AVADHUT GITA

अवधूत गीता

 

1 2 3 4 5 6 7 8

 


अथ प्रथमोऽध्यायः


ईश्वरानुग्रहादेव पुंसामद्वैतवासना
महद्भयपरित्राणाद्विप्राणामुपजायते ।। १।।

येनेदं पूरितं सर्वमात्मनैवाअत्मनात्मनि
निराकारं कथं वन्दे ह्यभिन्नं शिवमव्ययम् ।। २।।

पञ्चभूतात्मकं विश्वं मरीचिजलसन्निभम्
कस्याप्यहो नमस्कुर्यामहमेको निरञ्जनः ।। ३।।

आत्मैव केवलं सर्वं भेदाभेदो विद्यते
अस्ति नास्ति कथं ब्रूयां विस्मयः प्रतिभाति मे ।। ४।।

वेदान्तसारसर्वस्वं ज्ञानं विज्ञानमेव
अहमात्मा निराकारः सर्वव्यापी स्वभावतः ।। ५।।

यो वै सर्वात्मको देवो निष्कलो गगनोपमः
स्वभावनिर्मलः शुद्धः एवायं संशयः ।। ६।।

अहमेवाव्ययोऽनन्तः शुद्धविज्ञानविग्रहः
सुखं दुःखं जानामि कथं कस्यापि वर्तते ।। ७।।

मानसं कर्म शुभाशुभं मे कायिकं कर्म शुभाशुभं मे
वाचिकं कर्म शुभाशुभं मे ज्ञानामृतं शुद्धमतीन्द्रियोऽहम् ।। ८।।

मनो वै गगनाकारं मनो वै सर्वतोमुखम्
मनोऽतीतं मनः सर्वं मनः परमार्थतः ।। ९।।

अहमेकमिदं सर्वं व्योमातीतं निरन्तरम्
पश्यामि कथमात्मानं प्रत्यक्षं वा तिरोहितम् ।। १०।।

त्वमेवमेकं हि कथं बुध्यसे समं हि सर्वेषु विमृष्टमव्ययम्
सदोदितोऽसि त्वमखण्डितः प्रभो दिवा नक्तं कथं हि मन्यसे ।। ११।।

आत्मानं सततं विद्धि सर्वत्रैकं निरन्तरम्
अहं ध्याता परं ध्येयमखण्डं खण्ड्यते कथम् ।। १२।।

जातो मृतोऽसि त्वं ते देहः कदाचन
सर्वं ब्रह्मेति विख्यातं ब्रवीति बहुधा श्रुतिः ।। १३।।

बाह्याभ्यन्तरोऽसि त्वं शिवः सर्वत्र सर्वदा
इतस्ततः कथं भ्रान्तः प्रधावसि पिशाचवत् ।। १४।।

संयोगश्च वियोगश्च वर्तते ते मे
त्वं नाहं जगन्नेदं सर्वमात्मैव केवलम् ।। १५।।

शब्दादिपञ्चकस्यास्य नैवासि त्वं ते पुनः
त्वमेव परमं तत्त्वमतः किं परितप्यसे ।। १६।।

जन्म मृत्युर्न ते चित्तं बन्धमोक्षौ शुभाशुभौ
कथं रोदिषि रे वत्स नामरूपं ते मे ।। १७।।

अहो चित्त कथं भ्रान्तः प्रधावसि पिशाचवत्
अभिन्नं पश्य चात्मानं रागत्यागात्सुखी भव ।। १८।।

त्वमेव तत्त्वं हि विकारवर्जितं निष्कम्पमेकं हि विमोक्षविग्रहम्
ते रागो ह्यथवा विरागः कथं हि सन्तप्यसि कामकामतः ।। १९।।

वदन्ति श्रुतयः सर्वाः निर्गुणं शुद्धमव्ययम्
अशरीरं समं तत्त्वं तन्मां विद्धि संशयः ।। २०।।

