Aghori | |
|
| Sadhana | |
|
| Chakra | |
|
| Ayurveda | |
|
| Yoga | |
|
| Libri Sacri | |
|
|
|
Akulavira Tantra
L'Akulavīra Tantra è attribuito a
Matsyendranāth chiamato anche Mīṉanāth o Macchindranāth, guru di Goraknāth e
fondatore della Nāth Sampradāya (scuola monastica indù). Matsyendranāth è
particolarmente associato allo shivaismo kaula.
Un manoscritto dell'Akulavīra Tantra
risale al XIII secolo e la sua origine è Kāmarūpa (Assam). Un altro manoscritto
risale al IX secolo.
L'Akulavira Tantra inizia con il
seguente saluto:
"I miei Saluti ai piedi di loto di
Shri Macchanda. Mi inchino a Shri Minanatha, pieno della beatitudine di Sahaja,
liberato dalla macchia di Maya, suprema, diffusa nell'universo, in cui tutti gli
Adhara sono profondi e immobili, nati da sé stesso.
"Ora dichiarerò il meraviglioso
Akulavira, l'ultimo segreto dei segreti, che la moltitudine di Siddhas crea nei
loro stati reali. [1]
"Per grazia dei mondi, questo è
stato detto da Siddha Nāth. Chi vi aspira dovrebbe nasconderlo accuratamente,
secondo la regola. [2]
"Proprio come quegli esseri
affondati nell'oceano del Samsara si rifugiano presso i Grandi e come tutti i
fiumi sfociano negli oceani, [3] Così nell'Akulavira tutti i Dharma sono
dissolti."
L'Akulavīra Tantra è un piccolo
testo contenente alcune affermazioni tipiche dei Nāth, vi si afferma che
solamente l'Akulavira porta alla liberazione. Nessun altro testo sacro porta a
tale liberazione e non può essere definito da testi o scuole di filosofia.
Nessuna Puja, nessun pellegrinaggio o bagno a siti e luoghi sacri, o oblazioni e
offerte, consentono la realizzazione di Akulavira. Nessun Yajña (sacrificio del
fuoco), nessun Tapasya (autodisciplina), Japa Mala (recitazione di mantra),
Archana (adorazione), Homa, Sadhana, o Mantra, porterà al compimento di
Akulavira. Né può essere ottenuto perforando i chakra, o concentrandosi su Nadi
come l'Ida, Pingala o Sushumna, o concentrandosi sugli Adhara (chakra)
nell'ombelico, nella gola, nel cuore, nella testa o nella parte superiore del
cranio. Né la pratica del Pranayama, né la concentrazione sui Granthi (nodi che
bloccano la nostra coscienza: Rudha Granthi nell’Ajña Chakra, Vishnu
nell’Anahata e Brahma nel Muladhara), o sul bindu o sul centro della fronte
portano alla realizzazione di Akulavira. Akulavira non è né dharma né adharma.
È identico al guru. Akula, è Shiva,
il testimone, mentre Kula è Shakti, l'insieme delle energie. È libero dal
dualismo e dal monismo e situato nel proprio corpo. È l'essenza del Samarāsa.
Nel versetto 56 (kaulamārge dvayo santi kṛtakā sahajā tathā | kuṇḍali kṛtakā
jñeyā sahajā samarasa sthitā) si dice che il sentiero del Kaula è di due tipi:
Kritaka (artificiale) e Sahaja (spontaneo). Il vero o Sahaja è quello in cui
risiede Samarāsa.
अकुलवीर तन्त्रम्
श्रीमच्छन्दपादकेभ्यो नमः ।
श्रीमीनसहजनन्दं
स्वकीयाङ्गसमुद्भवम् ।
सर्वमाधारगम्भीरमचलं व्यपकं
परम् ।
अथातः सम्प्रवयामि अकुलवीरं
महद्भूतम् ।
गुह्याद् गुह्यतरं गुह्यं
सिद्धसद्भावसन्ततिः ॥ १॥
अनग्रहाय लोकानां सिद्धनाथेन
भाषितम् ।
गोपनीयं प्रयत्नेन यदीच्छन्
शाश्वतं पदम् ॥ २॥
संसारार्णवमग्नातां भूतानां
महदाश्रयम् ।
यथा नदीनदाः सर्वे सागरे
समुपागताः ॥ ३॥
तथा अकुलवीरेषु सर्वधर्मा
लयङ्गताः ।
सर्वाधारमशेषस्य जगतः सर्वदा
प्रभुः ॥ ४॥
सहजानन्दं न विन्दन्ति
सर्वधर्मसमासृताः ।
अनानन्तमलैर्ग्रस्ता
महामायान्धच्छदिताः ॥ ५॥
शास्त्रजालेन सन्तुष्टा
मोहितास्त्यजयन्तिताः (?)
।
न विन्दन्ति पदं शान्तं कौलानां
निष्कलं गुरुम् ॥ ६॥
संवादयन्ति ये केचिन्
न्यायवैशेषिकास्तथा ।
बौधास्तु अरिहन्ता ये
सोमसिद्धान्तवादिनः ॥ ७॥
मीमांस पञ्चस्त्रोताश्च
वामसिद्धान्तदक्षिणाः ।
इतिहासपुराणञ्च भूततत्त्वन्तु
गारुडम् ॥ ८॥
एभिः शैवागमैः सर्वैः परोक्षञ्च
क्रियान्विताइः ।
सविकल्पसिद्धिर्सञ्चारन्तत्
सर्वं पापबन्धवित् ॥ ९॥
विकल्पबहुलाः सर्वैर्मिथ्यावादा
निरर्थकाः ।
न ते मुञ्चन्ति संसारे
अकुलवीरविवर्जिताः ॥ १०॥
सर्वज्ञं सर्वमासृत्य सर्वतो
हितलक्षणम् ।
सर्वेषां सिद्धिस्तत्रस्था
सर्वसिद्धिञ्च तत्र वै ॥ ११॥
यत्नासौ अकुलवीरो दृश्यते
सर्वतोमुखम् ।
तं विदित्वा परं रूपं मनो
निश्चलतां व्रजेत् ॥ १२॥
शब्दरूपरसस्पर्शगन्धञ्चैवात्र
पञ्चमम् ।
सर्वभावाश्च तत्रैव प्रलीणाः
प्रलयं गताः ॥ १३॥
