Tantraloka by Abhinavagupta
In Sanscrito:
CAP.1 - CAP.2 - CAP.3 - CAP.4 - CAP.5 - CAP.6 - CAP.7 - CAP.8 - CAP.9 - CAP.10 CAP.11 - CAP.12 - CAP.13 - CAP.14 - CAP.15 - CAP.16 - CAP.17 - CAP.18 - CAP.19 - CAP.20 CAP.21 - CAP.22 - CAP.23 - CAP.24 - CAP.25 - CAP.26 - CAP.27 - CAP.28 - CAP.29 - CAP.30 CAP.31 - CAP.32 - CAP.33 - CAP.34 - CAP.35 - CAP.36 - CAP.37 - Testo translitterato
TANTRALOKA SANSCRITO
अथ श्रीतन्त्रालोके पञ्चविंशतितममाह्निकम्
अथ श्राद्धविधिः श्रीमत्षडर्धोक्तो निगद्यते ॥१॥ सिद्धातन्त्रे सूचितोऽसौ मूर्तियागनिरूपणे । अन्त्येष्ट्या सुविशुद्धानामशुद्धानां च तद्विधिः ॥२॥ त्र्यहे तुर्ये ̕ह्नि दशमे मासि मास्याद्यवत्सरे । वर्षे वर्षे सर्वकालं कार्यस्तत्स्वैः स पूर्ववत् ॥३॥ तत्र प्राग्वद्यजेद्देवं होमयेदनले तथा । ततो नैवेद्यमेव प्राग्गृहीत्वा हस्तगोचरे ॥४॥ गुरुरन्नमयीं शक्तिं वृंहिकां वीर्यरूपिणीम् । ध्यात्वा तया समाविष्टं तं साध्यं चिन्तयेत्सुधीः ॥५॥ ततोऽस्य यः पाशवोंऽशो भोग्यरूपस्तमर्पयेत् । भोक्तर्येकात्मभावेन शिष्य इत्थं शिवीभवेत् ॥६॥ भोग्यतान्या तनुर्देह इति पाशात्मका मताः । श्राद्धे मृतोद्धृतावन्तयागे तेषां शिवीकृतिः ॥७॥ एकेनैव विधानेन यद्यपि स्यात्कृतार्थता । तथापि तन्मयीभावसिद्ध्यै सर्वं विधिं चरेत् ॥८॥ बुभुक्षोस्तु क्रियाभ्यासभूमानौ फलभूमनि । हेतु ततो मृतोद्धारश्राद्धाद्यस्मै समाचरेत् ॥९॥ तत्त्वज्ञानार्कविध्वस्तध्वान्तस्य तु न को ̕प्ययम् । अन्त्येष्टिश्राद्धविध्यादिरुपयोगी कदाचन ॥१०॥ तेषां तु गुरु तद्वर्गवर्ग्यसब्रह्मचारिणाम् । तत्सन्तानजुषामैक्यदिनं पर्वदिनं भवेत् ॥११॥ यदाहि बोधस्योद्रेकस्तदा पर्वाह पूरणात् । जन्मैक्यदिवसौ तेन पर्वणी बोधसिद्धितः ॥१२॥ पुत्रकोऽपि यदा कस्मैचन स्यादुपकारकः । तदा मातुः पितुः शक्तेर्वामदक्षान्तरालगाः ॥१३॥ नाडीः प्रवाहयेद्देवायार्पयेत निवेदितम् । श्रीमद्भरुणतन्त्रे च तच्छिवेन निरूपितम् ॥१४॥ तद्वाहकालापेक्षा च कार्या तद्रूपसिद्धये । स्वाच्छन्द्येनाथ तत्सिद्धिं विधिना भाविना चरेत् ॥१५॥ यस्य कस्यापि वा श्राद्धे गुरुदेवाग्नितर्पणम् । सचक्रेष्टि भवेच्छ्रौतो नतु स्यात्पाशवो विधिः ॥१६॥ श्रीमौकुटे तथा चोक्तं शिवशास्त्रे स्थितो ̕पि यः । प्रत्येति वैदिके भग्नघण्टावन्न स किंचन ॥