Tantraloka by Abhinavagupta
In Sanscrito:
CAP.1 - CAP.2 - CAP.3 - CAP.4 - CAP.5 - CAP.6 - CAP.7 - CAP.8 - CAP.9 - CAP.10 CAP.11 - CAP.12 - CAP.13 - CAP.14 - CAP.15 - CAP.16 - CAP.17 - CAP.18 - CAP.19 - CAP.20 CAP.21 - CAP.22 - CAP.23 - CAP.24 - CAP.25 - CAP.26 - CAP.27 - CAP.28 - CAP.29 - CAP.30 CAP.31 - CAP.32 - CAP.33 - CAP.34 - CAP.35 - CAP.36 - CAP.37 - Testo translitterato
TANTRALOKA SANSCRITO
अथ श्रीतन्त्रालोके एकत्रिंशमाह्निकम्
अथ मण्डलसद्भावः संक्षेपेणाभिधीयते । साधयित्वा दिशं पूर्वां सूत्रमास्फालयेत्समम् ॥१॥ तदर्धयित्वा मध्यप्राक्प्रतीचीष्वङ्कयेत्पुनः । ततो ̕प्यर्धतदर्धार्धमानतः पूर्वपश्चिमौ ॥२॥ अङ्कयेत्तावता दद्यात् सूत्रेण भ्रमयुग्मकम् । मत्स्यसन्धिद्वयं त्वेवं दक्षिणोत्तरयोर्भवेत् ॥३॥ तन्मध्ये पातयेत्सूत्रं दक्षिणोत्तरसिद्धये । यदि वा प्राक्पराक्तुल्यसूत्रेणोत्तरदक्षिणे ॥४॥ अङ्कयेदपरादङ्कात् पूर्वादपि तथैव ते । मत्स्यमध्ये क्षिपेत्सूत्रमायतं दक्षिणोत्तरे ॥५॥ मतक्षेत्रार्धमानेन मध्याद्दिक्ष्वङ्कयेत्ततः । सूत्राभ्यां दिग्द्वयोत्थाभ्यां मत्स्यः स्यात्प्रतिकोणगः ॥६॥ मत्स्येषु वेदाः सूत्राणीत्येवं स्याच्चतुरस्रकम् । एकस्मात्प्रभृति प्रोक्तं शतान्तं मण्डलं यतः ॥७॥ सिद्धातन्त्रे मण्डलानां शतं तत्पीठ उच्यते । यत्तन्मध्यगतं मुख्यं मण्डलानां त्रयं स्मृतम् ॥८॥ मध्यशूलं त्रित्रिशूलं नवशूलमिति स्फुटम् । तत्र शूलविधानं यदुक्तं भेदैरनन्तकैः ॥९॥ तद्योनि मण्डलं ब्रूमः सद्भावक्रमदर्शितम् । वेदाश्रिते चतुर्हस्ते त्रिभागं सर्वतस्त्यजेत् ॥१०॥ भागैः षोडशभिः सर्वं तत्तत्क्षेत्रं विभाजयेत् । ब्रह्मसूत्रद्वयस्याथ मध्यं ब्रह्मपदं स्फुटम् ॥११॥ कृत्वावधिं ततो लक्ष्यं चतुर्थं सूत्रमादितः । ततस्तिर्यग्व्रजेत् सूत्रं चतुर्थं तदनन्तरे ॥१२॥ कोष्ठे चेन्दुद्वयं कुर्याद्बहिर्भागार्धभागतः । तयोर्लग्नं ब्रह्मसूत्रात्तृतीये मर्मणि स्थितम् ॥१३॥ कोष्ठकार्धेऽपरं चेति युग्ममन्तर्मुखं भवेत् । ब्रह्मसूत्राद्द्वितीयस्मिन् हस्ते मर्मणि निश्चलम् ॥१४॥ कृत्वा पूर्णेन्दुयुगलं वर्तयेत विचक्षणः । ब्रह्मसूत्रगतात् षष्ठात् तिर्यग्भागात्तृतीयके ॥१५॥ कृत्वार्धकोष्ठके सूत्रं पूर्णचन्द्राग्रलम्बितम् । भ्रमयेदुन्मुखं खण्डचन्द्रयुग्वह्निभागगम् ॥१६॥ तिर्यग्भागद्वयं त्यक्त्वा खण्डेन्दोः पश्चिमात्ततः । कोणं यावत्तथा स्याच्च कुर्यात् खण्डं भ्रमद्वयम् ॥१७॥ सुतीक्ष्णकुटिलाग्रं तदेकं शृङ्गं प्रजायते । द्वितीयस्मिन्नपि प्रोक्तः शृङ्ग एष विधिः स्फुटः ॥१८॥ मध्यशृङ्गे ̕थ कर्तव्ये तृतीये ऊर्ध्वकोष्ठके । चतुर्थार्धे च चन्द्रार्धद्वयमन्तर्मुखं भवेत् ॥१९॥ तच्च पूर्णेन्दुमेकं प्राग्वर्तितं प्राप्नुयाद्यथा । अन्योन्यग्रन्थियोगेन बद्धारत्वं प्रजायते ॥२०॥ एवं द्वितीयपार्श्वेऽस्य खण्डेन्दुद्वयवर्तनात् । मध्याभ्यां गण्डिका श्लिष्टा पराभ्यामग्रतो नयेत् ॥२१॥ सूत्रं पार्श्वद्वये येन तीक्ष्णं स्यान्मध्यशृङ्गगम् । पार्श्वद्वयाधरे पश्चाद्ब्रह्मसूत्रं द्वितीयकम् ॥२२॥ अवधानेन संग्राह्यमाचार्येणोहवेदिना । भवेत्पश्चान्मुखो मन्त्री तस्मिंश्च ब्रह्मसूत्रके ॥२३॥ मध्यशृङ्गं वर्जयित्वा सर्वः पूर्वोदितो विधिः । ततो यदुन्मुखं खण्डचन्द्रयुग्मं पुरोदितम् ॥२४॥ ततो द्वयेन कर्तव्या गण्डिकान्तःसुसंगता । द्वयेनाग्रगसूत्राभ्यां मध्यशृङ्गद्वयं भवेत् ॥२५॥ अधो भागविवृद्ध्यास्य पद्मं वृत्तचतुष्टयम् । ततश्चक्रं षोडशारं द्वादशारं द्विधाथ तत् ॥२६॥ मध्ये कुलेश्वरीस्थानं व्योम वा तिलकं च वा । पद्मं वाथ षडरं वा वियद्द्वादशकं च वा ॥२७॥ त्रित्रिशूलेऽत्र सप्तारे श्लिष्टमात्रेण मध्यतः । पद्मानामथ चक्राणां व्योम्नां वा सप्तकं भवेत् ॥