भावाभावविनिर्मुक्त
उदयास्तमनवर्जितः ।
स्वभावमतिमतं शान्तं मनो यस्य
मनोमयम् ॥ १४॥
अकुलवीरमिति ख्यातं
सर्वाधारपापरम् ।
नाधारलक्षभेदन्तु न नादगोचरे
पठेत् ॥ १५॥
हृदि स्थाने न वक्त्रे च
घण्टिका तालरन्ध्रके ।
न इडा पिङ्गला शान्ता न
चास्तीति गमागमे ॥ १६॥
न नाभिचक्रकण्ठे च न शिरे नैव
मस्तके ।
तथा चक्षुरुन्मीलने च न
नासाग्रनिरीक्षणे ॥ १७॥
न पूरककुम्भके तत्र रेचके [च]
तथा पुनः ।
न बिन्दुभेदके ग्रन्थौ ललाटे न
तु वह्निके ॥ १८॥
प्रवेशनिर्गमे नैव
नावाहनविसर्जनम् ।
न करणैर्नासनं मुद्रैर्नमासे
भिन्नतालुके ॥ १९॥
न निरोधो न चोद्धारो नातीतां
चालनं न हि ।
न प्रेर्यप्रेरकञ्चैव न
स्थानन्नैव चश्रयम् ॥ २०॥
न चात्मनैव तद् ग्राह्यं
ग्राह्यातीतपदं भवेत् ।
एतत् पक्षविर्निर्मुक्तं
हेतुदृष्टान्तवर्जितम् ॥ २१॥
न दूरे न च वै निकटे न भरितो न
च रिक्तकः ।
न उन्नोन सोऽधिक एभिः
पक्षैर्विवर्जितम् ॥ २२॥
यश्च विंशात्मको ह्येष पुद्गल
नास्ति यत्र वै ।
यत्र लक्षं न विद्येत अकुलवीर स
उच्च्यते ॥ २३॥
यस्यैवं संशितं कऽश्चित् समरस
संशितः ।
स ब्रह्मा सो हरिश्चैशः स
रुद्रो स च ईश्वरः ॥ २४॥
स शिवः परमदेवः स
सोमार्काग्निकस्तथा ।
स च साङ्ख्यः पुराणाश्च
अर्हन्तबुद्ध एव च ॥ २५॥
स्वयं देवी स्वयं देवः स्वयं
शिष्यः स्वयं गुरुः ।
स्वयं ध्यानं स्वयं ध्याता
स्वयं सर्वत्र देवता ॥ २६॥
यादृशेन तु भावेन पुरुषो
भावयेत् सदा ।
तादृशां फलमाव्प्नोति नात्र
कार्यविचारणात् ॥ २७॥
अस्यैव हि हि नामानि
पृथग्भूतानि योगिभिः ।
अनाम तस्य गियन्ते
भ्रान्तिज्ञानविमोहितैः ॥ २८॥
धर्माधर्मसमाक्लिष्टाविकल्पतमश्छादिताः ।
तेन मुञ्चन्ति संसारं नरकं
योनिसङ्कुलम् ॥ २९॥
अकुलवीरं महद्भूतं यदा पश्यन्ति
सर्वगम् ।
स बाह्याभ्यन्तरे नित्यं
एकाकारं चराचरम् ॥ ३०॥
निस्तरङ्गं निराभासं
पदभेदविवर्जितम् ।
सर्वावयवनिर्मुक्तं निर्लयं
निर्वकारजम् ॥ ३१॥
अदृष्टनिर्गुणं शान्तं
तत्त्वातीतं निरञ्जनम् ।
सर्वज्ञं परिपूर्णञ्च
स्वभावश्चैवमक्षयम् ॥ ३२॥
कार्यकारणनिर्मुक्तमचिन्त्यमनामयम् ।
मायातीतं निरालम्बं व्यापकं
सर्वतोमुखम् ॥ ३३॥
समत्वं एकभूतञ्च
ऊहापोहविवर्जितम् ।
अकुलवीरं महद्भूतं
अस्तिनास्तिविवर्जितम् ॥ ३४॥
न मनो न च वै बुद्धिर्न
चिन्ताचेतनादिकम् ।
न कालः कलनाशक्तिर्न शिवो न च
इन्द्रियः ॥ ३५॥
न भूते गृह्यते सो हि न सुखं
दुःखमेव च ।
न रसो हि न सुखं दुःखमेव च ॥
३६॥
न रसो विरसश्चैव न कृतो न च
जायते ।
न च्छाय न च तापस्तु न शीतो न च
उष्णवान् ॥ ३७॥
न दृश्यते मन स्तत्र
उदयास्तमनवर्जितम् ।
न सीमा दृश्यते तत्र न च
तिर्थ्यं न चहिवहि ॥ ३८॥
अद्वैतमचलं शान्तं
सङ्गदोषविवर्जितम् ।
निराकुलं निर्विकल्पञ्च
निबद्धञ्च मलक्षणम् ॥ ३९॥
अनाथं सर्वनाथञ्च उन्मनां
मदवर्जितम् ।
अनिगृढमसन्धिञ्च स्थावरं
जङ्गमेव च ॥ ४०॥
ज्वलज्वलनभूम्या च आपोञ्चैव
तथैव च ।
सर्वं समरसं पूर्णं अकुलवीरन्तु
केवलम् ॥ ४१॥
यस्यैषा सम्।स्थिता मुक्तिः स
मुक्तो भवबन्धनात् ।
न तस्य मातापिता व बान्धवं न च
देवता ॥ ४२॥
न यज्ञं नोपवासञ्च न क्रिया
वर्णभेदकम् ।
त्यक्त्वा विकल्पस।घातं
अकुलवीरलयं गताः ॥ ४३॥
न जपो नार्चनं स्नानं न होमं
नैव साधनम् ।
अग्निप्रवेशनं नास्ति
हेतन्तभृगु नोदनम् ॥ ४४॥
नियमोऽपि न तस्यास्ति नोपवासो
विधीयते ।
पितृकार्यं न करोताति
तीर्थयात्राव्रतानि च ॥ ४५॥
धर्माधर्मफलं नास्ति न स्नानं
नोदकक्रिया ।
स्वयं त्यज सर्वकार्याणि
लोकाचाराणि यानि च ॥ ४६॥
समयाचारविचारञ्च कृतका बन्धकानि
तु ।
सङ्कल्पञ्च निकल्पञ्च ये चान्ये
किल धर्मिणः ॥ ४७॥
भवे योगी निराचारो
पशुचारविवर्जितः ।
सिद्धिश्चविविधाकार पाताले च
रसायनम् ॥ ४८॥
प्रत्यक्षञ्च या लब्धं न
गृह्नीयात् कदाचन ।
सर्वञ्च पाशजालञ्च
अधोमार्गप्रदायकः ॥ ४९॥
एतेषु मोचना नास्ति
अकुलवीरविवर्जिताः ।
यथा मृताः न जानन्ति स्वादं
कटुमधुरस्य तु ॥ ५०॥
तथा अकुलवीरन्तु न जानन्ति
स्वभावगम् ।
यथा मदिरा महान्तस्य कथितं
नेवशकृते ॥ ५१॥
रस्यपरमानन्दमतिगुह्यं
सुगोपितम् ।
लोकानां च हितार्थाय सिद्धनाथेन
भाषितम् ॥ ५२॥
निर्विकल्पं पदं शान्तं यत्र
लीनं परापरम् ।
मोक्षस्य तन्महास्थानं
मन्त्ररूपविवर्जितम् ॥ ५३॥
तत्रैव सृष्टिरूपेण पुनस्तत्र
लयं गता ।
किन्तेन बहुनोक्तेन
सर्वबन्धविवर्जितम् ॥ ५४॥
अकुलवीरं यदा लब्धं तदा किं
कौलिकैः क्रमैः ।
लभ्द्वा तु मोक्षसद्भावं
अकुलवीरं महापहम् ॥५५॥
कौलमार्गे द्वयो सन्ति कृतका
सहजा तथा ।
कुण्डलि कृतका ज्ञेया सहजा समरस
स्थिता ॥ ५६॥
प्रेर्यप्रेरकभावस्था कृतका
साऽभिधीयते ।
ततः स पातयेद् भूमै
मुद्रामन्त्रैर्नियोगितैः ॥ ५७॥
आहुते पतने चान्ये कर्णजापेन
धूपकैः ।
एतत् साध्यमिदं तत्त्वं एतद्
ध्यानञ्च धारणा ॥ ५८॥
अनेकैः कर्मसङ्घातैः
नानामार्गविभावनैः ।
विकल्पकललोल्लोया उद्भ्रान्ता
भ्रान्तचेतसः ॥ ५९॥
हृदि शोकेन सन्तप्ता
व्यासङ्गाच्च महाभयैः ।
हर्षविषादसम्पन्ना शोच्यमाना
मुहुर्मुहुः ॥ ६०॥
तावद्भ्रमन्ति संसारे