१७॥ तथोक्तदेवपूजादिचक्रयागान्तकर्मणा । रुद्रत्वमेत्यसौ जन्तुर्भोगान्दिव्यान्समश्नुते ॥१८॥ अथ वच्मः स्फुटं श्रीमत्सिद्धये नाडिचारणम् । या वाहयितुमिष्येत नाडी तामेव भावयेत् ॥१९॥ भावनातन्मयीभावे सा नाडी वहति स्फुटम् । यद्वा वाहयितुं येष्टा तदङ्गं तेन पाणिना ॥२०॥ आपीड्य कुक्षिं नमयेत्सा वहेन्नाडिका क्षणात् । एवं श्राद्धमुखेनापि भोगमोक्षोभयस्थितिम् ॥२१॥ कुर्यादिति शिवेनोक्तं तत्र तत्र कृपालुना । शक्तिपातोदये जन्तोर्येनोपायेन दैशिकः ॥२२॥ करोत्युद्धरणं तत्तन्निर्वाणायास्य कल्पते । उद्धर्ता देवदेवो हि स चाचिन्त्यप्रभावकः ॥२३॥ उपायं गुरुदीक्षादिद्वारमात्रेण संश्रयेत् । उक्तं श्रीमन्मतङ्गाख्ये मुनिप्रश्नादनन्तरम् ॥२४॥ मुक्तिर्विवेकात्तत्त्वानां दीक्षातो योगतो यदि । चर्यामात्रात्कथं सा स्यादित्यतः सममुत्तरम् ॥२५॥ प्रहस्योचे विभुः कस्माद्भ्रान्तिस्ते परमेशितुः । सर्वानुग्राहकत्वं हि संसिद्धं दृश्यतां किल ॥२६॥ प्राप्तमृत्योर्विषव्याधिशस्त्रादि किल कारणम् । अल्पं वा बहु वा तद्वदनुध्या मुक्तिकारणम् ॥२७॥ मुक्त्यर्थमुपचर्यन्ते बाह्यलिङ्गान्यमूनि तु । इति ज्ञात्वा न सन्देह इत्थं कार्यो विपश्चिता ॥२८॥ इयतैव कथं मुक्तिरिति भक्तिं परां श्रयेत् । उक्तः श्राद्धविधिर्भ्रान्तिगरातङ्कविमर्दनः ॥२९॥
अथ श्रीतन्त्रालोके षड्विंशमाह्निकम्
अथोच्यते शेषवृत्तिर्जीवतामुपयोगिनी ॥१॥ दीक्षा बहुप्रकारेयं श्राद्धान्ता या प्रकीर्तिता । सा संस्क्रियायै मोक्षाय भोगायापि द्वयाय वा ॥२॥ तत्र संस्कारसिद्ध्यै या दीक्षा साक्षान्न मोचनी । अनुसंधिवशाद्या च साक्षान्मोक्त्री सबीजिका ॥३॥ तयोभय्या दीक्षिता ये तेषामाजीववर्तनम् । वक्तव्यं पुत्रकादीनां तन्मयत्वप्रसिद्धये ॥४॥ बुभुक्षोर्वा मुमुक्षोर्वा स्वसंविद्गुरुशास्त्रतः । प्रमाणाद्या संस्क्रियायै दीक्षा हि गुरुणा कृता ॥५॥ ततः स संस्कृतं योग्यं ज्ञात्वात्मानं स्वशासने । तदुक्तवस्त्वनुष्ठानं भुक्त्यै मुक्त्यै च सेवते ॥६॥ आचार्यप्रत्ययादेव योऽपि स्याद्भुक्तिमुक्तिभाक् । तत्प्रत्यूहोदयध्वस्त्यै ब्रूयात्तस्यापि वर्तनम् ॥७॥ स्वसंविद्गुरुसंवित्त्योस्तुल्यप्रत्ययभागपि । शेषवृत्त्या समादेश्यस्तद्विघ्नादिप्रशान्तये ॥८॥ यः सर्वथा परापेक्षामुज्झित्वा तु स्थितो निजात् । प्रत्ययाद्योऽपि चाचार्यप्रत्ययादेव केवलात् ॥९॥ तौ सांसिद्धिकनिर्बीजौ को वदेच्छेषवृत्तये । क्रमात्तन्मयतोपायगुर्वर्चनरतौ तु तौ ॥१०॥ तत्रैषां शेषवृत्त्यर्थं नित्यनैमित्तिके ध्रुवे । काम्यवर्जं यतः कामाश्चित्राश्चित्राभ्युपायकाः ॥११॥ तत्र नित्यो विधिः सन्ध्यानुष्ठानं देवताव्रजे । गुर्वग्निशास्त्रसहिते पूजा भूतदयेत्ययम् ॥१२॥ नैमित्तिकस्तु सर्वेषां पर्वणां पूजनं जपः । विशेषवशतः किंच पवित्रकविधिक्रमः ॥१३॥ आचार्यस्य च दीक्षेयं बहुभेदा विवेचिता । व्याख्यादिकं च तत्तस्याधिकं नैमित्तिकं ध्रुवम् ॥१४॥ तत्रादौ शिशवे व्रूयाद्गुरुर्नित्यविधिं स्फुटम् । तद्योग्यतां समालोक्य वितताविततात्मनाम् ॥१५॥ मुख्येतरादिमन्त्राणां वीर्यव्याप्त्यादियोग्यताम् । दृष्ट्वा शिष्ये तमेवास्मै मूलमन्त्रं समर्पयेत् ॥१६॥ तच्छास्त्रदीक्षितो ह्येष निर्यन्त्राचारशङ्कितः । न मुख्ये योग्य इत्यन्यसेवातः स्यात्तु योग्यता ॥१७॥ साधकस्य बुभुक्षोस्तु साधकीभाविनो ̕पिवा । पुष्पपातवशात्सिद्धो मन्त्रोऽर्प्यः साध्यसिद्धये ॥१८॥ वितते गुणभूते वा विधौ दिष्टे पुनर्गुरुः । ज्ञात्वास्मै योग्यतां सारं संक्षिप्तं विधिमाचरेत् ॥१९॥ तत्रैष नियमो यद्यन्मान्त्रं रूपं न तद्गुरुः । लिखित्वा प्रथयेच्छिष्ये विशेषादूर्ध्वशासने ॥२०॥ मन्त्रा वर्णात्मकास्ते च परामर्शात्मकाः सच । गुरुसंविदभिन्नश्वेत्संक्रामेत्सा ततः शिशौ ॥२१॥ लिपिस्थितस्तु यो मन्त्रो निर्वीर्यः सोऽत्र कल्पितः । संकेतबलतो नास्य पुस्तकात्प्रथते महः ॥२२॥ पुस्तकाधीतविद्याश्चेत्युक्तं सिद्धामते ततः । ये तु पुस्तकलब्धे ̕पि मन्त्रे वीर्यं प्रजानते ॥२३॥ ते भैरवीयसंस्काराः प्रोक्ताः सांसिद्धिका इति । इति ज्ञात्वा गुरुः सम्यक् परमानन्दघूर्णितः ॥२४॥ तादृशे तादृशे धाम्नि पूजयित्वा विधिं चरेत् । यथान्यशिष्यानुष्ठानं नान्यशिष्येण बुध्यते ॥२५॥ तथा कुर्याद्गुरुर्गुप्तिहानिर्दोषवती यतः । देवीनां त्रितयं शुद्धं यद्वा यामलयोगतः ॥२६॥ देवीमेकामथो शुद्धां वदेद्वा यामलात्मिकाम् । तत्र मन्त्रं स्फुटं वक्त्राद्गुरुणोपांशु चोदितम् ॥२७॥ अवधार्या प्रवृत्तेस्तमभ्यस्येन्मनसा स्वयम् । ततः सुशिक्षितां स्थानदेहान्तःशोधनत्रयीम् ॥२८॥ न्यासं ध्यानं जपं मुद्रां पूजां कुर्यात्प्रयत्नतः । तत्र प्रभाते संबुध्य स्वेष्टां प्राग्देवतां स्मरेत् ॥२९॥ कृतावश्यककर्तव्यः शुद्धो भूत्वा ततो गृहम् । आश्रित्योत्तरदिग्वक्त्रः स्थानदेहान्तरत्रये ॥