२८॥ मिश्रितं वाथ संकीर्णं समासव्यासभेदतः । ततः क्षेत्रार्धमानेन क्षेत्रं तत्राधिकं क्षिपेत् ॥२९॥ तत्र दण्डः स्मृतो भागः षडरामलसारकः । सुतीक्ष्णाग्रः सुरक्ताभः क्षणादावेशकारकः ॥३०॥ या सा कुण्डलिनी देवी तरङ्गाख्या महोर्मिणी । सा षडश्रेण कन्दाख्ये स्थिता षड्देवतात्मिका ॥३१॥ अष्टभागैश्च विस्तीर्णो दीर्घश्चापि तदर्धतः । ततो द्वाराणि कार्याणि चित्रवर्तनया क्रमात् ॥३२॥ वेदाश्रायतरूपाणि यदिवा वृत्तमात्रतः । स्पष्टशृङ्गमथो कुर्याद्यदिवा वैपरीत्यतः ॥३३॥ उन्मुखं चन्द्रयुग्मं वा भङ्क्त्वा कुर्याच्चतुष्टयम् । कुटिलो मध्यतः स्पष्टोऽधोमुखः पार्श्वगः स्थितः ॥३४॥ उत्तानोऽर्धोऽसमः पूर्णः श्लिष्टो ग्रन्थिगतस्तथा । चन्द्रस्येत्थं द्वादशधा वर्तना भ्रमभेदिनी ॥३५॥ अन्तर्बहिर्मुखत्वेन सा पुनर्द्विविधा मता । तद्भेदान्मण्डलानां स्यादसङ्ख्यो भेदविस्तरः ॥३६॥ पीठवीथीबहिअर्भूमिकण्ठकर्णकपोलतः । शोभोपशोभासंभेदाद्गुणरेखाविकल्पतः ॥३७॥ स्वस्तिकद्वितयाद्यष्टतयापर्यन्तभेदतः । भावाभावविकल्पेन मण्डलानामनन्तता ॥३८॥ ततो रजांसि देयानि यथाशोभानुसारतः । सिन्दूरं राजवर्तं च खटिका च सितोत्तमा ॥३९॥ उत्तमानि रजांसीह देवतात्रययोगतः । परा चन्द्रसमप्रख्या रक्ता देवी परापरा ॥४०॥ अपरा सा परा काली भीषणा चण्डयोगिनी । दृष्ट्वैतन्मण्डलं देव्यः सर्वा नृत्यन्ति सर्वदा ॥४१॥ अनर्चितेऽप्यदीक्षेण दृष्टे दीक्ष्येत मातृभिः । किंवातिबहुनोक्तेन त्रित्रिशूलारसप्तकाः ॥४२॥ शूलयागाः षट् सहस्राण्येवं सार्धशतद्वयम् । या सा देवी परा शक्तिः प्राणवाहा व्यवस्थिता ॥४३॥ विश्वान्तः कुण्डलाकारा सा साक्षादत्र वर्तिता । तत्त्वानि तत्त्वदेव्यश्च विश्वमस्मिन्प्रतिष्ठितम् ॥४४॥ अत्रोर्ध्वे तन्तुमात्रेण तिस्रः शूलारगाः स्थिताः । आसनत्वेन चेच्छाद्या भोगमोक्षप्रसाधिकाः ॥४५॥ तास्तु मोक्षैककामस्य शूलाराविद्धमध्यकाः । तस्मादेनं महायागं महाविभवविस्तरैः ॥४६॥ पूजयेद्भूतिकामो वा मोक्षकामो ̕पिवा बुधः । अस्य दर्शनमात्रेण भूतवेतालगुह्यकाः ॥४७॥ पलायन्ते दश दिशः शिवः साक्षात्प्रसीदति । मन्दशक्तिबलाविद्धोऽप्येतन्मण्डलपूजनात् ॥४८॥ सततं मासषट्केन त्रिकज्ञानं समश्नुते । यत्प्राप्य हेयोपादेयं स्वयमेव विचार्य सः ॥४९॥ देहान्ते स्याद्भैरवात्मा सिद्धिकामोऽथ सिद्ध्यति । मण्डलस्यास्य यो व्याप्तिं देवतान्यासमेव च ॥५०॥ वर्तनां च विजानाति स गुरुस्त्रिकशासने । तस्य पादरजो मूर्ध्नि धार्यं शिवसमीहिना ॥५१॥ अत्र सृष्टिस्थितिध्वंसान् क्रमात् त्रीनपि पूजयेत् । तुर्यं तु मध्यतो यद्वा सर्वेषु परिपूरकम् ॥५२॥ चतुस्त्रिशूलं वा गुप्तदण्डं यागं समाचरेत् । तत्र तत् पूजयेत्सम्यक् स्फुटं क्रमचतुष्टयम् ॥५३॥ इत्येतत्कथितं गुप्ते षडर्धहृदये परे । षट्के प्रोक्तं सूचितं श्रीसिद्धयोगीश्वरीमते ॥५४॥ अग्रतः सूत्रयित्वा तु मण्डलं सर्वकामदम् । महाशूलसमोपेतं पद्मचक्रादिभूषितम् ॥५५॥ द्वारे द्वारे लिखेच्छूलं वर्जयित्वा तु पश्चिमम् । कोणेष्वपिच वा कार्यं महाशूलं द्रुमान्वितम् ॥५६॥ अमृताम्भोभवारीणां शूलाग्रे तु त्रिकं त्रिकम् । शूल इत्थं प्रकर्तव्यमष्टधा तत् त्रिधापिवा ॥५७॥ एवं संसूचितं दिव्यं खेचरीणां पुरं त्विति । स्थानान्तरेऽपि कथितं श्रीसिद्धातन्त्रशासने ॥५८॥ कजं मध्ये तदर्धेन शूलशृङ्गाणि तानि तु । शूलाङ्कं मण्डलं कल्प्यं कमलाङ्कं च पूरणे ॥५९॥ अथ शूलाब्जविन्यासः श्रीपूर्वे त्रिशिरोमते । सिद्धातन्त्रे त्रिककुले देव्यायामलमालयोः ॥६०॥ यथोक्तः सारशास्त्रे च तन्त्रसद्भावगुह्ययोः । तथा प्रदर्श्यते स्पष्टं यद्यप्युक्तक्रमाद्गतः ॥६१॥ वेदाश्रिते त्रिहस्ते प्राक् पूर्वमर्ध विभाजयेत् । हस्तार्धं सर्वतस्त्यक्त्वा पूर्वोदग्याम्यदिग्गतम् ॥६२॥ त्र्यङ्गुलैः कोष्ठकैरूर्ध्वैस्तिर्यक् चाष्टद्विधात्मकैः । द्वौ द्वौ भागौ परित्यज्य पुनर्दक्षिणसौम्यगौ ॥६३॥ ब्रह्मणः पार्श्वयोर्जीवाच्चतुर्थात् पूर्वतस्तथा । भागार्धभागमानं तु खण्डचन्द्रद्वयं द्वयम् ॥६४॥ तयोरन्तस्तृतीये तु दक्षिणोत्तरपार्श्वयोः । जीवे खण्डेन्दुयुगलं कुर्यादन्तर्भ्रमाद्बुधः ॥६५॥ तयोरपरमर्मस्थं खण्डेन्दुद्वयकोटिगम् । बहिर्मुखं भ्रमं कुर्यात् खण्डचन्द्रद्वयं द्वयम् ॥६६॥ तद्वद्ब्रह्मणि कुर्वीत भागभागार्धसंमितम् । ततो द्वितीयभागान्ते ब्रह्मणः पार्श्वयोर्द्वयोः ॥६७॥ द्वे रेखे पूर्वगे नेये भागत्र्यंशशमे बुधैः । एकार्धेन्दूर्ध्वकोटिस्थं ब्रह्मसूत्राग्रसङ्गतम् ॥६८॥ सूत्रद्वयं प्रकुर्वीत मध्यशृङ्गप्रसिद्धये । तदग्रपार्श्वयोर्जीवात् सूत्रमेकान्तरे धृतम् ॥६९॥ आदिद्वितीयखण्डेन्दुकोणात् कोणान्तमानयेत् । तयोरेवापराज्जीवात् प्रथमार्धेन्दुकोणतः ॥७०॥ तद्वदेव नयेत्सूत्रं शृङ्गद्वितयसिद्धये । क्षेत्रार्धे चापरे दण्डो द्विकरश्छन्नपञ्चकः ॥७१॥ षड्विस्तृतं चतुर्दीर्घं तदधो ̕मलसारकम् । वेदाङ्गुलं च तदधो मूलं तीक्ष्णाग्रमिष्यते ॥७२॥ आदिक्षेत्रस्य कुर्वीत दिक्षु द्वारचतुष्टयम् । हस्तायामं तदर्धं वा विस्तारादपि तत्समम् ॥७३॥ द्विगुणं बाह्यतः कुर्यात्ततः पद्मं यथा शृणु । एकैकभागमानानि कुर्याद्वृत्तानि वेदवत् ॥७४॥ दिक्ष्वष्टौ पुनरप्यष्टौ जीवसूत्राणि षोडश । द्वयोर्द्वयोः पुनर्मध्ये तत्संख्यातानि पातयेत् ॥७५॥ एषां तृतीयवृत्तस्थं पार्श्वजीवसमं भ्रमम् । एतदन्तं प्रकुर्वीत ततो जीवाग्रमानयेत् ॥७६॥ यत्रैव कुत्रचित्सङ्गस्तत्संबन्धे स्थिरीकृते । तत्र कृत्वा नयेन्मन्त्री पत्राग्राणां प्रसिद्धये ॥७७॥ एकैकस्मिन्दले कुर्यात्केसराणां त्रयं त्रयम् । द्विगुणाष्टाङ्गुलं कार्यं तद्वच्छृङ्गकजत्रयम् ॥७८॥ कर्णिका पीतवर्णेन मूलमध्याग्रभेदतः । सितं रक्तं तथा पीतं कार्यं केसरजालकम् ॥७९॥ दलानि शुक्लवर्णानि प्रतिवारणया सह । पीठं तद्वच्चतुष्कोणं कर्णिकार्धसमं बहिः ॥८०॥ सितरक्तपीतकृष्णैस्तत्पादान् वह्नितः क्रमात् । चतुर्भिरपि शृङ्गाणि त्रिभिर्मण्डलमिष्यते ॥८१॥ दण्डः स्यान्नीलरक्तेन पीतमामलसारकम् । रक्तं शूलं प्रकुर्वीत यत्तत्पूर्वं प्रकल्पितम् ॥८२॥ पश्चाद्द्वारस्य पूर्वेण त्यक्त्वाङ्गुलचतुष्टयम् । द्वारं वेदाश्रि वृत्तं वा संकीर्णं वा विचित्रितम् ॥८३॥ एकद्वित्रिपुरं तुल्यं सामुद्गमथवोभयम् । कपोलकण्ठशोभोपशोभादिबहुचित्रितम् ॥८४॥ विचित्राकारसंस्थानं वल्लीसूक्ष्मगृहान्वितम् । श्रीदेव्यायामले तूक्तं क्षेत्रे वेदाश्रिते सति ॥८५॥ अर्धं द्वादशधा कृत्वा तिर्यगूर्ध्वं च तिर्यजम् । भागमेकं स्वपार्श्वोर्ध्वं गुरुः समवतारयेत् ॥८६॥ मध्यस्थं तं त्रिभागं च तदन्ते भ्रमयेदुभौ । भागमेकं परित्यज्य तन्मध्ये भ्रमयेत्पुनः ॥८७॥ तृतीयांशोर्ध्वतो भ्राम्यमूर्ध्वांशं यावदन्ततः । चतुर्थांशात्तदूर्ध्वं तु ऊर्ध्वाधो योजयेत्पुनः ॥८८॥ तन्मानादूर्ध्वमाभ्राम्य चतुर्थेन नियोजयेत् । ऊर्ध्वाद्योजयते सूत्रं ब्रह्मसूत्रावधि क्रमात् ॥८९॥ क्रमाद्वैपुल्यतः कृत्वा अंशं वै ह्रासयेत् पुनः । अर्धभागप्रमाणस्तु दण्डो द्विगुण इष्यते ॥९०॥ भागं भागं गृहीत्वा तु उभयोरथ गोचरात् । भ्राम्यं पिप्पलवत् पत्रं वर्तनैषा त्वधो भवेत् ॥९१॥ षोडशांशे लिखेत्पद्मं द्वादशाङ्गुललोपनात् । तदूर्ध्वं मध्यभागे तु वारिजन्म समालिखेत् ॥९२॥ मध्यशृङ्गावसाने तु तृतीयं विलिखेत्ततः । सव्यासव्ये तथैवेह कटिस्थाब्जे समालिखेत् ॥९३॥ कर्णिका पीतला रक्तपीतशुक्लं च केसरम् । दलानि पद्मबाह्यस्था शुक्ला च प्रतिवारणी ॥९४॥ शूलं कृष्णेन रजसा ब्रह्मरेखा सिता पुनः । शूलाग्रं ज्वालया युक्तं शूलदण्डस्तु पीतलः ॥९५॥ शूलमध्ये च यत्पद्मं तत्रेशं पूजयेत्सदा । अस्योर्ध्वे तु परां दक्षेऽन्यां वामे चापरां बुधः ॥९६॥ या सा कालान्तका देवी परातीता व्यवस्थिता । ग्रसते शूलचक्रं सा त्विच्छामात्रेण सर्वदा ॥९७॥ शान्तिरूपा कला ह्येषा विद्यारूपा परा भवेत् । अपरा तु प्रतिष्ठा स्यान्निवृत्तिस्तु परापरा ॥९८॥ भैरवं दण्ड ऊर्ध्वस्थं रूपं सादाशिवात्मकम् । चतस्रः शक्तयस्त्वस्य स्थूलाः सूक्ष्मास्त्वनेकधा ॥९९॥ एष यागः समाख्यातो डामराख्यस्त्रिशक्तिकः । अथ त्रैशिरसे शूलाब्जविधिर्दृष्टो ̕भिलिख्यते ॥१००॥ वामामृतादिभिर्मुख्यैः पवित्रैः सुमनोरमैः । भूमिं रजांसि करणीं खटिकां मूलतो ̕र्चयेत् ॥१०१॥ चतुरश्रे चतुर्हस्ते मध्ये शूलं करत्रयम् । चण्डो द्विहस्त ऊर्ध्वाधःपीठयुग्विपुलस्त्वसौ ॥१०२॥ वस्वङ्गुलः प्रकर्तव्यः सूत्रत्रयसमन्वितः । द्वादशाङ्गुलमानेन दण्डमूले तु पीठिका ॥१०३॥ दैर्घ्यात्तूच्छ्रायाच्चोर्ध्वे च चतुरङ्गुलमानतः । ऊर्ध्वे ̕प्युच्छ्रायतो वेदाङ्गुला दैर्घ्याद्दशाङ्गुला ॥१०४॥ शूलमूलगतं पीठीमध्यं खाब्धिसमाङ्गुलम् । कृत्वा दण्डं त्रिशूलं तु त्रिभिर्भागैः समन्ततः ॥१०५॥ अष्टाङ्गुलप्रमाणैः स्याद्धस्तमात्रं समन्ततः । शूलाग्रं शूलमध्यं तच्छूलमूलं तु तद्भवेत् ॥१०६॥ वेदी मध्ये प्रकर्तव्या उभयोश्च षडङ्गुलम् । द्वादशाङ्गुलदीर्घा तु उभयोः पार्श्वयोस्तथा ॥१०७॥ चतुरङ्गुलमुच्छ्रायान्मूले वेदीं प्रकल्पयेत् । उभयोः पार्श्वयोश्चैवमर्धचन्द्राकृतिं तथा ॥१०८॥ भ्रामयेत् खटिकासूत्रं कटिं कुर्याद्द्विरङ्गुलाम् । वैपुल्याद्दैर्घ्यतो देवि चतुरङ्गुलमानतः ॥१०९॥ यादृशं दक्षिणे भागे वामे तद्वत्प्रकल्पयेत् । मध्ये शूलाग्रवैपुल्यादङ्गुलश्च अधोर्ध्वतः ॥११०॥ चतुरङ्गुलमानेन वैपुल्यात्तु षडङ्गुला । उच्छ्रायात्तु ततः कार्या गण्डिका तु स्वरूपतः ॥१११॥ पीठोर्ध्वे तु प्रकर्तव्यं शूलमूलं तु सुव्रते । शूलाग्रमङ्गुलं कार्यं सुतीक्ष्णं तु षडङ्गुलम् ॥११२॥ अरामध्यं प्रकर्तव्यमराधस्तु षडङ्गुलम् । चतुरङ्गुलनिम्नं तु मध्यं तु परिकल्पयेत् ॥११३॥ पूर्वापरं तदेवेह मध्ये शूलं तु तद्बहिः । कारयेत त्रिभिः सूत्रैरेकैकं वर्तयेत च ॥११४॥ कजत्रयं तु शूलाग्रं वेदांशैर्द्वादशाङ्गुलम् । क्रमाद्दक्षान्यमध्येषु त्र्यष्टद्वादशपत्रकम् ॥११५॥ चक्रत्रयं वातपुरं पद्ममष्टाङ्गुलारकम् । विद्याभिख्यं शूलमूले रजः पश्चात्प्रपातयेत् ॥११६॥ त्रिशूलं दण्डपर्यन्तं राजवर्तेन पूरयेत् । सूत्रत्रयस्य पृष्ठे तु शुक्लं चारात्रयं भवेत् ॥११७॥ शुक्लेन रजसा शूलमूले विद्याम्बुजं भवेत् । रक्तं रक्तासितं शुक्लं क्रमादूर्ध्वाम्बुजत्रयम् ॥११८॥ शुक्लेन व्योमरेखा स्यात् सा स्थौल्यादङ्गुलं बहिः । तां त्यक्त्वा वेदिका कार्या हस्तमात्रं प्रमाणातः ॥११९॥ वैपुल्यत्रिगुणं दैर्घ्यात् प्राकारं चतुरश्रकम् । समन्ततोऽथ दिक्षु स्युर्द्वाराणि करमात्रतः ॥१२०॥ त्रिधा विभज्य क्रमशो द्वादशाङ्गुलमानतः । कण्ठं कपोलं शोभां तु उपशोभां तदन्ततः ॥१२१॥ प्राकारं चतुरश्रं तु सभूरेखासमन्वितम् । सितरक्तपीतकृष्णै रजोभिः कारयेत्ततः ॥१२२॥ रक्तै रजोभिर्मध्यं तु यथाशोभं तु पूरयेत् । अस्या व्याप्तौ पुरा चोक्तं तत्रैवानुसरेच्च तत् ॥१२३॥ अरात्रयविभागस्तु प्रवेशो निर्गमो भ्रमः । अनाहतपदव्याप्तिः कुण्डल्या उदयः परः ॥१२४॥ हृदि स्थाने गता देव्यस्त्रिशूलस्य सुमध्यमे । नाभिस्थः शूलदण्डस्तु शूलमूलं हृदि स्थितम् ॥१२५॥ शक्तिस्थानगतं प्रान्तं प्रान्ते चक्रत्रयं स्मरेत् । उत्क्षिप्योत्क्षिप्य कलया देहमध्यस्वरूपतः ॥१२६॥ शूलदण्डान्तमध्यस्थशूलमध्यान्तगोचरम् । प्रविशेन्मूलमध्यान्तं प्रान्तान्ते शक्तिवेश्मनि ॥१२७॥ अस्पन्दकरणं कृत्वा एकदा स्पन्दवर्तनम् । मूलमानन्दमापीड्य शक्तित्रयपदं विशेत् ॥१२८॥ तत्र पूज्यं प्रयत्नेन जायन्ते सर्वसिद्धयः । समस्ताध्वसमायोगात् षोढाध्वव्याप्तिभावतः ॥