठो न्यरूपयत् ॥४०॥ इत्येतत् प्रथमोपायरूपं ध्यानं न्यरूपयत् । श्रीशंभुनाथो मे तुष्टस्तस्मै श्रीसुमतिप्रभुः ॥४१॥ अनयैव दिशान्यानि ध्यानान्यपि समाश्रयेत् । अनुत्तरोपायधुरां यान्यायान्ति क्रमं विना ॥४२॥ अथ प्राणस्य या वृत्तिः प्राणनाद्या निरूपिता । तदुपायतया ब्रूमो ̕नुत्तरप्रविकासनम् ॥४३॥ निजानन्दे प्रमात्रंशमात्रे हृदि पुरा स्थितः । शून्यतामात्रविश्रान्तेर्निरानन्दं विभावयेत् ॥४४॥ प्राणोदये प्रमेये तु परानन्दं विभावयेत् । तत्रानन्तप्रमेयांशपूरणापाननिर्वृतः ॥४५॥ परानन्दगतस्तिष्ठेदपानशशिशोभितः । ततोऽनन्तस्फुरन्मेयसंघट्टैकान्तनिर्वृतः ॥४६॥ समानभूमिमागत्य ब्रह्मानन्दमयो भवेत् । ततो ̕पि मानमेयौघकलनाग्रासतत्परः ॥४७॥ उदानवह्नौ विश्रान्तो महानन्दं विभावयत् । तत्र विश्रान्तिमभ्येत्य शाम्यत्यस्मिन्महार्चिषि ॥४८॥ निरुपाधिर्महाव्याप्तिर्व्यानाख्योपाधिवर्जिता । तदा खलु चिदानन्दो यो जडानुपबृंहितः ॥४९॥ नह्यत्र संस्थितिः कापि विभक्ता जडरूपिणः । यत्र कोऽपि व्यवच्छेदो नास्ति यद्विश्वतः स्फुरत् ॥५०॥ यदनाहतसंवित्ति परमामृतबृंहितम् । यत्रास्ति भावनादीनां न मुख्या कापि संगतिः ॥५१॥ तदेव जगदानन्दमस्मभ्यं शंभुरूचिवान् । तत्र विश्रान्तिराधेया हृदयोच्चारयोगतः ॥५२॥ या तत्र सम्यग्विश्रान्तिः सानुत्तरमयी स्थितिः । इत्येतद्धृदयाद्येकस्वभावेऽपि स्वधामनि ॥५३॥ षट्प्राणोच्चारजं रूपमथ व्याप्त्या तदुच्यते । प्राणदण्डप्रयोगेन पूर्वापरसमीकृतेः ॥५४॥ चतुष्किकाम्बुजालम्बिलम्बिकासौधमाश्रयेत् । त्रिशूलभूमिं क्रान्त्वातो नाडित्रितयसङ्गताम् ॥५५॥ इच्छाज्ञानक्रियाशक्तिसमत्वे प्रविशेत् सुधीः । एकां विकासिनीं भूयस्त्वसंकोचां विकस्वराम् ॥५६॥ श्रयेद्भ्रूबिन्दुनादान्तशक्तिसोपानमालिकाम् । तत्रोर्ध्वकुण्डलीभूमौ स्पन्दनोदरसुन्दरः ॥५७॥ विसर्गस्तत्र विश्राम्येन्मत्स्योदरदशाजुषि । रासभी वडवा यद्वत्स्वधामानन्दमन्दिरम् ॥५८॥ विकाससंकोचमयं प्रविश्य हृदि हृष्यति । तद्वन्मुहुर्लीनसृष्टभावव्रातसुनिर्भराम् ॥५९॥ श्रयेद्विकाससंकोचरूढभैरवयामलाम् । एकीकृतमहामूलशूलवैसर्गिके हृदि ॥६०॥ परस्मिन्नेति विश्रान्तिं सर्वापूरणयोगतः । अत्र तत्पूर्णवृत्त्यैव विश्वावेशमयं स्थितम् ॥