कल्पाकल्पैर्भवार्णवैः ।
दग्धबीजेषु सम्भूतिर्यथा नैव
प्रजायते ॥ ६१॥
मूलछिन्ने यथा वृक्षे न प्ररोहं
विद्यते ।
अकुलवीरगतं भिन्नं
नानाभावानुबन्धनैः ॥ ६२॥
न बध्यते यथा विमले रसं
विप्रलयं गतम् ।
तद्वदकुलवीरे च सत्त्वे
भ्राभ्राख्य यद्गतः ॥ ६३॥
तिमिरेण यथाच्छन्नमुदितार्कं न
पश्यति ।
अज्ञानमनस्तद्वद्
भ्रान्तिजालविमोहिता ॥ ६४॥
अकुले वीरे च सम्प्राप्ते
सर्वमेतद्विनिश्यति ।
दधिमधे यथा सर्पिः काष्ठे
चाग्नि स्थितो यथा ॥ ६५॥
पुष्पे गन्धस्तिले तैलं वृक्षे
चाया समाश्रिता ।
मद्यमध्ये यथानन्दं दीपे प्रभा
समाश्रिता ॥ ६६॥
पद्ममध्ये च कुण्डल्या
अङ्गप्रत्यङ्गमेव च ।
रक्तार्थाकुलवीरे च तत्सर्वं
विनियोजितम् ॥ ६७॥
भावाऽभावादिसम्।युक्तैः
प्रत्ययैर्द्दृष्टिगोचरैः ।
अकुलवीरं न जानन्ति
कृतकैर्मोहितात्मनः ॥ ६८॥
पाशजालनिबद्धाश्च
महामायविमोहिताः ।
न जानन्ति पदं शान्तमचिन्त्यं
नित्यसम्भवः ॥ ६९॥
सर्वव्यापिभावस्थं
स्थानवर्णविवर्जितम् ।
सर्वभूतस्थितं ह्येकमध्ययं
धेयवर्जितम् ॥ ७०॥
स च सर्वगतो भावः स्थिरे पूर्णो
निरन्तरे ।
तत्र मनो विलीनन्तु अचलं
भवतन्मयम् ॥ ७१॥
मनोवृद्धिस्तथा चिन्त्यं
क्षिप्ता तन्मयतां गता ।
यथा तिष्ठति तत्त्वस्थः
शिवनिष्कलमव्यये ॥ ७२॥
तदा तन्मयतां याति निर्मलं
निश्चलं पदम् ।
अकुलवीरं महद्भुतमेकवीरं च
सर्वगम् ॥ ७३॥
दुर्लभं सुरसिद्धानां
योगिनीनाञ्च गोचरम् ।
केचिद् वदन्तीदं धर्ममिदं
शास्त्रमिदं तपः ॥ ७४॥
अयं लोकमिमं स्वर्गमिदं
साध्यमिदं फलम् ।
इदं ज्ञानञ्च विज्ञानं
शुद्धाशुद्धमिदं परम् ॥ ७५॥
ज्ञेयञ्च तत्त्वकूटञ्च यत्र
ध्यानञ्च धारणा ।
तदासौ योगिनी ह्येकः नान्यस्तु
हि द्वितीयकः ॥ ७६॥
अनागतन्तु गतञ्चैव न हच्छेन्न च
तिष्ठति ।
न भूतं न भविष्यञ्च
स्थितिप्रलयवर्जितम् ॥ ७७॥
न चाहं प्रचितैर्दोषैः लिप्तते
न कदाचन ।
नाहं कश्चिन्न मे कश्चिन्न
बद्धो न च बाधकः ॥ ७८॥
न मुक्ति वै न च न मुक्तमे
मोक्षस्य च स्पृहा ।
गच्छंस्तिष्ठन् स्थपन्
जाग्रद्भूञ्जानओ मैथुनेऽपि वा ॥ ७९॥
भयदारिद्रशोकैश्च
विविधैर्भक्षणैस्तथा ।
चिकित्सा नैव कुर्वीत
इन्द्रियार्थैः कदाचन ॥ ८०॥
आचरेत् सर्ववर्णैस्तु न तु
भक्ष्यं विचारयेत् ।
एवं स चरते योगी यथारण्ये
हुताशनः ॥ ८१॥
पिण्डबधाञ्च नानास्ति अवस्था
मुर्खवासनाम् ।
सोमशून्यस्तथा
वह्निप्राणायमवर्जितम् ॥ ८२॥
अप्रमेयनिराभासं
धारणाध्यानवर्जितम् ।
येन जन्मसहस्राणि भक्त्या
सम्पूजितो गुरुः ॥ ८३॥
ते लभन्ति महाज्ञानं
अकुलवीरन्तु मोक्षदम् ।
योगिनीराकिणीचक्रे यस्य भक्तिः
सुनिश्चला ॥ ८४॥
अकुलवीरं महद्भूतं गम्भीरं
गहनामयम् ।
पिण्डातीतं यदा ज्ञेयमपिण्डं
पिण्डवर्जितम् ॥ ८५॥
पदव्यञ्जननिर्मुक्तं विमलं
सततोदितम्।
तल्लिने तन्मयात्मानं विन्दते
श्वाश्वतं पदम् ॥ ८६॥
चितातीतं भवेत् सो हि
योगसंयोगवर्जितम् ।
निर्वाणं वासनाहीनं तृप्तात्म च
निरामयः ॥ ८७॥
तेन लब्धा न सन्देहोऽमला
मलच्छेदनाः ।
तस्य प्रवर्त्तते क्षिप्तं
तस्यैव सर्वसर्वगम् ॥ ८८॥
वेदसिद्धान्तशास्त्राणि
नानाविधानि शिखानि च ।
तानि सर्वाणि मोहानि
कायक्लेशैर्निरर्थकम् ॥ ८९॥
विद्याहञ्ख़ारग्रस्तास्तु
गर्विताः कुगतिं गताः ।
अनर्थेन च सन्तुष्टा
बहुग्रन्थार्थचिन्तकाः ॥ ९०॥
अकुलवीरं न विन्दन्ति
कृतकैर्मोहितामनः ।
गर्वितानं कुतो ज्ञानं
ग्रन्थकोटिशतैरपि ॥ ९१॥
कर्पूरकुङ्कुमादीनां
वस्त्रताम्बूलमेव च ।
खरवद्भवति तद्भारं सर्वं तस्य
निरर्थकम् ।
अकुलवीरञ्च देहस्थं यदा पश्यति
सर्वगम् ॥ ९२॥
धर्माधर्मफलं नास्ति नोदकं
तीर्थसेवना ।
न क्रिया सत्यश्चैवं वा
कर्मकाण्डे न भावना ॥ ९३॥
न तस्य कर्मकर्माणि लोकाचाराणि
यानि च ।
चरिताः समयाचारा
जनैर्भ्रान्तिविमोहितैः ॥ ९४॥
अकुलवीरं न जानन्ति किं
विशिष्टं कुतः स्थितम् ।
कृतका बन्धना लोके कल्पिताश्च
कुपण्डितैः ॥ ९५॥
सम्।कल्पविकल्पञ्च कलाकर्माणि
यानि च ।
सिद्धयो विविधा लोके पातालं च
रसायनम् ॥ ९६॥
प्रत्यक्षञ्च यदा लब्धं न
विगृह्णीयात् कदाचन ।
सर्वे ते पाशबद्धाश्च
अधोमार्गप्रदायकाः ॥ ९७॥
न चैतैर्मुक्तिः सम्।सारे अकुलं
बीरवर्जिताः ।
यथा मदिरमानन्दं कथितं नैव
जायते ॥ ९८॥
तद्वदकुलवीराख्यं
स्वसम्।वेद्यनिरोपणम् ।
न जानन्ति नरा मूढाः सारात्
सारतरं परम् ॥ ९९॥
तावद् भ्रान्तिविमुग्धात्मा
यावत्तलं न विन्दति ।
चितातीते यदा योगी स योगी
योगचिन्तकः ॥ १००॥
विरक्ता वासना यस्य तृप्तात्म च
निरामयः ।
तावद् भ्रमन्ति मोहात्मा
नानाभावानुबन्धनैः ॥ १०१॥
यावत् सममेकत्वं परमानन्दं न
विन्दति ।
मुर्खाणां च यथाशास्त्रं
कुमारीसुरतिं यथा ॥ १०२॥
अकुलवीरं विन्दन्ति कथ्यमानैः
कुमारिकाः ।
दिशवेशाविनिर्मुल्तं
स्थानवर्णविवर्जितम् ॥ १०३॥
निराकुलं निर्विकल्पं
निर्गुणञ्च सुनिर्मलम् ।
अनाथं सर्वनाथञ्च
प्रमादोन्मादवर्जितम् ॥ १०४॥
घननिविडनिसन्धिस्थावरे जङ्गमेषु
च ।
जले ज्वलने तथा पवने भूम्याकाशे
तथैव च ॥ १०५॥
सर्वत्र समरसं भरितमकुलवीरन्तु
केवलम् ।
न ज्ञातं येन देहस्थं स मुक्तः
सर्वबन्धनात् ॥ १०६॥