१२९॥ समस्तमन्त्रचक्राद्यैरेवमादिप्रयत्नतः । षट्त्रिंशत्तत्त्वरचितं त्रिशूलं परिभावयेत् ॥१३०॥ विषुवत्स्थेन विन्यासो मन्त्राणां मण्डलोत्तमे । कार्यो ̕स्मिन् पूजिते यत्र सर्वेश्वरपदं भजेत् ॥१३१॥ स्वस्तिकेनाथ कर्तव्यं युक्तं तस्योच्यते विधिः । नाडिकाः स्थापयेत्पूर्वं मुहूर्तं परिमाणतः ॥१३२॥ शक्रवारुणदिक्स्थाश्च याम्यसौम्यगतास्तथा । एकोनत्रिंशद्वंशाः स्युरृजुतिर्यग्गतास्तथा ॥१३३॥ अष्टौ मर्मशतान्येकचत्वारिंशच्च जायते । वंशैर्विषयसंख्यैश्च पद्मं युग्मेन्दुमण्डलम् ॥१३४॥ रससंख्यैर्भवेत्पीठं स्वस्तिकं सर्वकामदम् । वसुसंख्यैर्द्वारवीथावेवं भागपरिक्रमः ॥१३५॥ रन्ध्रविप्रशराग्नींश्च लुप्येद्बाह्यान्तरं क्रमात् । मर्माणि च चतुर्दिक्षु मध्याद्द्वारेषु सुन्दरि ॥१३६॥ वह्निभूतमुनिव्योमबाह्यगर्भे पुरीषु च । लोपयेच्चैव मर्माणि अन्तर्नाडिविवर्जितान् ॥१३७॥ द्वारप्राकारकोणेषु नेत्रानलशरानृतून् । नाडयो ब्रह्मवंशस्य लोप्या नेत्राद्रसस्थिताः ॥१३८॥ वह्नेर्नेत्रानलौ लोप्यौ वेदान्नेत्रयुगं रसात् । नेत्रं सौम्यगतं लोप्यं पूर्वाद्वेदानलौ रसात् ॥१३९॥ लोकस्था नाडिका हित्वा नेत्राद्वेदाग्नयः क्रमात् । शरैर्वह्निगतं चैव युगं नेत्राग्नयो रसात् ॥१४०॥ नेत्रात् पूर्वगताच्चैव सुमेरुर्द्वारसंज्ञितः । स्वस्तिका च पुरी रम्या चतुर्दिक्षु स्थितावुभौ ॥१४१॥ मर्मणां च शते द्वे च ऋषिभिर्गुणिता दिशः । नेत्रादिकांश्च संमार्ज्य मार्गमध्यात् सुशोभने ॥१४२॥ ऋषित्रयकृते मध्ये विषयैः कर्णिका भवेत् । नेत्रीकृतान्वसून् पत्रं नेत्रं सकृद्विभाजितम् ॥१४३॥ वह्निं वसुगतं कृत्वा शशाङ्कस्थांश्च लोपयेत् । वह्नीषुऋषिमध्याच्च लोप्यं पीठेन्दुकावधि ॥१४४॥ ब्रह्मणो नेत्रविषयान्नेत्राद्वेदानलौ हरेत् । सागरे नेत्रकं लोप्यं नाडयः पूर्वदिग्गताः ॥१४५॥ भूतनेत्रगतान्मूर्ध्ना नेत्राद्द्विवह्निदृक्त्रिकात् । सौम्यगात् पीठकोणेषु लोपयेत चतुर्ष्वपि ॥१४६॥ दलानि कार्याणि सितैः केसरं रक्तपीतलैः । कर्णिका कनकप्रख्या पल्लवान्ताश्च लोहिताः ॥१४७॥ व्योमरेखा तु सुसिता वर्तुलाब्जान्तनीलभाः । पीठं रेखात्रयोपेतं सितलोहितपीतलम् ॥१४८॥ स्वस्तिकाश्च चतुर्वर्णा अग्नेरीशानगोचराः । वीथी विद्रुमसंकाशा स्वदिक्ष्वस्त्राणि बाह्यतः ॥१४९॥ इन्द्रनीलनिभं वज्रं शक्तिं पद्ममणिप्रभाम् । दण्डं हाटकसंकाशं वक्त्रं तस्यातिलोहितम् ॥१५०॥ नीलद्युतिसमं खड्गं पाशं वत्सकसप्रभम् । ध्वजं पुष्पफलोपेतं पञ्चरङ्गैश्च शोभितम् ॥१५१॥ गदा हेमनिभात्युग्रा नानारत्नविभूषिता । शूलं नीलाम्बुजसमं ज्वलद्वह्न्युग्रशेखरम् ॥१५२॥ तस्योपरि सितं पद्ममीषत्पीतारुणप्रभम् । चक्रं हेमनिभं दीप्तमरा वैडूर्यसंनिभाः ॥१५३॥ अरामध्यं सुपीतं च बाह्यं ज्वालारुणं भवेत् । मन्दिरं देवदेवस्य सर्वकामफलप्रदम् ॥१५४॥ श्रीसिद्धायां शूलविधिः प्राक् क्षेत्रे चतुरश्रिते । हस्तमात्रं त्रिधा सूर्यान्नवखण्डं यथा भवेत् ॥१५५॥ मध्ये शूलं च तत्रेत्थं मध्यभागं त्रिधा भजेत् । नवभिः कोष्ठकैर्युक्तं ततो ̕यं विधिरुच्यते ॥१५६॥ मध्यभागत्रयं त्यक्त्वा मध्ये भागद्वयस्य तु । अधस्ताद्भ्रामयेत्सूत्रं शशाङ्कशकलाकृति ॥१५७॥ उभयतो भ्रामयेत्तत्र यथाग्रे हाकृतिर्भवेत् । कोट्यां तत्र कृतं सूत्रं नयेद्रेखां तु पूर्विकाम् ॥१५८॥ अपरद्वारपूर्वेण त्यक्त्वाङ्गुलचतुष्टयम् । रेखां विनाशयेत्प्राज्ञो यथा शूलाकृतिर्भवेत् ॥१५९॥ शूलाग्रे त्वर्धहस्तेन त्यक्त्वा पद्मानि कारयेत् । अधः शृङ्गत्रयं हस्तमध्ये पद्मं सकर्णिकम् ॥१६०॥ मुखाग्रे धारयेत्सूत्रं त्रिभिर्हस्तैस्तु पातयेत् । मध्ये चोर्ध्वं ततः कुर्यादधस्तादङ्गुलद्वयम् ॥१६१॥ रेखाद्वयं पातयेत यथा शूलं भवत्यपि । अधोभागादिभिश्चोर्ध्वं तत्र रेखा प्रपद्यते ॥१६२॥ समीकृत्य ततः सूत्रे ऊर्ध्वे द्वे एवमेव तु । मध्यं पद्मं प्रतिष्ठाप्यं शूलाधस्ताद्यशस्विनि ॥१६३॥ इत्येष मण्डलविधिः कथितः संक्षेपयोगतो महागुरुभिः ॥