३०॥ शुद्धिं विधाय मन्त्राणां यथास्थानं निवेशनम् । मुद्राप्रदर्शनं ध्यानं भेदाभेदस्वरूपतः ।३१॥ देहासुधीव्योमभूषु मनसा तत्र चार्चनम् । जपं चात्र यथाशक्ति देवायैतन्निवेदनम् ॥३२॥ तन्मयीभावसिद्ध्यर्थं प्रतिसन्ध्यं समाचरेत् । अन्ये तु प्रागुदक्पश्चाद्दशदिक्षु चतुष्टयीम् ॥३३॥ सन्ध्यानामाहुरेतच्च तान्त्रिकीयं न नो मतम् । यासौ कालाधिकारे प्राक् सन्ध्या प्रोक्ता चतुष्टयी ॥३४॥ तामेवान्तः समाधाय सान्ध्यं विधिमुपाचरेत् । सन्ध्याचतुष्टयीकृत्यमेकस्यामथवा शिशुः ॥३५॥ कुर्यात्स्वाध्यायविज्ञानगुरुकृत्यादितत्परः । सन्ध्याध्यानोदितानन्ततन्मयीभावयुक्तितः ॥३६॥ तत्संस्कारवशात्सर्वं कालं स्यात्तन्मयो ह्यसौ । ततो यथेष्टकालेऽसौ पूजां पुष्पासवादिभिः ॥३७॥ स्थण्डिलादौ शिशुः कुर्याद्विभवाद्यनुरूपतः । सुशुद्धः सन्विधिं सर्वं कृत्वान्तरजपान्तकम् ॥३८॥ अर्घपात्रं पुरा यद्वद्विधाय स्वेष्टमन्त्रतः । तेन स्थण्डिलपुष्पादि सर्वं संप्रोक्षयेद्बुधः ॥३९॥ ततस्तत्रैव संकल्प्य द्वारासनगुरुक्रमम् । पूजयेच्छिवताविष्टः स्वदेहार्चापुरःसरम् ॥४०॥ ततस्तत्स्थण्डिलं वीध्रव्योमस्फटिकनिर्मलम् । बोधात्मकं समालोक्य तत्र स्वं देवतागणम् ॥४१॥ प्रतिबिम्बतया पश्येद्बिम्बत्वेन च बोधतः । एतदावाहनं मुख्यं व्यजनान्मरुतामिव ॥४२॥ सर्वगो ̕पि मरुद्यद्वद्व्यजनेनोपजीवितः । अर्थकृत्सर्वगं मन्त्रचक्रं रूढेस्तथा भवेत् ॥४३॥ चतुष्कपञ्चाशिकया तदेतत्तत्त्वमुच्यते । श्रीनिर्मर्यादशास्त्रे च तदेतद्विभुनोदितम् ॥४४॥ देवः सर्वगतो देव निर्मर्यादः कथं शिवः । आवाह्यते क्षम्यते वेत्येवंपृष्टो ̕ब्रवीद्विभुः ॥४५॥ वासनावाह्यते देवि वासना च विसृज्यते । परमार्थेन देवस्य नावाहनविसर्जने ॥४६॥ आवाहितो मया देवः स्थण्डिले च प्रतिष्ठितः । पूजितः स्तुत इत्येवं हृष्ट्वा देवं विसर्जयेत् ॥४७॥ प्राणिनामप्रबुद्धानां सन्तोषजननाय वै । आवाहनादिकं तेषां प्रवृत्तिः कथमन्यथा ॥४८॥ कालेन तु विजानन्ति प्रवृत्ताः पतिशासने । अनुक्रमेण देवस्य प्राप्तिं भुवनपूर्विकाम् ॥४९॥ ज्ञानदीपद्युतिध्वस्तसमस्ताज्ञानसञ्चयाः । कुतो वानीयते देवः कुत्र वा नीयते ̕पि सः ॥५०॥ स्थूलसूक्ष्मादिभेदेन स हि सर्वत्र संस्थितः । आवाहिते मन्त्रगणे पुष्पासवनिवेदनैः ॥५१॥ धूपैश्च तर्पणं कार्यं श्रद्धाभक्तिबलोचितैः । दीप्तानां शक्तिनादादिमन्त्राणामासवैः पलैः ॥