न तस्य क्रियाबन्धेन न वेद्यं न
च वेदना ।
न यज्ञो नोपवासश्च न चर्या न
क्रियोदयः ॥ १०७॥
न वर्णो वर्णभेदश्च अकुलवीरं
यदागतम् ।
न जापो नार्चानग्नीनां न होमो
नैव साधनम् ॥ १०८॥
नाग्निप्रवेशनन्तस्य
मन्त्रपूजाचरणोदकम् ।
नियमाश्च न तस्यास्ति
क्षेत्रपीठे च सेवनैः ॥ १०९॥
न क्रिया नार्चनाकाद्यैर्न
तीर्थानि व्रतानि च ।
निरालम्बपदं शान्तं तथातीतं
निरञ्जनम् ॥ ११०॥
सर्वज्ञपरिपूर्णञ्च स्वभावेन
विलक्ष्यते ।
कार्यकारणनिर्मुक्तमचिन्तितञ्च
अनामयम् ॥ १११॥
मायातीतं निरालम्बं व्यापकं
सर्वतोमुखम् ।
स्वदेहे संस्थितं शान्तमकुलवीरं
तदुच्यते ॥ ११२॥
समस्तमेकदाभूतं
द्वैताभावविवर्जितम् ।
अकुलवीरं
महद्भूतमस्तिनास्तिविवर्जितम् ॥ ११३॥
मनोबुद्धिचित्तस्तचित्ता नैव
स्वचेतना ।
न कालकलना चैव न शक्तिश्च न
चेन्द्रियः ॥ ११४॥
न भूते गृह्यते सो हि न दुःखं
सुखमेव च ।
न रसोऽधिरसश्चैव कृतकं नैव
कारकम् ॥ ११५॥
न च्छाया नातपो वह्निर्न च
शीतोष्णववेदना ।
न दिनं
रात्रिमित्युक्तमुदयास्तमनवर्जितम् ॥ ११६॥
न मनो दृश्यते तत्र
नोर्द्ध्वमध्यं च ज्ञायते ।
अक्षोभ्यमचलं शान्तमीदृशं
तत्त्वनिर्णयम् ॥ ११७॥
यादृशेन तु भावेन पुरुषो
भावयेत् सदा ।
तादृशं फलमाप्नोति नात्र
कार्यविचारणात् ॥ ११८॥
एवञ्च कुलसद्भावमवाच्यं
परमामृतम् ।
अगम्यं गम्यते कस्माद्
भ्रान्तिज्ञानविहोहिताः ॥ ११९॥
न दूरे न निकटे चैव प्रत्यक्षं
न परोक्षता ।
न भरितो न रिक्तो वा निपुणो
नापि चाधिकः ॥ १२०॥
एतत्पक्षविनिर्मुक्तो
हेतुदृष्टान्तवर्जितः ।
कृतकैर्मोहिता मूढाः
कर्मकाण्डरतास्तु ये ॥ १२१॥
न तेषां मुक्तिः संसारे नरके
योनिसङ्कुले ।
अकुलवीरं महद्भूतं यदा पश्यति
सर्वगम् ॥ १२२॥
सबाह्याभ्यन्तरैकत्वं सर्वत्रैव
व्यवस्थितम् ।
निस्तरङ्गं निराभासं
पदच्छेदविवर्जितम् ॥ १२३।
सर्वावयवनिर्मुक्तं
निर्विकारञ्च निर्मलम् ।
अदृश्यं निर्गुणं नित्यं
निर्णिरोधञ्च निश्चलम् ॥ १२४॥
न ध्यानं धारणा नैव न स्थानं
वर्णमेव च ।
न रेचकं पूरकञ्चैव नरोद्घातञ्च
कुम्भकम् ॥ १२५॥
न चान्तमादिमध्यस्थं न सतो
वृद्धिरेव च ।
ग्राह्यग्राहकनिर्मुक्तग्रन्थातीतञ्च यद्भवेत् ॥ १२६॥
एतैः सर्वैर्विनिर्मुक्तं
हेतुदृष्टान्तवर्जितम् ।
सबाह्याभ्यन्तरैकत्वं सर्वत्रैव
व्यवस्थितम् ॥ १२७॥
समरसानन्द्ररूपेण एकाकारं
चराचरे ।
ये च ज्ञातं स्वदेहस्थमकुलवीरं
महद्भूतम् ॥ १२८॥
यस्या वशं स्थितः कश्चित् समरसं
रससंस्थितम् ।
स ब्रह्मा स हरिश्चैव स
रुद्रञ्चैवेश्वरस्तथा ॥ १२९॥
स शिवः शाश्वतो देवः स च
सोमार्कशङ्करः ।
स विशाख्यो मयुराक्षो अर्हन्तो
बुधमेव च ॥ १३०॥
स्वयं देवि स्वयं देवः स्वयं
शिष्यः स्वयं गुरुः ।
स्वयं ध्यानं स्वयं ध्याता
स्वयं सर्वेश्वरो गुरुः ॥ १३१॥
सर्वज्ञः सर्वमासृत्य सर्वतो
हितलक्षणः ।
सर्वयोगिनी तत्रस्था सर्वे
सिद्धाश्च तत्र वै ॥ १३२॥
सर्वं सर्वा^र्थकं
चैव सर्वज्ञानश्च तत्र वै ।
यथासौ महार्थञ्च अकुलवीरमिति
स्मृतम् ॥ १३३॥
शब्दः स्पर्शो रसो रूपं गन्धो
वद्याणिपम च ।
सर्वे भीराश्च तत्रैव ये
प्रलीनाः प्रलयं गताः ॥ १३४॥
नाधारे ध्येयलक्ष्ये च न
नादगोचरे परे ।
न हृदि नाभिकण्ठे वा वक्त्रे
घण्टिकरन्ध्रयोः ॥ १३५॥
न इडा पिङ्गला चैव सुष्मण च
गमागमैः ।
न नाभिचक्रे कण्ठे च न शिरे
बिन्दुके तथा ॥ १३६॥
चक्षुकर्णोन्मीलनं नैवं
नासिकाग्रनिरीक्षणे ।
न पूरके कुम्भके चैव रेचके च
तथा पुनः ॥ १३७॥
न बिन्दुभेदग्रन्थौ च ललाटे न च
चन्द्रमाः ।
प्रवेशे निर्गमे चैव शिखा
ऊर्द्ध्वे न बिन्दुके ॥ १३८॥
न करैर्न सरैर्मुद्रैः नाकाशो
वायुमण्डले ।
न चापे चन्द्रसूर्ये च भावाभावे
समागमे ॥ १३९॥
अनौपम्यं निरालम्बं
पक्षापक्षविवर्जितम् ।
अज्ञानमलग्रस्तात्मा
महामायविमोहिताः ॥ १४०॥
शास्त्रार्थेन विमुढात्मा
मोहिता विदुषो जनाः ।
न विदन्ति पदं शान्तं कैवल्यं
निश्क्रियं गुरुम् ॥ १४१॥
सङ्ख्यादयश्च ये केचित्
न्यायवैशेषिकास्तथा ।
बौद्धारहन्ताश्च ये केचित्
सोमसिद्धान्तदक्षिणाः ॥ १४२॥
मीमांसा पञ्चरात्रञ्च
वामदक्षिणकौलिकाः ।
इतिहासपुराणानि भूततत्त्वञ्च
गारुडम् ॥ १४३॥
एते चैव समाः सर्वे केचित्
वाऽपि क्रियान्विताः ।
विकल्पसिद्धिदाः सर्वे
तद्विदुर्न च पण्डिताः ॥ १४४॥
विकल्पबहलाः सर्वे
मिथ्यावादनिरर्थकाः ।
न ते मुच्यन्ति संसारे
अकुलवीरविवर्जिताः ॥ १४५॥
यानि कानि च स्थानानि
गिरिर्नगरसागरम् ।
सर्वत्र संस्थितं नित्यं
स्थावरे जङ्गमेषु च ॥ १४६॥
पञ्चभूतात्मकं सर्वे यत्
किञ्चित् सचराचरम् ।
शिवाद्यदेवपर्यन्तं सर्वं
तत्रैव संस्थितम् ॥ १४७॥
ईदृशं योगिनं दृष्ट्वा
उपसर्पन्ति ये नराः ।
गन्दैः पुष्पैश्च धूपैश्च
खानपानादिभक्षणैः ॥ १४८॥
तर्पयन्ति च ये
भक्तास्त्रिविधैश्चैवान्तरात्मना ।
तेऽपि बन्दैः प्रमुच्यन्ति
मुक्तिमार्गी न काड्क्षिणः ॥ १४९॥
ब्रहेन्द्रविष्णुरुद्रञ्च
अरहन्ता बुद्धमेव च ।
विषाख्यो मयूराक्ष ये च
ऋषयस्तपोधनाः ॥ १५०॥
देवादिभो नरेन्द्राश्च ये
चान्ये मोक्षकाङ्क्षिणः ।
ते सर्वे मोक्षमिच्छन्ति