अथ श्रीतन्त्रालोके द्वात्रिंशमाह्निकम्
अथ कथये मुद्राणां गुर्वागमगीतमत्र विधिम् । मुद्रा च प्रतिबिम्बात्मा श्रीमद्देव्याख्ययामले । उक्ता बिम्बोदयश्रुत्या वाच्यद्वयविवेचनात् ॥१॥ बिम्बात्समुदयो यस्या इत्युक्ता प्रतिबिम्बता । विम्बस्य यस्या उदय इत्युक्ता तदुपायता ॥२॥ मुदं स्वरूपलाभाख्यं देहद्वारेण चात्मनाम् । रात्यर्पयति यत्तेन मुद्रा शास्त्रेषु वर्णिता ॥३॥ तत्र प्रधानभूता श्रीखेचरी देवतात्मिका । निष्कलत्वेन विख्याता साकल्येन त्रिशूलिनी ॥४॥ करङ्किणी क्रोधना च भैरवी लेलिहानिका । महाप्रेता योगमुद्रा ज्वालिनी क्षोभिणी ध्रुवा ॥५॥ इत्येवंबहुभेदेयं श्रीखेचर्येव गीयते । अन्यास्तदङ्गभूतास्तु पद्माद्या मालिनीमते ॥६॥ तासां बहुत्वामुख्यत्वयोगाभ्यां नेह वर्णनम् । श्रीखेचरीसमाविष्टो यद्यत्स्थानं समाश्रयेत् ॥७॥ देवीसंनिधये तत्स्यादलं किं डम्बरैर्वृथा । काम्ये कर्मणि ताश्च स्युर्मुख्याः कस्यापि जातुचित् ॥८॥ मुद्रा चतुर्विधा कायकरवाक्चित्तभेदतः ॥९॥ तत्र पूर्णेन रूपेण खेचरीमेव वर्णये । बद्ध्वा पद्मासनं योगी नाभावक्षेश्वरं क्षिपेत् ॥१०॥ दण्डाकारं तु तं तावन्नयेद्यावत्कखत्रयम् । निगृह्य तत्र तत्तूर्णं प्रेरयेत् खत्रयेण तु ॥११॥ एतां बद्ध्वा खे गतिः स्यादिति श्रीपूर्वशासने । ध्वनिज्योतिर्मरुद्युक्तं चित्तं विश्रम्य चोपरि ॥१२॥ अनेनाभ्यासयोगेन शिवं भित्त्वा परं व्रजेत् । जत्र्वधस्तात्करौ कृत्वा वामपादं च दक्षिणे ॥१३॥ विदार्यास्यं कनिष्ठाभ्यां मध्यमाभ्यां तु नासिकाम् । अनामे कुञ्चयेत्प्राज्ञो भ्रूभङ्गं तर्जनीद्वयम् ॥१४॥ जिह्वां च चालयेन्मन्त्री हाहाकारं च कारयेत् । त्रिशूलेन प्रयोगेण ब्रह्मरन्ध्रमुपस्थितः ॥१५॥ पदं सन्त्यज्य तन्मात्रं सद्यस्त्यजति मेदिनीम् । शून्याशून्यलये कृत्वा एकदण्डे ̕निलानलौ ॥१६॥ शक्तित्रितयसम्बद्धे अधिष्ठातृत्रिदैवते । त्रिशूलं तद्विजानीयाद्येन व्योमोत्पतेद्बुधः ॥१७॥ आकाशभावं सन्त्यज्य सत्तामात्रमुपस्थितः । शूलं समरसं कृत्वा रसे रस इव स्थितः ॥१८॥ एकदण्डं स विज्ञाय त्रिशूलं खचरं प्रिये । बद्ध्वा तु खेचरीं मुद्रां ध्यात्वात्मानं च भैरवम् ॥१९॥ खेचरीचक्रसंजुष्टं सद्यस्त्यजति मेदिनीम् । त्यक्तांशको निराचारो निःशङ्को लोकवर्जितः ॥२०॥ अवधूतो निराचारो नाहमस्मीति भावयम् । मन्त्रैकनिष्ठः संपश्यन् देहस्थाः सर्वदेवताः ॥२१॥ ह्लादोद्वेगास्मिताक्रुष्टनिद्रामैथुनमत्सरे । रूपादौ वा कर्तृकर्मकरणेषु च सर्वशः ॥२२॥ नाहमस्मीति मन्वान एकीभूतं विचिन्तयन् । कर्णाक्षिमुखनासादिचक्रस्थं देवतागणम् ॥२३॥ ग्रहीतारं सदा पश्यन् खेचर्या सिद्ध्यति स्फुटम् । विद्याशङ्की मलाशङ्की शास्त्रशङ्की न सिद्ध्यति ॥२४॥ शिवो रविः शिवो वह्निः पक्तृत्वात्स पुरोहितः । तत्रस्था देवताः सर्वा द्योतयन्त्यो ̕खिलं जगत् ॥२५॥ कनिष्ठया विदार्यास्यं तर्जनीभ्यां भ्रुवौ तथा । अनामे मध्यमे वक्त्रे जिह्वया तालुकं स्पृशेत् ॥२६॥ एषा करङ्किणी देवी ज्वालिनीं शृणु सांप्रतम् । हनुर्ललाटगौ हस्तौ प्रसार्याङ्गुलितः स्फुटौ ॥२७॥ चालयेद्वायुवेगेन कृत्वान्तर्भ्रुकुटीं बुधः । विदार्यास्यं सजिह्वं च हाहाकारं तु कारयेत् ॥२८॥ एषा ज्वालिन्यग्निचक्रे तया चाष्टोत्तरं शतम् । जपेद्यदि ततः सिद्ध्येत्त्रैलोक्यं सचराचरम् ॥२९॥ परदेहेषु चात्मानं परं चात्मशरीरतः । पश्येच्चरन्तं हानादाद्गमागमपदस्थितम् ॥३०॥ नवच्छिद्रगतं चैकं नदन्तं व्यापकं ध्रुवम् । अनया हि खचारी श्रीयोगसञ्चार उच्यते ॥३१॥ कुलकुण्डलिकां बद्ध्वा अणोरन्तरवेदिनीम् । वामो योऽयं जगत्यस्मिंस्तस्य संहरणोद्यताम् ॥