साकारमनृतं विद्धि निराकारं निरन्तरम्
एतत्तत्त्वोपदेशेन पुनर्भवसम्भवः ।। २१।।

एकमेव समं तत्त्वं वदन्ति हि विपश्चितः
रागत्यागात्पुनश्चित्तमेकानेकं विद्यते ।। २२।।

अनात्मरूपं कथं समाधि रात्मस्वरूपं कथं समाधिः
अस्तीति नास्तीति कथं समाधि र्मोक्षस्वरूपं यदि सर्वमेकम् ।। २३।।

विशुद्धोऽसि समं तत्त्वं विदेहस्त्वमजोऽव्ययः
जानामीह जानामीत्यात्मानं मन्यसे कथम् ।। २४।।

तत्त्वमस्यादिवाक्येन स्वात्मा हि प्रतिपादितः
नेति नेति श्रुतिर्ब्रूयादनृतं पाञ्चभौतिकम् ।। २५।।

आत्मन्येवात्मना सर्वं त्वया पूर्णं निरन्तरम्
ध्याता ध्यानं ते चित्तं निर्लज्जं ध्यायते कथम् ।। २६।।

शिवं जानामि कथं वदामि शिवं जानामि कथं भजामि
अहं शिवश्चेत्परमार्थथतत्त्वं समस्वरूपं गगनोपमं ।। २७।।

नाहं तत्त्वं समं तत्त्वं कल्पनाहेतुवर्जितम्
ग्राह्यग्राहकनिर्मुक्तं स्वसंवेद्यं कथं भवेत् ।। २८।।

अनन्तरूपं हि वस्तु किंचि- त्तत्त्वस्वरूपं हि वस्तु किंचित्
आत्मैकरूपं परमार्थतत्त्वं हिंसको वापि चाप्यहिंसा ।। २९।।

विशुद्धोऽसि समं तत्त्वं विदेहमजमव्ययम्
विभ्रमं कथमात्मार्थे विभ्रान्तोऽहं कथं पुनः ।। ३०।।

घटे भिन्ने घटाकाशं सुलीनं भेदवर्जितम्
शिवेन मनसा शुद्धो भेदः प्रतिभाति मे ।। ३१।।

घटो घटाकाशो जीवो जीवविग्रहः
केवलं ब्रह्म संविद्धि वेद्यवेदकवर्जितम् ।। ३२।।

सर्वत्र सर्वदा सर्वमात्मानं सततं ध्रुवम्
सर्वं शून्यमशून्यं तन्मां विद्धि संशयः ।। ३३।।

वेदा लोका सुरा यज्ञा वर्णाश्रमो नैव कुलं जातिः
धूममार्गो दीप्तिमार्गो ब्रह्मैकरूपं परमार्थतत्त्वम् ।। ३४।।

व्याप्यव्यापकनिर्मुक्तः त्वमेकः सफलं यदि
प्रत्यक्षं चापरोक्षं ह्यात्मानं मन्यसे कथम् ।। ३५।।

अद्वैतं केचिदिच्छन्ति द्वैतमिच्छन्ति चापरे
समं तत्त्वं विन्दन्ति द्वैताद्वैतविवर्जितम् ।। ३६।।

श्वेतादिवर्णरहितं शब्दादिगुणवर्जितम्
कथयन्ति कथं तत्त्वं मनोवाचामगोचरम् ।। ३७।।

यदाऽनृतमिदं सर्वं देहादिगगनोपमम्
तदा हि ब्रह्म संवेत्ति ते द्वैतपरम्परा ।। ३८।।

परेण सहजात्मापि ह्यभिन्नः प्रतिभाति मे
व्योमाकारं तथैवैकं ध्याता ध्यानं कथं भवेत् ।। ३९।।

यत्करोमि यदश्नामि यज्जुहोमि ददामि यत्
एतत्सर्वं मे किंचिद्विशुद्धोऽहमजोऽव्ययः ।। ४०।।