५२॥ रक्तैः प्राक् तर्पण पश्चात् पुष्पधूपादिविस्तरैः । आगतस्य तु मन्त्रस्य न कुर्यात्तर्पणं यदि ॥५३॥ हरत्यर्धशरीरं स इत्युक्तं किल शम्भुना । यद्यदेवास्य मनसि विकासित्वं प्रयच्छति ॥५४॥ तेनैव कुर्यात्पूजां स इति शम्भोर्विनिश्चयः । साधकानां बुभुक्षूणां विधिर्नियतियन्त्रितः ॥५५॥ मुमुक्षूणां तत्त्वविदां स एव तु निरर्गलः । कार्ये विशेषमाधित्सुर्विशिष्टं कारणं स्पृशेत् ॥५६॥ रक्तकर्पासतूलेच्छुस्तुल्यतद्बीजपुञ्जवत् । सन्ति भोगे विशेषाश्च विचित्राः कारणेरिताः ॥५७॥ देशकालानुसन्धानगुणद्रव्यक्रियादिभिः । स्वल्पा क्रिया भूयसी वा हृदयाह्लाददायिभिः ॥५८॥ बाह्यैः संकल्पजैर्वापि कारकैः परिकल्पिता । मुमुक्षोर्न विशेषाय नैःश्रेयसविधिं प्रति ॥५९॥ नहि ब्रह्मणि शंसन्ति बाहुल्याल्पत्वदुर्दशाः । चितः स्वातन्त्र्यसारत्वात् तस्यानन्दघनत्वतः ॥६०॥ क्रिया स्यात्तन्मयीभूत्यै हृदयाह्लाददायिभिः । शिवाभेदभराद्भाववर्गः श्च्योतति यं रसम् ॥६१॥ तमेव परमे धाम्नि पूजनायार्पयेद्बुधः । स्तोत्रेषु बहुधा चैतन्मया प्रोक्तं निजाह्निके ॥६२॥ अधिशय्य पारमार्थिकभावप्रसरप्रकाशमुल्लसति । या परमामृतदृक् त्वां तयार्चयन्ते रहस्यविदः ॥६३॥ कृत्वाधारधरां चमत्कृतिरसप्रोक्षाक्षणक्षालितामात्तैर्मानसतः स्वभावकुसुमैः स्वामोदसन्दोहिभिः । आनन्दामृतनिर्भरस्वहृदयानर्घार्घपात्रक्रमात् त्वां देव्या सह देहदेवसदने देवार्चयेऽहर्निशम् ॥६४॥ नानास्वादरसामिमां त्रिजगतीं हृच्चक्रयन्त्रार्पितामूर्ध्वाध्यस्तविवेकगौरवभरान्निष्पीड्य निःष्यन्दितम् । यत्संवित्परमामृतं मृतिजराजन्मापहं जृम्भते तेन त्वां हविषा परेण परमे संतर्पयेऽहर्निशम् ॥६५॥ इति श्लोकत्रयोपात्तमर्थमन्तर्विभावयन् । येन केनापि भावेन तर्पयेद्देवतागणम् ॥६६॥ मुद्रां प्रदर्शयेत्पश्चान्मनसा वापि योगतः । वचसा मन्त्रयोगेन वपुषा संनिवेशतः ॥६७॥ कृत्वा जपं ततः सर्वं देवतायै समर्पयेत् । तच्चोक्तं कर्तृतातत्त्वनिरूपणविधौ पुरा ॥६८॥ ततो विसर्जनं कार्यं बोधैकात्म्यप्रयोगतः । कृत्वा वा वह्निगां मन्त्रतृप्तिं प्रोक्तविधानतः ॥६९॥ द्वारपीठगुरुव्रातसमर्पितनिवेदनात् । ऋतेऽन्यत्स्वयमश्नीयादगाधेऽम्भस्यथ क्षिपेत् ॥७०॥ प्राणिनो जलजाः पूर्वदीक्षिताः शम्भुना स्वयम् । विधिना भाविना श्रीमन्मीननाथावतारिणा ॥७१॥ मार्जारमूषिकाद्यैर्यददीक्षैश्चापि भक्षितम् । तच्छङ्कातङ्कदानेन व्याधये नरकाय च ॥७२॥ अतस्तत्त्वविदा ध्वस्तशङ्कातङ्कोऽपि पण्डितः । प्रकटं नेदृशं कुर्याल्लोकानुग्रहवाञ्छया ॥७३॥ श्रीमन्मतमहाशास्त्रे तदुक्तं विभुना स्वयम् । स्वयं तु शङ्कासङ्कोचनिष्कासनपरायणः ॥७४॥ भवेत्तथा यथान्येषां शङ्का नो मनसि स्फुरेत् । मार्जयित्वा ततः स्नानं पुष्पेणाथ प्रपूजयेत् ॥७५॥ पुष्पादि सर्वं तत्स्थं तदगाधाम्भसि निक्षिपेत् । उक्तः स्थण्डिलयागोऽयं नित्यकर्मणि शम्भुना ॥७६॥
अथ श्रीतन्त्रालोके सप्तविंशतितममाह्निकम्
अथोच्यते लिङ्गपूजा सूचिता मालिनीमते ॥१॥ एतेषामूर्ध्वशास्त्रोक्तमन्त्राणां न प्रतिष्ठितम् । बहिष्कुर्यात्ततो ह्येते रहस्यत्वेन सिद्धिदाः ॥२॥ स्ववीर्यानन्दमाहात्म्यप्रवेशवशशालिनीम् । ये सिद्धिं ददते तेषां बाह्यत्वं रूपविच्युतिः ॥३॥ किंच चोक्तं समावेशपूर्णो भोक्त्रात्मकः शिवः । भोगलाम्पट्यभाग्भोगविच्छेदे निग्रहात्मकः ॥४॥ शान्तत्वन्यक्क्रियोद्भूतजिघत्सावृंहितं वपुः । स्वयं प्रतिष्ठितं येन सोऽस्याभोगे विनश्यति ॥५॥ उक्तं ज्ञानोत्तरायां च तदेतत्परमेशिना । शिवो यागप्रियो यस्माद्विशेषान्मातृमध्यगः ॥६॥ तस्माद्रहस्यशास्त्रेषु ये मन्त्रास्तान्बुधो बहिः । न प्रतिष्ठापयेज्जातु विशेषाद्व्यक्तरूपिणः ॥७॥ अत एव मृतस्यार्थे प्रतिष्ठान्यत्र योदिता । सात्र शास्त्रेषु नो कार्या कार्या साधारणी पुनः ॥८॥ आ तन्मयत्वसंसिद्धेरा चाभीष्टफलोदयात् । पुत्रकः साधको व्यक्तमव्यक्तं वा समाश्रयेत् ॥९॥ पुत्रकैर्गुरुरभ्यर्थ्यः साधकस्तु स्वयं विदन् । यदि तत्स्थापयेन्नो चेत्तेनाप्यर्थ्यो गुरुर्भवेत् ॥१०॥ गुरुश्चात्र निरोधाख्ये काल इत्थं विभौ वदेत् । जीवत्यस्मिन्फलान्तं त्वं तिष्ठेर्जीवावधीति वा ॥११॥ लिङ्गं च बाणलिङ्गं वा रत्नजं वाथ मौक्तिकम् । पौष्पमान्नमथो वास्त्रं गन्धद्रव्यकृतं च वा ॥१२॥ नतु पाषाणजं लिङ्गं शिल्प्युत्थं परिकल्पयेत् । धातूत्थं च सुवर्णोत्थवर्जमन्यद्विवर्जयेत् ॥१३॥ न चात्र लिङ्गमानादि क्वचिदप्युपयुज्यते । उदारवीर्यैर्मन्त्रैर्यद्भासितं फलदं हि तत् ॥१४॥ तस्यापि स्थण्डिलाद्युक्तविधिना शुद्धिमाचरेत् । मन्त्रार्पणं तथैव स्यान्निरोधस्तूक्तयुक्तितः ॥१५॥ अग्नौ च तर्पणं भूरिविशेषाद्दक्षिणा गुरोः । दीनादितृप्तिर्विभवाद्याग इत्यधिको विधिः ॥१६॥ सर्वेष्वव्यक्तलिङ्गेषु प्रधानं स्यादकल्पितम् । तथा च तत्र तत्रोक्तं लक्षणे पारमेश्वरे ॥१७॥ सूत्रे पात्रे ध्वजे वस्त्रे स्वयम्भूबाणपूजिते । नदीप्रस्रवणोत्थे च नाह्वानं नापि कल्पना ॥१८॥ पीठप्रसादमन्त्रांशवेलादिनियमो नच । व्यक्तं वा चित्रपुस्तादौ देवदारुसुवर्णजम् ॥१९॥ अथ दीक्षितसच्छिल्पिकृतं स्थापयते गुरुः । अथवा लक्षणोपेतमूर्धतत्कर्पराश्रितम् ॥२०॥ पङ्क्तिचक्रकशूलाब्जविधिना तूरमाश्रयेत् । तल्लक्षणं ब्रुवे श्रीमत्पिचुशास्त्रे निरूपितम् ॥२१॥ तूरे योगः सदा शस्तः सिद्धिदो दोषवर्जिते । जालकैर्जर्जरै रन्ध्रैर्दन्तैरूनाधिकै रुजा ॥२२॥ युक्ते च तूरे हानिः स्यात् तद्धीने याग उत्तमः । काम्य एव भवेत्तूरमिति केचित्प्रपेदिरे ॥२३॥ गुरवस्तु विधौ काम्ये यत्नाद्दोषांस्त्यजेदिति । व्याचक्षते पिचुप्रोक्तं न नित्ये कर्मणीत्यदः ॥२४॥ श्रीसिद्धातन्त्र उक्तं च तूरलक्षणमुत्तमम् । एकादिकचतुष्खण्डे गोमुखे पूर्णचन्द्रके ॥२५॥ पद्मगोरोचनामुक्तानीरस्फटिकसंनिभे । एकादिपञ्चसद्रन्ध्रविद्यारेखान्विते शुभे ॥२६॥ न रूक्षवक्रशकलदीर्घनिम्नसबिन्दुके । श्लक्ष्णया वज्रसूच्यात्र स्फुटं देवीगणान्वितम् ॥२७॥ सर्वं समालिखेत्पूज्यं सर्वावयवसुन्दरम् । एतदेवानुसर्तव्यमर्घपात्रे ̕पि लक्षणम् ॥२८॥ श्रीब्रह्मयामले ̕प्युक्तं पात्रं गोमुखमुत्तमम् । गजकूर्मतलं कुम्भवृत्तशक्तिकजाकृति ॥२९॥ अक्षसूत्रमथो कुर्यात्तत्रैवाभ्यर्चयेत्क्रमम् । वीरधातुजलोद्भूतमुक्तारत्नसुवर्णजम् ॥३०॥ अक्षसूत्रं क्रमोत्कृष्टं रौद्राक्षं वा विशेषतः । शतं तिथ्युत्तरं यद्वा साष्टं यद्वा तदर्धकम् ॥३१॥ तदर्धं वाथ पञ्चाशद्युक्तं तत्परिकल्पयेत् । वक्त्राणि पञ्च चित्स्पन्दज्ञानेच्छाकृतिसंगतेः ॥३२॥ पञ्चधाद्यन्तगं चैक्यमित्युपान्त्याक्षगो विधिः । शक्तितद्वत्प्रभेदेन तत्र द्वैरूप्यमुच्यते ॥३३॥ ततो द्विगुणमाने तु द्विरूपं न्यासमाचरेत् । ततो ̕पि द्विगुणे सृष्टिसंहृतिद्वितयेन तम् ॥३४॥ मातृकां मालिनीं वाथ न्यस्येत्खशरसंमिते । उत्तमे तु द्वयीं न्यस्येन्न्यस्य पूर्वं प्रचोदितान् ॥३५॥ दीक्षायां मुख्यतो मन्त्रांस्तान्पञ्चदश दैशिकः । यदि वा तत्त्वभुवनकलामन्त्रपदार्णजैः ॥३६॥ संख्याभेदैः कृते सूत्रे तं तं न्यासं गुरुश्चरेत् । कृत्वाक्षसूत्रं तस्यापि सर्वं स्थण्डिलवद्भवेत् ॥३७॥ पूजितेन च तेनैव जपं कुर्यादतन्द्रितः । विधिरुक्तस्त्वयं श्रीमन्मालिनीविजयोत्तरे ॥