३२॥ स्वस्थाने निर्वृतिं लब्ध्वा ज्ञानामृतरसात्मकम् । व्रजेत्कन्दपदं मध्ये रावं कृत्वा ह्यरावकम् ॥३३॥ यावज्जीवं चतुष्कोणं पिण्डाधारं च कामिकम् । तत्र तां बोधयित्वा तु गतिं बुद्ध्वा क्रमागताम् ॥३४॥ चक्रोभयनिबद्धां तु शाखाप्रान्तावलम्बिनीम् । मूलस्थानाद्यथा देवि तमोग्रन्थिं विदारयेत् ॥३५॥ वज्राख्यां ज्ञानजेनैव तथा शाखोभयान्ततः । कोणमध्यविनिष्क्रान्तं लिङ्गमूलं विभेदयेत् ॥३६॥ तत्र सङ्घट्टितं चक्रयुग्ममैक्येन भासते । वैपरीत्यात्तु निक्षिप्य द्विधाभावं व्रजत्यतः ॥३७॥ ऊर्वाद्यङ्गुष्ठकालाग्निपर्यन्ते सा विनिक्षिपेत् । गमागमनसञ्चारे चरेत्सा लिङ्गलिङ्गिनी ॥३८॥ तत्र तत्पदसंयोगादुन्मीलनविधायिनी । यो जानाति स सिद्ध्येत्तु रसादानविसर्गयोः ॥३९॥ ससङ्गममिदं स्थानमूर्मिण्युन्मीलनं परम् । एष क्रमस्ततोऽन्यो ̕पि व्युत्क्रमः खेचरी परा ॥४०॥ योन्याधारेति विख्याता शूलमूलेति शब्द्यते । वर्णास्तत्र लयं यान्ति ह्यवर्णे वर्णरूपिणि ॥४१॥ नादिफान्तं समुच्चार्य कौलेशं देहसंनिभम् । आक्रम्य प्रथमं चक्रं खे यन्त्रे पादपीडितम् ॥४२॥ नादं वै शक्तिसद्गर्भं सद्गर्भात्कौलिनीपदम् । बीजपञ्चकचारेण शूलभेदक्रमेण तु ॥४३॥ हृच्छूलग्रन्थिभेदैश्चिद्रुद्रशक्तिं प्रबोधयेत् । वायुचक्रान्तनिलयं बिन्द्वाख्यं नाभिमण्डलम् ॥४४॥ आगच्छेल्लम्बिकास्थानं सूत्रद्वादशनिर्गतम् । चन्द्रचक्रविलोमेन प्रविशेद्भूतपञ्जरे ॥४५॥ भूयस्तु कुरुते लीलां मायापञ्जरवर्तिनीम् । पुनः सृष्टिः संहृतिश्च खेचर्या क्रियते बुधैः ॥४६॥ श्रीमद्वीरावलीयोग एष स्यात्खेचरीविधिः । चुम्बाकारेण वक्त्रेण यत्तत्त्वं श्रूयते परम् ॥४७॥ ग्रसमानमिदं विश्वं चन्द्रार्कपुटसंपुटे । तेनैव स्यात्खगामीति श्रीमत्कामिक उच्यते ॥४८॥ भवान्मुक्त्वा द्रावयन्ति पाशान्मुद्रा हि शक्तयः । मुख्यासां खेचरी सा च त्रिधोच्चारेण वाचिकी ॥४९॥ त्रिशिरोमुद्गरो देवि कायिकी परिपठ्यते । नासां नेत्रद्वयं चापि हृत्स्तनद्वयमेव च ॥५०॥ वृषणद्वयलिङ्गं च प्राप्य कायं गता त्वियम् । भवस्थानाभवस्थानमुच्चारेणावधारयेत् ॥५१॥ मानसीयमितस्त्वन्याः पद्माद्या अष्ट मुद्रिकाः । मातृव्यूहकुले ताः स्युरस्यास्तु परिवारगाः ॥५२॥ शरीरं तु समस्तं यत्कूटाक्षरसमाकृति । एषा मुद्रा महामुद्रा भैरवस्येति गह्वरे ॥५३॥ सूपविष्टः पद्मके तु हस्ताग्राङ्गुलिरश्मिभिः । पराङ्मुखैर्झटित्युद्यद्रश्मिभिः पृष्ठसंस्थितैः ॥५४॥ अन्तःस्थितिः खेचरीयं संकोचाख्या शशाङ्किनी । तस्मादेव समुत्तम्ब्य बाहू चैवावकुञ्चितौ ॥५५॥ सम्यग्व्योमसु संस्थानाद्व्योमाख्या खेचरी मता । मुष्टिद्वितयसङ्घट्टाद्धृदि सा हृदयाह्वाया ॥५६॥ शान्ताख्या सा हस्तयुग्ममूर्ध्वाधः स्थितमुद्गतम् । समदृष्ट्यावलोक्यं च बहिर्योजितपाणिकम् ॥५७॥ एषैव शक्तिमुद्रा चेदधोधावितपाणिका । दशानामङ्गुलीनां तु मुष्टिबन्धादनन्तरम् ॥५८॥ द्राक्क्षेपात्खेचरी देवी पञ्चकुण्डलिनी मता । संहारमुद्रा चैषैव यद्यूर्ध्वं क्षिप्यते किल ॥५९॥ उत्क्रामणी झगित्येव पशूनां पाशकर्तरी । श्वभ्रे सुदूरे झटिति स्वात्मानं पातयन्निव ॥६०॥ साहसानुप्रवेशेन कुञ्चितं हस्तयुग्मकम् । अधोवीक्षणशीलं च सम्यग्दृष्टिसमन्वितम् ॥६१॥ वीरभैरवसंज्ञेयं खेचरी बोधवर्धिनी । अष्टधेत्थं वर्णिता श्रीभर्गाष्टकशिखाकुले ॥६२॥ एवं नानाविधान्भेदानाश्रित्यैकैव या स्थिता । श्रीखेचरी तयाविष्टः परं बीजं प्रपद्यते ॥६३॥ एकं सृष्टिमयं बीजं यद्वीर्यं सर्वमन्त्रगम् । एका मुद्रा खेचरी च मुद्रौघः प्राणितो यया ॥६४॥ तदेवं खेचरीचक्ररूढौ यद्रूपमुल्लसेत् । तदेव मुद्रा मन्तव्या शेषः स्याद्देहविक्रिया ॥६५॥ यागादौ तन्मध्ये तदवसितौ ज्ञानयोगपरिमर्शे । विघ्नप्रशमे पाशच्छेदे मुद्राविधेः समयः ॥६६॥ बोधावेशः सन्निधिरैक्येन विसर्जनं स्वरूपगतिः । शङ्कादलनं चक्रोदयदीप्तिरिति क्रमात्कृत्यम् ॥६७॥ इति मुद्राविधिः प्रोक्तः सुगूढो यः फलप्रदः ॥