अकुलवीरन्तु मोक्षदम् ॥ १५१॥
अथान्यं सम्प्रवक्ष्यामि
भिन्नावस्थां स्वभागः ।
पूर्वं यदुक्ता सर्वे
अन्वयमार्गे त्वकौलिके ॥ १५२॥
* * * * * * * *
* *
* * * * * * *
नात्र संशयः ॥ १५३॥
न जरास्तेषां न मृत्युश्च न
शोको दुःखमेव च ।
सर्वव्याधिहरश्चैव न
पुनर्भवसम्भवः ॥ १५४॥
अकुलवीरं स्थितं दिव्यं
सिद्धनाथप्रसादतः ।
सर्वतः सर्वदा शुद्धः सर्वतः
सर्वदा प्रभुः ॥ १५५॥
इति मच्छेन्द्रपादावतारिते
कामरूपिस्थाने
योगिनीप्रसादाल्लब्धं अकुलवीरं
समाप्तम् ।
Akulavīra Tantram
śrīmacchandapādakebhyo namaḥ |
śrīmīnasahajanandaṃ svakīyāṅgasamudbhavam |
sarvamādhāragambhīramacalaṃ vyapakaṃ param |
athātaḥ
sampravayāmi akulavīraṃ mahadbhūtam |
guhyād guhyataraṃ
guhyaṃ siddhasadbhāvasantatiḥ || 1||
anagrahāya
lokānāṃ siddhanāthena bhāṣitam |
gopanīyaṃ
prayatnena yadīcchan śāśvataṃ padam || 2||
saṃsārārṇavamagnātāṃ bhūtānāṃ mahadāśrayam |
yathā nadīnadāḥ
sarve sāgare samupāgatāḥ || 3||
tathā akulavīreṣu
sarvadharmā layaṅgatāḥ |
sarvādhāramaśeṣasya jagataḥ sarvadā prabhuḥ || 4||
sahajānandaṃ na
vindanti sarvadharmasamāsṛtāḥ |
anānantamalairgrastā mahāmāyāndhacchaditāḥ || 5||
śāstrajālena
santuṣṭā mohitāstyajayantitāḥ (?) |
na vindanti padaṃ
śāntaṃ kaulānāṃ niṣkalaṃ gurum || 6||
saṃvādayanti ye
kecin nyāyavaiśeṣikāstathā |
baudhāstu
arihantā ye somasiddhāntavādinaḥ || 7||
mīmāṃsa
pañcastrotāśca vāmasiddhāntadakṣiṇāḥ |
itihāsapurāṇañca
bhūtatattvantu gāruḍam || 8||
ebhiḥ śaivāgamaiḥ
sarvaiḥ parokṣañca kriyānvitāiḥ |
savikalpasiddhirsañcārantat sarvaṃ pāpabandhavit || 9||
vikalpabahulāḥ
sarvairmithyāvādā nirarthakāḥ |
na te muñcanti
saṃsāre akulavīravivarjitāḥ || 10||
sarvajñaṃ
sarvamāsṛtya sarvato hitalakṣaṇam |
sarveṣāṃ
siddhistatrasthā sarvasiddhiñca tatra vai || 11||
yatnāsau
akulavīro dṛśyate sarvatomukham |
taṃ viditvā paraṃ
rūpaṃ mano niścalatāṃ vrajet || 12||
śabdarūparasasparśagandhañcaivātra pañcamam |
sarvabhāvāśca
tatraiva pralīṇāḥ pralayaṃ gatāḥ || 13||
bhāvābhāvavinirmukta udayāstamanavarjitaḥ |
svabhāvamatimataṃ
śāntaṃ mano yasya manomayam || 14||
akulavīramiti
khyātaṃ sarvādhārapāparam |
nādhāralakṣabhedantu na nādagocare paṭhet || 15||
hṛdi sthāne na
vaktre ca ghaṇṭikā tālarandhrake |
na iḍā piṅgalā
śāntā na cāstīti gamāgame || 16||
na
nābhicakrakaṇṭhe ca na śire naiva mastake |
tathā
cakṣurunmīlane ca na nāsāgranirīkṣaṇe || 17||
na pūrakakumbhake
tatra recake [ca] tathā punaḥ |
na bindubhedake
granthau lalāṭe na tu vahnike || 18||
praveśanirgame
naiva nāvāhanavisarjanam |
na
karaṇairnāsanaṃ mudrairnamāse bhinnatāluke || 19||
na nirodho na
coddhāro nātītāṃ cālanaṃ na hi |
na
preryaprerakañcaiva na sthānannaiva caśrayam || 20||
na cātmanaiva tad
grāhyaṃ grāhyātītapadaṃ bhavet |
etat
pakṣavirnirmuktaṃ hetudṛṣṭāntavarjitam || 21||
na dūre na ca vai
nikaṭe na bharito na ca riktakaḥ |
na unnona
so'dhika ebhiḥ pakṣairvivarjitam || 22||
yaśca viṃśātmako
hyeṣa pudgala nāsti yatra vai |
yatra lakṣaṃ na
vidyeta akulavīra sa uccyate || 23||
yasyaivaṃ
saṃśitaṃ ka'ścit samarasa saṃśitaḥ |
sa brahmā so hariścaiśaḥ sa rudro sa
ca īśvaraḥ || 24||
sa śivaḥ paramadevaḥ sa
somārkāgnikastathā |
sa ca sāṅkhyaḥ purāṇāśca
arhantabuddha eva ca || 25||
svayaṃ devī svayaṃ devaḥ svayaṃ
śiṣyaḥ svayaṃ guruḥ |
svayaṃ dhyānaṃ svayaṃ dhyātā svayaṃ
sarvatra devatā || 26||
yādṛśena tu bhāvena puruṣo bhāvayet
sadā |
tādṛśāṃ phalamāvpnoti nātra
kāryavicāraṇāt || 27||
asyaiva hi hi nāmāni pṛthagbhūtāni
yogibhiḥ |
anāma tasya giyante
bhrāntijñānavimohitaiḥ || 28||
dharmādharmasamākliṣṭāvikalpatamaśchāditāḥ |
tena muñcanti saṃsāraṃ narakaṃ
yonisaṅkulam || 29||
akulavīraṃ mahadbhūtaṃ yadā paśyanti
sarvagam |
sa bāhyābhyantare nityaṃ ekākāraṃ
carācaram || 30||
nistaraṅgaṃ nirābhāsaṃ
padabhedavivarjitam |
sarvāvayavanirmuktaṃ nirlayaṃ
nirvakārajam || 31||
adṛṣṭanirguṇaṃ śāntaṃ tattvātītaṃ
nirañjanam |
sarvajñaṃ paripūrṇañca
svabhāvaścaivamakṣayam || 32||
kāryakāraṇanirmuktamacintyamanāmayam
|
māyātītaṃ nirālambaṃ vyāpakaṃ
sarvatomukham || 33||
samatvaṃ ekabhūtañca
ūhāpohavivarjitam |
akulavīraṃ mahadbhūtaṃ
astināstivivarjitam || 34||
na mano na ca vai buddhirna
cintācetanādikam |
na kālaḥ kalanāśaktirna śivo na ca
indriyaḥ || 35||