६१॥ प्रकाशस्यात्मविश्रान्तावहमित्येव दृश्यताम् । अनुत्तरविमर्शे प्राग्व्यापारादिविवर्जिते ॥६२॥ चिद्विमर्शपराहंकृत् प्रथमोल्लासिनी स्फुरेत् । तत उद्योगसक्तेन स द्वादशकलात्मना ॥६३॥ सूर्येणाभासयेद्भावं पूरयेदथ चर्चयेत् । अथेन्दुः षोडशकलो विसर्गग्रासमन्थरः ॥६४॥ संजीवन्यमृतं बोधवह्नौ विसृजति स्फुरन् । इच्छाज्ञानक्रियाशक्तिसूक्ष्मरन्ध्रस्रुगग्रगम् ॥६५॥ तदेवम[तद]मृतं दिव्यं संविद्देवीषु तर्पकम् । विसर्गामृतमेतावद् बोधाख्ये हुतभोजिनि ॥६६॥ विसृष्टं चेद्भवेत्सर्वं हुतं षोढाध्वमण्डलम् । यतोऽनुत्तरनाथस्य विसर्गः कुलनायिका । तत्क्षोभः कादिहान्तं तत्प्रसरस्तत्त्वपद्धतिः ॥६७॥ अंअ इति कुलेश्वर्या सहितो हि कुलेशिता । परो विसर्गविश्लेषस्तन्मयं विश्वमुच्यते ॥६८॥ वित्प्राणगुणदेहान्तर्बहिर्द्रव्यमयीमिमाम् । अर्चयेज्जुहुयाद्ध्यायेदित्थं संजीवनीं कलाम् ॥६९॥ आनन्दनाडीयुगलस्पन्दनावहितौ स्थितः । एनां विसर्गनिःष्यन्दसौधभूमिं प्रपद्यते ॥७०॥ शाक्ते क्षोभे कुलावेशे सर्वनाड्यग्रगोचरे । व्याप्तौ सर्वात्मसंकोचे हृदयं प्रविशेत्सुधीः ॥७१॥ सोमसूर्यकलाजालपरस्परनिघर्षतः । अग्नीषोमात्मके धाम्नि विसर्गानन्द उन्मिषेत् ॥७२॥ अलं रहस्यकथया गुप्तमेतत्स्वभावतः । योगिनीहृदयं तत्र विश्रान्तः स्यात्कृती बुधः ॥७३॥ हानादानतिरस्कारवृत्तौ रूढिमुपागतः । अभेदवृत्तितः पश्येद्विश्वं चितिचमत्कृतेः ॥७४॥ अर्थक्रियार्थितादैन्यं त्यक्त्वा बाह्यान्तरात्मनि । खरूपे निर्वृतिं प्राप्य फुल्लां नाददशां श्रयेत् ॥७५॥ वक्त्रमन्तस्तया सम्यक् संविदः प्रविकासयेत् । संविदक्षमरुच्चक्रं ज्ञेयाभिन्नं ततो भवेत् ॥७६॥ तज्ज्ञेयं संविदाख्येन वह्निना प्रविलीयते । विलीनं तत् त्रिकोणे ̕स्मिञ्शक्तिवह्नौ विलीयते ॥७७॥ तत्र संवेदनोदारबिन्दुसत्तासुनिर्वृतः । संहारबीजविश्रान्तो योगी परमयो भवेत् ॥७८॥ अन्तर्बाह्ये द्वये वापि सामान्येतरसुन्दरः । संवित्स्पन्दस्त्रिशक्त्यात्मा संकोचप्रविकासवान् ॥७९॥ असंकोचविकासोऽपि तदाभासनतस्तथा । अन्तर्लक्ष्यो बहिर्दृष्टिः परमं पदमश्नुते ॥८०॥ ततः स्वातन्त्र्यनिर्मेये विचित्रार्थक्रियाकृति । विमर्शनं विशेषाख्यः स्पन्द औन्मुख्यसंज्ञितः ॥