अथ श्रीतन्त्रालोके त्रयस्त्रिंशमाह्निकम्
अथावसरसंप्राप्त एकीकारो निगद्यते । यदुक्तं चक्रभेदेन सार्धं पूज्यमिति त्रिकम् । तत्रैष चक्रभेदानामेकीकारो दिशानया ॥१॥ विश्वा तदीशा हारौद्री वीरनेत्र्यम्बिका तथा । गुर्वीति षडरे देव्यः श्रीसिद्धावीरदर्शिताः ॥२॥ माहेशी ब्राह्मणी स्कान्दी वैष्णव्यैन्द्री यमात्मिका । चामुण्डा चैव योगीशीत्यष्टाघोर्यादयोऽथवा ॥३॥ अग्निनिरृतिवाय्वीशमातृभिर्द्वादशान्विताः । नन्दा भद्रा जया काली कराली विकृतानना ॥४॥ क्रोष्टुकी भीममुद्रा च वायुवेगा हयानना । गम्भीरा घोषणी चेति चतुर्विंशत्यरे विधिः ॥५॥ सिद्धिर्वृद्धिर्द्युतिर्लक्ष्मीर्मेधा कान्तिः सुधा धृतिः । दीप्तिः पुष्टिर्मतिः कीर्तिः सुस्थितिः सुगतिः स्मृतिः ॥६॥ सुप्रभा षोडशी चेति श्रीकण्ठादिकशक्तयः । बलिश्च बलिनन्दश्च दशग्रीवो हरो हयः ॥७॥ माधवः षडरे चक्रे द्वादशारे त्वमी स्मृताः । दक्षश्चण्डो हरः शौण्डी प्रमथो भीममन्मथौ ॥८॥ शकुनिः सुमतिर्नन्दो गोपालश्च पितामहः । श्रीकण्ठो ̕नन्तसूक्ष्मौ च त्रिमूर्तिः शंबरेश्वरः ॥९॥ अर्घीशो भारभूतिश्च स्थितिः स्थाणुर्हरस्तथा । झण्ठिभौतिकसद्योजानुग्रहक्रूरसैनिकाः ॥१०॥ द्व्यष्टौ यद्वामृतस्तेन युक्ताः पूर्णाभतद्द्रवाः । ओघोर्मिस्यन्दनाङ्गाश्च वपुरुद्गारवक्त्रकाः ॥११॥ तनुसेचनमूर्तीशाः सर्वामृतधरोऽपरः । श्रीपाठाच्छक्तयश्चैताः षोडशैव प्रकीर्तिताः ॥१२॥ संवर्तलकुलिभृगुसितबकखङ्गिपिनाकिभुजगबलिकालाः । द्विश्छगलाण्डौ शिखिशोणमेषमीनत्रिदण्डि साषाढि ॥१३॥ देवीकान्ततदर्धौ दारुकहलिसोमनाथशर्माणः । जयविजयजयन्ताजितसुजयजयरुद्रकीर्तनावहकाः ॥१४॥ तन्मूर्त्युत्साहदवर्धनाश्च बलसुबलभद्रदावहकाः । तद्वान्दाता चेशो नन्दनसमभद्रतन्मूर्तिः ॥१५॥ शिवदसुमनःस्पृहणका दुर्गो भद्राख्यकालश्च । चेतोऽनुगकौशिककालविश्वसुशिवास्तथापरः कोपः ॥१६॥ श्रुत्यग्न्यरे स्युरेते स्त्रीपाठाच्छक्तयस्त्वेताः । जुंकारो ̕थाग्निपत्नीति षडरे षण्ठवर्जिताः ॥१७॥ द्वादशारे तत्सहिताः षोडशारे स्वराः क्रमात् । हलस्तद्द्विगुणे ̕ष्टारे याद्यं हान्तं तु तत्त्रिके ॥१८॥ द्वात्रिंशदरके सान्तं बिन्दुः सर्वेषु मूर्धनि । एवमन्यान्बहूंश्चक्रभेदानस्मात्प्रकल्पयेत् ॥१९॥ एक एव चिदात्मैष विश्वामर्शनसारकः । शक्तिस्तद्वानतो माता शब्दराशिः प्रकीर्तितौ ॥२०॥ तयोरेव विभागे तु शक्तितद्वत्प्रकल्पने । शब्दराशिर्मालिनी च क्षोभात्म वपुरीदृशम् ॥२१॥ तथान्तःस्थपरामर्शभेदने वस्तुतस्त्रिकम् । अनुत्तरेच्छोन्मेषाख्यं यतो विश्वं विमर्शनम् ॥२२॥ आनन्देशोर्मियोगे तु तत्षट्कं समुदाहृतम् । अन्तःस्थोष्मसमायोगात्तदष्टकमुदाहृतम् ॥२३॥ तदामृतचतुष्कोनभावे द्वादशकं भवेत् । तद्योगे षोडशाख्यं स्यादेवं यावदसंख्यता ॥२४॥ विश्वमेकपरामर्शसहत्वात्प्रभृति स्फुटम् । अंशांशिकापरामर्शान् पर्यन्ते सहते यतः ॥२५॥ अतः पञ्चाशदैकात्म्यं स्वरव्यक्तिविरूपता । वर्गाष्टकं वर्णभेद एकाशीतिकलोदयः ॥२६॥ इति प्रदर्शितं पूर्वम् अर्धमात्रासहत्वतः । स्वरार्धमप्यस्ति यतः स्वरितस्यार्धमात्रकम् ॥२७॥ तस्यादित उदात्तं तत्कथितं पदवेदिना । इत्थं संविदियं याज्यस्वरूपामर्शरूपिणी ॥२८॥ अभिन्नं संविदश्चैतच्चक्राणां चक्रवालकम् । स्वाम्यावरणभेदेन बहुधा तत्प्रयोजयेत् ॥२९॥ परापरा परा चान्या सृष्टिस्थितितिरोधयः । मातृसद्भावरूपा तु तुर्या विश्रान्तिरुच्यते ॥३०॥ तच्च प्रकाशं वक्त्रस्थं सूचितं तु पदे पदे । तुर्ये विश्रान्तिराधेया मातृसद्भावसारिणि ॥३१॥ तथास्य विश्वमाभाति स्वात्मतन्मयतां गतम् । इत्येष शास्त्रार्थस्योक्त एकीकारो गुरूदितः ॥३२॥
|
|