३८॥ चक्रवद्भ्रमयन्नेतद्यद्वक्ति स जपो भवेत् । यदीक्षते जुहोत्येतद्बोधाग्नौ संप्रवेशनात् ॥३९॥ अथवार्घमहापात्रं कुर्यात्तच्चोत्तरं परम् । नारिकेलमथो बैल्वं सौवर्णं राजतं च वा ॥४०॥ तस्याप्येष विधिः सर्वः प्रतिष्ठादौ प्रकीर्तितः । तन्निष्कम्परसैः पूर्णं कृत्वास्मिन्पूजयेत्क्रमम् ॥४१॥ अधोमुखं सदा स्थाप्यं पूजितं पूजने पुनः । तत्पात्रमुन्मुखं तच्च रिक्तं कुर्यान्न तादृशम् ॥४२॥ पूजान्ते तद्रसापूर्णमात्मानं प्रविधाय तत् । अधोमुखं च संपूज्य स्थापयेत् विचक्षणः ॥४३॥ खङ्गं कृपाणिकां यद्वा कर्तरीं मकुरं च वा । विमलं तत्तथा कुर्याच्छ्रीमत्कालीमुखोदितम् ॥४४॥ श्रीभैरवकुलेऽप्युक्तं कुलपर्वप्रपूजने । स्थण्डिलेऽग्नौ पटे लिङ्गे पात्रे पद्मेऽथ मण्डले ॥४५॥ मूर्तौ घटेऽस्त्रसंघाते धटे सूत्रेऽथ पूजयेत् । स्वेन स्वेनोपचारेण सङ्करं वर्जयेदिति ॥४६॥ यथाप्सु शान्तये मन्त्रास्तद्वदस्त्रादिषु ध्रुवम् । शत्रुच्छेदादिकर्तारः काम्योऽतः सङ्करोज्झितः ॥४७॥ अकामस्य तु ते तत्तत्स्थानोपाधिवशाद्ध्रुवम् । पाशकर्तनसंशुद्धतत्त्वाप्यायादिकारिणः ॥४८॥ अथवा पुस्तकं तादृग्रहःशास्त्रक्रमोम्भितम् । सुशुद्धं दीक्षितकृतं तत्राप्येष विधिः स्मृतः ॥४९॥ इत्थं स्वयंप्रतिष्ठेषु यावद्यावत्स्थितिर्भवेत् । विभवैस्तर्पणं शुद्धिस्तावद्विच्छेदवर्जनम् ॥५०॥ अत एव यदा भूरिदिनं मण्डलकल्पनम् । तदा दिने दिने कुर्याद्विभवैस्तर्पणं बहु ॥५१॥ प्रतिष्ठायां च सर्वत्र गुरुः पूर्वोदितं परम् । सतत्त्वमनुसन्धाय संनिधिं स्फुटमाचरेत् ॥५२॥ सिद्धे तु तन्मयीभावे फले पुत्रकसाधकैः । अन्यस्मै तद्द्वयादन्यतरस्मै तत्समर्प्यते ॥५३॥ तस्याप्येष विधिः सर्वस्तदलाभे तु सर्वथा । अगाधे ̕म्भसि तत्क्षेप्यं क्षमयित्वा विसृज्य च ॥५४॥ इत्येष स्वप्रतिष्ठानविधिः शिवनिरूपितः । परप्रतिष्ठिते लिङ्गे बाणीयेऽथ स्वयंभुवि ॥५५॥ सर्वमासनपक्षे प्राङ्न्यस्य संपूजयेत्क्रमम् । शुद्धाशुद्धाध्वजाः सर्वे मन्त्राः सर्वः शिवान्तकः ॥५६॥ अध्वा चेहासने प्रोक्तस्तत्सर्वत्रार्चयेदिदम् । आवाहनविसृष्टी तु तत्र प्राग्वत्समाचरेत् ॥५७॥ उक्तं तन्त्रेऽप्यघोरेशे स्वच्छन्दे विभुना तथा । अथवा प्रत्यहं प्रोक्तमानार्धार्धनियोगतः ॥५८॥ कृत्वेष्टं मण्डलं तत्र समस्तं क्रममर्चयेत् । बहुप्रकारभिन्नस्य लिङ्गस्यार्चा निरूपिता ॥५९॥
|
|