८१॥ तत्र विश्रान्तिमागच्छेद्यद्वीर्यं मन्त्रमण्डले । शान्त्यादिसिद्धयस्तत्तद्रूपतादात्म्यतो यतः ॥८२॥ दिव्यो यश्चाक्षसंघो ̕यं बोधस्वातन्त्र्यसंज्ञकः । सोऽनिमीलित एवैतत् कुर्यात्स्वात्ममयं जगत् ॥८३॥ महासाहससंयोगविलीनाखिलवृत्तिकः । पुञ्जीभूते स्वरश्म्योघे निर्भरीभूय तिष्ठति ॥८४॥ अकिचिच्चिन्तकस्तत्र स्पष्टदृग्याति संविदम् । यद्विस्फुलिङ्गाः संसारभस्मदाहैकहेतवः ॥८५॥ तदुक्तं परमेशेन त्रिशिरोभैरवागमे । शृणु देवि प्रवक्ष्यामि मन्त्रभूम्यां प्रवेशनम् ॥८६॥ मध्यनाड्योर्ध्वगमनं तद्धर्मप्राप्तिलक्षणम् । विसर्गान्तपदातीतं प्रान्तकोटिनिरूपितम् ॥८७॥ अधःप्रवाहसंरोधादूर्ध्वक्षेपविवर्जनात् । महाप्रकाशमुदयज्ञानव्यक्तिप्रदायकम् ॥८८॥ अनुभूय परे धाम्नि मात्रावृत्त्या पुरं विशेत् । निस्तरङ्गावतीर्णा सा वृत्तिरेका शिवात्मिका ॥८९॥ चतुष्षड्द्विर्द्विगुणितचक्रषट्कसमुज्ज्वला । तत्स्थं [त्स्थो] विचारयेत् खं खं खस्थं खस्थेन संविशेत् ॥९०॥ खं खं त्यक्त्वा खमारुह्य खस्थं खं चोच्चरेदिति । खमध्यास्याधिकारेण पदस्थाश्चिन्मरीचयः ॥९१॥ भावयेद्भावमन्तःस्थं भावस्थो भावनिःस्पृहः । भावाभावगती रुद्ध्वा भावाभावावरोधदृक् ॥९२॥ आत्माणुकुलमूलानि शक्तिर्भूतिश्चिती रतिः । शक्तित्रयं द्रष्टृदृश्योपरक्तं तद्विवर्जितम् ॥९३॥ एतत्खं दशधा प्रोक्तमुच्चारोच्चारलक्षणम् । धामस्थं धाममध्यस्थं धामोदरपुटीकृतम् ॥९४॥ धाम्ना तु बोधयेद्धाम धाम धामान्तगं कुरु । तद्धाम धामगत्या तु भेद्यं धामान्तमान्तरम् ॥९५॥ भेदोपभेदभेदेन भेदः कार्यस्तु मध्यतः । इति प्रवेशोपायो ̕यमाणवः परिकीर्तितः ॥९६॥ श्रीमहेश्वरनाथेन यो हृत्स्थेन ममोदितः । श्रीब्रह्मयामले चोक्तं श्रीमान् रावो दशात्मकः ॥९७॥ स्थूलः सूक्ष्मः परो हृद्यः कण्ठ्यस्तालव्य एव च । सर्वतश्च विभुर्योऽसौ विभुत्वपददायकः ॥९८॥ जितरावो महायोगी संक्रामेत्परदेहगः । परां च विन्दति व्याप्तिं प्रत्यहं ह्यभ्यसेत तम् ॥९९॥ तावद्यावदरावे सा रावाल्लीयेत राविणी । अत्र भावनया देहगतोपायैः परे पथि ॥१००॥ विविक्षोः पूर्णतास्पर्शात्प्रागानन्दः प्रजायते । ततोऽपि विद्युदापातसदृशे देहवर्जिते ॥१०१॥ धाम्नि क्षणं समावेशादुद्भवः प्रस्फुटं प्लुतिः । जलपांसुवदभ्यस्तसंविद्देहैक्यहानितः ॥१०२॥ स्वबलाक्रमणाद्देहशैथिल्यात् कम्पमाप्नुयात् । गलिते देहतादात्म्यनिश्चयेऽन्तर्भुखत्वतः ॥१०३॥ निद्रायते पुरा यावन्न रूढः संविदात्मनि । ततः सत्यपदे रूढो विश्वात्मत्वेन संविदम् ॥१०४॥ संविदन् घूर्णते घूर्णिर्महाव्याप्तिर्यतः स्मृता । आत्मन्यनात्माभिमतौ सत्यामेव ह्यनात्मनि ॥१०५॥ आत्माभिमानो देहादौ बन्धो मुक्तिस्तु तल्लयः । आदावनात्मन्यात्मत्वे लीने लब्धे निजात्मनि ॥१०६॥ आत्मन्यनात्मतानाशे महाव्याप्तिः प्रवर्तते । आनन्द उद्भवः कम्पो निन्द्रा घूर्णिश्च पञ्चकम् ॥१०७॥ इत्युक्तमत एव श्रीमालिनीविजयोत्तरे । प्रदर्शिते ̕स्मिन्नानन्दप्रभृतौ पञ्चके यदा ॥१०८॥ योगी विशेत्तदा तत्तच्चक्रेशत्वं हठाद्व्रजेत् । यथा सर्वेशिना बोधेनाक्रान्तापि तनुः क्वचित् ॥१०९॥ किंचित्कर्तुं प्रभवति चक्षुषा रूपसंविदम् । तथैव चक्रे कुत्रापि प्रवेशात्को ̕पि संभवेत् ॥११०॥ आनन्दचक्रं वह्न्यश्रि कन्द उद्भव उच्यते । कम्पो हृत्तालु निद्रा च घूर्णिः स्यादूर्ध्वकुण्डली ॥१११॥ एतच्च स्फुटमेवोक्तं श्रीमन्त्रैशिरसे मते । एवं प्रदर्शितोच्चारविश्रान्तिहृदयं परम् ॥११२॥ यत्तदव्यक्तलिङ्गं नृशिवशक्त्यविभागवत् । अत्र विश्वमिदं लीनमत्रान्तःस्थं च गम्यते ॥११३॥ इदं तल्लक्षणं पूर्णशक्तिभैरवसंविदः । देहगाध्वसमुन्मेषे समावेशस्तु यः स्फुटः ॥११४॥ अहन्ताच्छादितोन्मेषिभावेदंभावयुक् स च । व्यक्ताव्यक्तमिदं लिङ्गं मन्त्रवीर्यं परापरम् ॥११५॥ नरशक्तिसमुन्मेषि शिवरूपाद्विभेदितम् । यन्न्यक्कृतशिवाहन्तासमावेशं विभेदवत् ॥११६। विशेषस्पन्दरूपं तद् व्यक्तं लिङ्गं चिदात्मकम् । व्यक्तात्सिद्धिप्रसवो व्यक्ताव्यक्ताद्द्वयं विमोक्षश्च । अव्यक्ताद्बलमाद्यं परस्य नानुत्तरे त्वियं चर्चा ॥११७॥ आत्माख्यं यद्व्यक्तं नरलिङ्गं तत्र विश्वमर्पयतः । व्यक्ताव्यक्तं तस्माद्गलिते तस्मिंस्तदव्यक्तम् ॥११८॥ तेनात्मलिङ्गमेतत् परमे शिवशक्त्यणुस्वभावमये । अव्यक्ते विश्राम्यति नानुत्तरधामगा त्वियं चर्चा ॥११९॥ एकस्य स्पन्दनस्यैषा त्रैधं भेदव्यवस्थितिः । अत्र लिङ्गे सदा तिष्ठेत् पूजाविश्रान्तितत्परः ॥१२०॥ योगिनीहृदयं लिङ्गमिदमानन्दसुन्दरम् । बीजयोनिसमापत्त्या सूते कामपि संविदम् ॥१२१॥ अत्र प्रयासविरहात्सर्वोऽसौ देवतागणः । आनन्दपूर्णे धाम्न्यास्ते नित्योदितचिदात्मकः ॥१२२॥ अत्र भैरवनाथस्य ससंकोचविकासिका । भासते दुर्घटा शक्तिरसंकोचविकासिनः ॥१२३॥ एतल्लिङ्गसमापत्तिविसर्गानन्दधारया । सिक्तं तदेव सद्विश्वं शश्वन्नवनवायते ॥१२४॥ अनुत्तरे ̕भ्युपायो ̕त्र ताद्रूप्यादेव वर्णितः । ज्वलितेष्वपि दीपेषु घर्मांशुः किं न भासते ॥१२५॥ अर्थेषु तद्भोगविधौ तदुत्थे दुःखे सुखे वा गलिताभिशङ्कम् । अनाविशन्तो ̕पि निमग्नचित्ता जानन्ति वृत्तिक्षयसौख्यमन्तः ॥१२६॥ सत्येवात्मनि चित्स्वभावमहसि स्वान्ते तथोपक्तियां तस्मै कुर्वति तत्प्रचारविवशे सत्यक्षवर्गेऽपि च । सत्स्वर्थेषु सुखादिषु स्फुटतरं यद्भेदवन्ध्योदयं योगी तिष्ठति पूर्णरश्मिविभवस्तत्तत्त्वमाचीयताम् ॥१२७॥ इत्युच्चारविधिः प्रोक्तः करणं प्रविविच्यते । तच्चेत्थं त्रिशिरःशास्त्रे परमेशेन भाषितम् ॥१२८॥ ग्राह्यग्राहकचिद्व्याप्तित्यागाक्षेपनिवेशनैः । करणं सप्तधा प्राहुरभ्यासं बोधपूर्वकम् ॥१२९॥ तद्व्याप्तिपूर्वमाक्षेपे करणं स्वप्रतिष्ठता । गुरुवक्त्राच्च बोद्धव्यं करणं यद्यपि स्फुटम् ॥१३०॥ तथाप्यागमरक्षार्थं तदग्रे वर्णयिष्यते । उक्तो य एष उच्चारस्तत्र योऽसौ स्फुरन् स्थितः ॥१३१॥ अव्यक्तानुकृतिप्रायो ध्वनिर्वर्णः स कथ्यते । सृष्टिसंहारबीजं च तस्य मुख्यं वपुर्विदुः ॥१३२॥ तदभ्यासवशाद्याति क्रमाद्योगी चिदात्मताम् । तथा ह्यनच्के साच्के वा कादौ सान्ते पुनःपुनः ॥१३३॥ स्मृते प्रोच्चारिते वापि सा सा संवित्प्रसूयाते । बाह्यार्थसमयापेक्षा घटाद्या ध्वनयो ̕पि ये ॥१३४॥ तेऽप्यर्थभावनां कुर्युर्मनोराज्यवदात्मनि । तदुक्तं परमेशेन भैरवो व्यापको ̕खिले ॥१३५॥ इति भैरवशब्दस्य संततोच्चारणाच्छिवः । श्रीमत्त्रैशिरसेऽप्युक्तं मन्त्रोद्धारस्य पूर्वतः ॥१३६॥ स्मृतिश्च स्मरणं पूर्वं सर्वभावेषु वस्तुतः । मन्त्रस्वरूपं तद्भाव्यस्वरूपापत्तियोजकम् ॥१३७॥ स्मृतिः स्वरूपजनिका सर्वभावेषु रञ्जिका । अनेकाकाररूपेण सर्वत्रावस्थितेन तु ॥१३८॥ स्वस्वभावस्य संप्राप्तिः संवित्तिः परमार्थतः । व्यक्तिनिष्ठा ततो विद्धि सत्ता सा कीर्तिता परा ॥