na bhūte gṛhyate so hi na sukhaṃ
duḥkhameva ca |
na raso hi na sukhaṃ duḥkhameva ca
|| 36||
na raso virasaścaiva na kṛto na ca
jāyate |
na cchāya na ca tāpastu na śīto na
ca uṣṇavān || 37||
na dṛśyate mana statra
udayāstamanavarjitam |
na sīmā dṛśyate tatra na ca tirthyaṃ
na cahivahi || 38||
advaitamacalaṃ śāntaṃ
saṅgadoṣavivarjitam |
nirākulaṃ nirvikalpañca nibaddhañca
malakṣaṇam || 39||
anāthaṃ sarvanāthañca unmanāṃ
madavarjitam |
anigṛḍhamasandhiñca sthāvaraṃ
jaṅgameva ca || 40||
jvalajvalanabhūmyā ca āpoñcaiva
tathaiva ca |
sarvaṃ samarasaṃ pūrṇaṃ akulavīrantu
kevalam || 41||
yasyaiṣā sam|sthitā muktiḥ sa mukto
bhavabandhanāt |
na tasya mātāpitā va bāndhavaṃ na ca
devatā || 42||
na yajñaṃ nopavāsañca na kriyā
varṇabhedakam |
tyaktvā vikalpasa|ghātaṃ
akulavīralayaṃ gatāḥ || 43||
na japo nārcanaṃ snānaṃ na homaṃ
naiva sādhanam |
agnipraveśanaṃ nāsti hetantabhṛgu
nodanam || 44||
niyamo'pi na tasyāsti nopavāso
vidhīyate |
pitṛkāryaṃ na karotāti
tīrthayātrāvratāni ca || 45||
dharmādharmaphalaṃ nāsti na snānaṃ
nodakakriyā |
svayaṃ tyaja sarvakāryāṇi lokācārāṇi
yāni ca || 46||
samayācāravicārañca kṛtakā
bandhakāni tu |
saṅkalpañca nikalpañca ye cānye kila
dharmiṇaḥ || 47||
bhave yogī nirācāro
paśucāravivarjitaḥ |
siddhiścavividhākāra pātāle ca
rasāyanam || 48||
pratyakṣañca yā labdhaṃ na gṛhnīyāt
kadācana |
sarvañca pāśajālañca
adhomārgapradāyakaḥ || 49||
eteṣu mocanā nāsti
akulavīravivarjitāḥ |
yathā mṛtāḥ na jānanti svādaṃ
kaṭumadhurasya tu || 50||
tathā akulavīrantu na jānanti
svabhāvagam |
yathā madirā mahāntasya kathitaṃ
nevaśakṛte || 51||
rasyaparamānandamatiguhyaṃ sugopitam
|
lokānāṃ ca hitārthāya siddhanāthena
bhāṣitam || 52||
nirvikalpaṃ padaṃ śāntaṃ yatra līnaṃ
parāparam |
mokṣasya tanmahāsthānaṃ
mantrarūpavivarjitam || 53||
tatraiva sṛṣṭirūpeṇa punastatra
layaṃ gatā |
kintena bahunoktena
sarvabandhavivarjitam || 54||
akulavīraṃ yadā labdhaṃ tadā kiṃ
kaulikaiḥ kramaiḥ |
labhdvā tu mokṣasadbhāvaṃ akulavīraṃ
mahāpaham ||55||
kaulamārge dvayo santi kṛtakā sahajā
tathā |
kuṇḍali kṛtakā jñeyā sahajā samarasa
sthitā || 56||
preryaprerakabhāvasthā kṛtakā
sā'bhidhīyate |
tataḥ sa pātayed bhūmai
mudrāmantrairniyogitaiḥ || 57||
āhute patane cānye karṇajāpena
dhūpakaiḥ |
etat sādhyamidaṃ tattvaṃ etad
dhyānañca dhāraṇā || 58||
anekaiḥ karmasaṅghātaiḥ
nānāmārgavibhāvanaiḥ |
vikalpakalalolloyā udbhrāntā
bhrāntacetasaḥ || 59||
hṛdi śokena santaptā vyāsaṅgācca
mahābhayaiḥ |
harṣaviṣādasampannā śocyamānā
muhurmuhuḥ || 60||
tāvadbhramanti saṃsāre
kalpākalpairbhavārṇavaiḥ |
dagdhabījeṣu sambhūtiryathā naiva
prajāyate || 61||
mūlachinne yathā vṛkṣe na prarohaṃ
vidyate |
akulavīragataṃ bhinnaṃ
nānābhāvānubandhanaiḥ || 62||
na badhyate yathā vimale rasaṃ
vipralayaṃ gatam |
tadvadakulavīre ca sattve
bhrābhrākhya yadgataḥ || 63||
timireṇa yathācchannamuditārkaṃ na
paśyati |
ajñānamanastadvad
bhrāntijālavimohitā || 64||
akule vīre ca samprāpte
sarvametadviniśyati |
dadhimadhe yathā sarpiḥ kāṣṭhe cāgni
sthito yathā || 65||
puṣpe gandhastile tailaṃ vṛkṣe cāyā
samāśritā |
madyamadhye yathānandaṃ dīpe prabhā
samāśritā || 66||
padmamadhye ca kuṇḍalyā
aṅgapratyaṅgameva ca |
raktārthākulavīre ca tatsarvaṃ
viniyojitam || 67||
bhāvā'bhāvādisam|yuktaiḥ
pratyayairddṛṣṭigocaraiḥ |
akulavīraṃ na jānanti
kṛtakairmohitātmanaḥ || 68||
pāśajālanibaddhāśca
mahāmāyavimohitāḥ |
na jānanti padaṃ śāntamacintyaṃ
nityasambhavaḥ || 69||
sarvavyāpibhāvasthaṃ
sthānavarṇavivarjitam |
sarvabhūtasthitaṃ hyekamadhyayaṃ
dheyavarjitam || 70||
sa ca sarvagato bhāvaḥ sthire pūrṇo
nirantare |
tatra mano vilīnantu acalaṃ
bhavatanmayam || 71||
manovṛddhistathā cintyaṃ kṣiptā
tanmayatāṃ gatā |
yathā tiṣṭhati tattvasthaḥ
śivaniṣkalamavyaye || 72||
tadā tanmayatāṃ yāti nirmalaṃ
niścalaṃ padam |
akulavīraṃ mahadbhutamekavīraṃ ca
sarvagam || 73||
durlabhaṃ surasiddhānāṃ yoginīnāñca
gocaram |
kecid vadantīdaṃ dharmamidaṃ
śāstramidaṃ tapaḥ || 74||
ayaṃ lokamimaṃ svargamidaṃ
sādhyamidaṃ phalam |
idaṃ jñānañca vijñānaṃ
śuddhāśuddhamidaṃ param || 75||
jñeyañca tattvakūṭañca yatra
dhyānañca dhāraṇā |
tadāsau yoginī hyekaḥ nānyastu hi