१३९॥ किं पुनः समयापेक्षां विना ये बीजपिण्डकाः । संविदं स्पन्दपन्त्येते नेयुः संविदुपायताम् ॥१४०॥ वाच्याभावादुदासीनसंवित्स्पन्दात्स्वधामतः । प्राणोल्लासनिरोधाभ्यां बीजपिण्डेषु पूर्णता ॥१४१॥ सुखसीत्कारसत्सम्यक्साम्यप्रथमसंविदः । संवेदनं हि प्रथमं स्पर्शोऽनुत्तरसंविदः ॥१४२॥ हृत्कण्ठ्योष्ठ्यत्रिधामान्तर्नितरां प्रविकासिनि । चतुर्दशः प्रवेशो य एकीकृततदात्मकः ॥१४३॥ ततो विसर्गोच्चारांशे द्वादशान्तपथावुभौ । हृदयेन सहैकध्यं नयते जपतत्परः ॥१४४॥ कन्दहृत्कण्ठताल्वग्रकौण्डिलीप्रक्रियान्ततः । आनन्दमध्यनाड्यन्तः स्पन्दनं बीजमावहेत् ॥१४५॥ संहारबीजं खं हृत्स्थमोष्ठ्यं फुल्लं स्वमूर्धनि । तेजस्त्र्यश्रं तालुकण्ठे बिन्दुरूर्ध्वपदे स्थितः ॥१४६॥ इत्येनया बुधो युक्त्या वर्णजप्यपरायणः । अनुत्तरं परं धाम प्रविशेदचिरात् सुधीः ॥१४७॥ वर्णशब्देन नीलादि यद्वा दीक्षोत्तरे यथा । संहारन्रग्निमरुतो रुद्रबिन्दुयुतान्स्मरेत् ॥१४८॥ हृदये तन्मयो लक्ष्यं पश्येत्सप्तदिनादथ । विस्फुलिङ्गाग्निवन्नीलपीतरक्तादिचित्रितम् ॥१४९॥ जाज्वलीति हृदम्भोजे बीजदीपप्रबोधितम् । दीपवज्ज्वलितो बिन्दुर्भासते विघनार्कवत् ॥१५०॥ स्वयंभासात्मनानेन तादात्म्यं यात्यनन्यधीः । शिवेन हेमतां यद्वत्ताम्रं सूतेन वेधितम् ॥१५१॥ उपलक्षणमेतच्च सर्वमन्त्रेषु लक्षयेत् । यद्यत्संकल्पसंभूतं वर्णजालं हि भौतिकम् ॥१५२॥ तत् संविदाधिक्यवशादभौतिकमिव स्थितम् । अतस्तथाविधे रूपे रूढो रोहति संविदि ॥१५३॥ अनाच्छादितरूपायामनुपाधौ प्रसन्नधीः । नीले पीते सुखे दुःखे संविद्रूपमखण्डितम् ॥१५४॥ गुरुभिर्भाषितं तस्मादुपायेषु विचित्रता । उच्चारकरणध्यानवर्णैरेभिः प्रदर्शितः ॥१५५॥ अनुत्तरपदप्राप्तावभ्युपायविधिक्रमः । अकिंचिच्चिन्तनं वीर्यं भावनायां च सा पुनः ॥१५६॥ ध्याने तदपि चोच्चारे करणे सो ̕पि तद्ध्वनौ । स स्थानकल्पने बाह्यमिति क्रममुपाश्रयेत् ॥१५७॥ लङ्घनेन परो योगी मन्दबुद्धिः क्रमेण तु । वीर्यं विना यथा षण्ठस्तस्याप्यस्त्यथ वा बलम् । मृतदेह इवेयं स्याद्बाह्यान्तःपरिकल्पना ॥१५८॥ इत्याणवेऽनुत्तरताभ्युपायः प्रोक्तो नयः स्पष्टपथेन बाह्यः ॥१५९॥
|
|