dvitīyakaḥ || 76||
anāgatantu gatañcaiva na hacchenna
ca tiṣṭhati |
na bhūtaṃ na bhaviṣyañca
sthitipralayavarjitam || 77||
na cāhaṃ pracitairdoṣaiḥ liptate na
kadācana |
nāhaṃ kaścinna me kaścinna baddho na
ca bādhakaḥ || 78||
na mukti vai na ca na muktame
mokṣasya ca spṛhā |
gacchaṃstiṣṭhan sthapan
jāgradbhūñjānao maithune'pi vā || 79||
bhayadāridraśokaiśca
vividhairbhakṣaṇaistathā |
cikitsā naiva kurvīta indriyārthaiḥ
kadācana || 80||
ācaret sarvavarṇaistu na tu bhakṣyaṃ
vicārayet |
evaṃ sa carate yogī yathāraṇye
hutāśanaḥ || 81||
piṇḍabadhāñca nānāsti avasthā
murkhavāsanām |
somaśūnyastathā
vahniprāṇāyamavarjitam || 82||
aprameyanirābhāsaṃ
dhāraṇādhyānavarjitam |
yena janmasahasrāṇi bhaktyā
sampūjito guruḥ || 83||
te labhanti mahājñānaṃ akulavīrantu
mokṣadam |
yoginīrākiṇīcakre yasya bhaktiḥ
suniścalā || 84||
akulavīraṃ mahadbhūtaṃ gambhīraṃ
gahanāmayam |
piṇḍātītaṃ yadā jñeyamapiṇḍaṃ
piṇḍavarjitam || 85||
padavyañjananirmuktaṃ vimalaṃ
satatoditam|
talline tanmayātmānaṃ vindate
śvāśvataṃ padam || 86||
citātītaṃ bhavet so hi
yogasaṃyogavarjitam |
nirvāṇaṃ vāsanāhīnaṃ tṛptātma ca
nirāmayaḥ || 87||
tena labdhā na sandeho'malā
malacchedanāḥ |
tasya pravarttate kṣiptaṃ tasyaiva
sarvasarvagam || 88||
vedasiddhāntaśāstrāṇi nānāvidhāni
śikhāni ca |
tāni sarvāṇi mohāni
kāyakleśairnirarthakam || 89||
vidyāhañkha़ाragrastāstu
garvitāḥ kugatiṃ gatāḥ |
anarthena ca santuṣṭā
bahugranthārthacintakāḥ || 90||
akulavīraṃ na vindanti
kṛtakairmohitāmanaḥ |
garvitānaṃ kuto jñānaṃ
granthakoṭiśatairapi || 91||
karpūrakuṅkumādīnāṃ
vastratāmbūlameva ca |
kharavadbhavati tadbhāraṃ sarvaṃ
tasya nirarthakam |
akulavīrañca dehasthaṃ yadā paśyati
sarvagam || 92||
dharmādharmaphalaṃ nāsti nodakaṃ
tīrthasevanā |
na kriyā satyaścaivaṃ vā karmakāṇḍe
na bhāvanā || 93||
na tasya karmakarmāṇi lokācārāṇi
yāni ca |
caritāḥ samayācārā
janairbhrāntivimohitaiḥ || 94||
akulavīraṃ na jānanti kiṃ viśiṣṭaṃ
kutaḥ sthitam |
kṛtakā bandhanā loke kalpitāśca
kupaṇḍitaiḥ || 95||
sam|kalpavikalpañca kalākarmāṇi yāni
ca |
siddhayo vividhā loke pātālaṃ ca
rasāyanam || 96||
pratyakṣañca yadā labdhaṃ na
vigṛhṇīyāt kadācana |
sarve te pāśabaddhāśca
adhomārgapradāyakāḥ || 97||
na caitairmuktiḥ sam|sāre akulaṃ
bīravarjitāḥ |
yathā madiramānandaṃ kathitaṃ naiva
jāyate || 98||
tadvadakulavīrākhyaṃ
svasam|vedyaniropaṇam |
na jānanti narā mūḍhāḥ sārāt
sārataraṃ param || 99||
tāvad bhrāntivimugdhātmā yāvattalaṃ
na vindati |
citātīte yadā yogī sa yogī
yogacintakaḥ || 100||
viraktā vāsanā yasya tṛptātma ca
nirāmayaḥ |
tāvad bhramanti mohātmā
nānābhāvānubandhanaiḥ || 101||
yāvat samamekatvaṃ paramānandaṃ na
vindati |
murkhāṇāṃ ca yathāśāstraṃ
kumārīsuratiṃ yathā || 102||
akulavīraṃ vindanti kathyamānaiḥ
kumārikāḥ |
diśaveśāvinirmultaṃ
sthānavarṇavivarjitam || 103||
nirākulaṃ nirvikalpaṃ nirguṇañca
sunirmalam |
anāthaṃ sarvanāthañca
pramādonmādavarjitam || 104||
ghananiviḍanisandhisthāvare
jaṅgameṣu ca |
jale jvalane tathā pavane bhūmyākāśe
tathaiva ca || 105||
sarvatra samarasaṃ
bharitamakulavīrantu kevalam |
na jñātaṃ yena dehasthaṃ sa muktaḥ
sarvabandhanāt || 106||
na tasya kriyābandhena na vedyaṃ na
ca vedanā |
na yajño nopavāsaśca na caryā na
kriyodayaḥ || 107||
na varṇo varṇabhedaśca akulavīraṃ
yadāgatam |
na jāpo nārcānagnīnāṃ na homo naiva
sādhanam || 108||
nāgnipraveśanantasya
mantrapūjācaraṇodakam |
niyamāśca na tasyāsti kṣetrapīṭhe ca
sevanaiḥ || 109||
na kriyā nārcanākādyairna tīrthāni
vratāni ca |
nirālambapadaṃ śāntaṃ tathātītaṃ
nirañjanam || 110||
sarvajñaparipūrṇañca svabhāvena
vilakṣyate |
kāryakāraṇanirmuktamacintitañca
anāmayam || 111||
māyātītaṃ nirālambaṃ vyāpakaṃ
sarvatomukham |
svadehe saṃsthitaṃ śāntamakulavīraṃ
taducyate || 112||
samastamekadābhūtaṃ
dvaitābhāvavivarjitam |
akulavīraṃ
mahadbhūtamastināstivivarjitam || 113||
manobuddhicittastacittā naiva
svacetanā |
na kālakalanā caiva na śaktiśca na
cendriyaḥ || 114||
na bhūte gṛhyate so hi na duḥkhaṃ
sukhameva ca |
na raso'dhirasaścaiva kṛtakaṃ naiva
kārakam || 115||
na cchāyā nātapo vahnirna ca
śītoṣṇavavedanā |
na dinaṃ
rātrimityuktamudayāstamanavarjitam || 116||
na mano dṛśyate tatra
norddhvamadhyaṃ ca jñāyate |
akṣobhyamacalaṃ śāntamīdṛśaṃ
tattvanirṇayam || 117||
yādṛśena tu bhāvena puruṣo bhāvayet
sadā |
tādṛśaṃ phalamāpnoti nātra
kāryavicāraṇāt || 118||
evañca kulasadbhāvamavācyaṃ
paramāmṛtam |
agamyaṃ gamyate kasmād
bhrāntijñānavihohitāḥ || 119||
na dūre na nikaṭe caiva pratyakṣaṃ
na parokṣatā |
na bharito na rikto vā nipuṇo nāpi
cādhikaḥ || 120||
etatpakṣavinirmukto
hetudṛṣṭāntavarjitaḥ |
kṛtakairmohitā mūḍhāḥ
karmakāṇḍaratāstu ye || 121||
na teṣāṃ muktiḥ saṃsāre narake
yonisaṅkule |
akulavīraṃ mahadbhūtaṃ yadā paśyati
sarvagam || 122||
sabāhyābhyantaraikatvaṃ sarvatraiva
vyavasthitam |
nistaraṅgaṃ nirābhāsaṃ
padacchedavivarjitam || 123|
sarvāvayavanirmuktaṃ nirvikārañca
nirmalam |
adṛśyaṃ nirguṇaṃ nityaṃ
nirṇirodhañca niścalam || 124||
na dhyānaṃ dhāraṇā naiva na sthānaṃ
varṇameva ca |
na recakaṃ pūrakañcaiva
narodghātañca kumbhakam || 125||
na cāntamādimadhyasthaṃ na sato
vṛddhireva ca |
grāhyagrāhakanirmuktagranthātītañca
yadbhavet || 126||
etaiḥ sarvairvinirmuktaṃ
hetudṛṣṭāntavarjitam |
sabāhyābhyantaraikatvaṃ sarvatraiva
vyavasthitam || 127||
samarasānandrarūpeṇa ekākāraṃ
carācare |
ye ca jñātaṃ svadehasthamakulavīraṃ
mahadbhūtam || 128||
yasyā vaśaṃ sthitaḥ kaścit samarasaṃ
rasasaṃsthitam |
sa brahmā sa hariścaiva sa
rudrañcaiveśvarastathā || 129||
sa śivaḥ śāśvato devaḥ sa ca
somārkaśaṅkaraḥ |
sa viśākhyo mayurākṣo arhanto
budhameva ca || 130||
svayaṃ devi svayaṃ devaḥ svayaṃ
śiṣyaḥ svayaṃ guruḥ |
svayaṃ dhyānaṃ svayaṃ dhyātā svayaṃ
sarveśvaro guruḥ || 131||
sarvajñaḥ sarvamāsṛtya sarvato
hitalakṣaṇaḥ |
sarvayoginī tatrasthā sarve
siddhāśca tatra vai || 132||
sarvaṃ sarvā^rthakaṃ caiva
sarvajñānaśca tatra vai |
yathāsau mahārthañca akulavīramiti
smṛtam || 133||
śabdaḥ sparśo raso rūpaṃ gandho
vadyāṇipama ca |
sarve bhīrāśca tatraiva ye pralīnāḥ
pralayaṃ gatāḥ || 134||
nādhāre dhyeyalakṣye ca na
nādagocare pare |
na hṛdi nābhikaṇṭhe vā vaktre
ghaṇṭikarandhrayoḥ || 135||
na iḍā piṅgalā caiva suṣmaṇa ca
gamāgamaiḥ |
na nābhicakre kaṇṭhe ca na śire
binduke tathā || 136||
cakṣukarṇonmīlanaṃ naivaṃ
nāsikāgranirīkṣaṇe |
na pūrake kumbhake caiva recake ca
tathā punaḥ || 137||
na bindubhedagranthau ca lalāṭe na
ca candramāḥ |
praveśe nirgame caiva śikhā ūrddhve
na binduke || 138||
na karairna sarairmudraiḥ nākāśo
vāyumaṇḍale |
na cāpe candrasūrye ca bhāvābhāve
samāgame || 139||
anaupamyaṃ nirālambaṃ
pakṣāpakṣavivarjitam |
ajñānamalagrastātmā
mahāmāyavimohitāḥ || 140||
śāstrārthena vimuḍhātmā mohitā
viduṣo janāḥ |
na vidanti padaṃ śāntaṃ kaivalyaṃ
niśkriyaṃ gurum || 141||
saṅkhyādayaśca ye kecit
nyāyavaiśeṣikāstathā |
bauddhārahantāśca ye kecit
somasiddhāntadakṣiṇāḥ || 142||
mīmāṃsā pañcarātrañca
vāmadakṣiṇakaulikāḥ |
itihāsapurāṇāni bhūtatattvañca
gāruḍam || 143||
ete caiva samāḥ sarve kecit vā'pi
kriyānvitāḥ |
vikalpasiddhidāḥ sarve tadvidurna ca
paṇḍitāḥ || 144||
vikalpabahalāḥ sarve
mithyāvādanirarthakāḥ |
na te mucyanti saṃsāre
akulavīravivarjitāḥ || 145||
yāni kāni ca sthānāni
girirnagarasāgaram |
sarvatra saṃsthitaṃ nityaṃ sthāvare
jaṅgameṣu ca || 146||
pañcabhūtātmakaṃ sarve yat kiñcit
sacarācaram |
śivādyadevaparyantaṃ sarvaṃ tatraiva
saṃsthitam || 147||
īdṛśaṃ yoginaṃ dṛṣṭvā upasarpanti ye
narāḥ |
gandaiḥ puṣpaiśca dhūpaiśca
khānapānādibhakṣaṇaiḥ || 148||
tarpayanti ca ye
bhaktāstrividhaiścaivāntarātmanā |
te'pi bandaiḥ pramucyanti muktimārgī
na kāḍkṣiṇaḥ || 149||
brahendraviṣṇurudrañca arahantā
buddhameva ca |
viṣākhyo mayūrākṣa ye ca
ṛṣayastapodhanāḥ || 150||
devādibho narendrāśca ye cānye
mokṣakāṅkṣiṇaḥ |
te sarve mokṣamicchanti akulavīrantu
mokṣadam || 151||
athānyaṃ sampravakṣyāmi
bhinnāvasthāṃ svabhāgaḥ |
pūrvaṃ yaduktā sarve anvayamārge
tvakaulike || 152||
* * * * * * * * * *
* * * * * * * nātra saṃśayaḥ ||
153||
na jarāsteṣāṃ na mṛtyuśca na śoko
duḥkhameva ca |
sarvavyādhiharaścaiva na
punarbhavasambhavaḥ || 154||
akulavīraṃ sthitaṃ divyaṃ
siddhanāthaprasādataḥ |
sarvataḥ sarvadā śuddhaḥ sarvataḥ
sarvadā prabhuḥ || 155||
iti macchendrapādāvatārite
kāmarūpisthāne
yoginīprasādāllabdhaṃ akulavīraṃ
samāptam |
|