सर्वं जगद्विद्धि निराकृतीदं सर्वं जगद्विद्धि विकारहीनम्
सर्वं जगद्विद्धि विशुद्धदेहं सर्वं जगद्विद्धि शिवैकरूपम् ।। ४१।।

तत्त्वं त्वं हि सन्देहः किं जानाम्यथवा पुनः
असंवेद्यं स्वसंवेद्यमात्मानं मन्यसे कथम् ।। ४२।।

मायाऽमाया कथं तात छायाऽछाया विद्यते
तत्त्वमेकमिदं सर्वं व्योमाकारं निरञ्जनम् ।। ४३।।

आदिमध्यान्तमुक्तोऽहं बद्धोऽहं कदाचन
स्वभावनिर्मलः शुद्ध इति मे निश्चिता मतिः ।। ४४।।

महदादि जगत्सर्वं किंचित्प्रतिभाति मे
ब्रह्मैव केवलं सर्वं कथं वर्णाश्रमस्थितिः ।। ४५।।

जानामि सर्वथा सर्वमहमेको निरन्तरम्
निरालम्बमशून्यं शून्यं व्योमादिपञ्चकम् ।। ४६।।

षण्ढो पुमान्न स्त्री बोधो नैव कल्पना
सानन्दो वा निरानन्दमात्मानं मन्यसे कथम् ।। ४७।।

षडङ्गयोगान्न तु नैव शुद्धं मनोविनाशान्न तु नैव शुद्धम्
गुरूपदेशान्न तु नैव शुद्धं स्वयं तत्त्वं स्वयमेव बुद्धम् ।। ४८।।

हि पञ्चात्मको देहो विदेहो वर्तते हि
आत्मैव केवलं सर्वं तुरीयं त्रयं कथम् ।। ४९।।

बद्धो नैव मुक्तोऽहं चाहं ब्रह्मणः पृथक्
कर्ता भोक्ताहं व्याप्यव्यापकवर्जितः ।। ५०।।

यथा जलं जले न्यस्तं सलिलं भेदवर्जितम्
प्रकृतिं पुरुषं तद्वदभिन्नं प्रतिभाति मे ।। ५१।।

यदि नाम मुक्तोऽसि बद्धोऽसि कदाचन
साकारं निराकारमात्मानं मन्यसे कथम् ।। ५२।।

जानामि ते परं रूपं प्रत्यक्षं गगनोपमम्
यथा परं हि रूपं यन्मरीचिजलसन्निभम् ।। ५३।।

गुरुर्नोपदेशश्च चोपाधिर्न मे क्रिया
विदेहं गगनं विद्धि विशुद्धोऽहं स्वभावतः ।। ५४।।

विशुद्धोऽस्य शरीरोऽसि ते चित्तं परात्परम्
अहं चात्मा परं तत्त्वमिति वक्तुं लज्जसे ।। ५५।।

कथं रोदिषि रे चित्त ह्यात्मैवात्मात्मना भव
पिब वत्स कलातीतमद्वैतं परमामृतम् ।। ५६।।

नैव बोधो चाबोधो बोधाबोध एव
यस्येदृशः सदा बोधः बोधो नान्यथा भवेत् ।। ५७।।

ज्ञानं तर्को समाधियोगो देशकालौ गुरूपदेशः
स्वभावसंवित्तरहं तत्त्व- माकाशकल्पं सहजं ध्रुवं ।। ५८।।

जातोऽहं मृतो वापि मे कर्म शुभाशुभम्
विशुद्धं निर्गुणं ब्रह्म बन्धो मुक्तिः कथं मम ।। ५९।।

यदि सर्वगतो देवः स्थिरः पूर्णो निरन्तरः
अन्तरं हि पश्यामि बाह्याभ्यन्तरः कथम् ।। ६०।।

स्फुरत्येव जगत्कृत्स्नमखण्डितनिरन्तरम्
अहो मायामहामोहो द्वैताद्वैतविकल्पना ।। ६१।।

साकारं निराकारं नेति नेतीति सर्वदा
भेदाभेदविनिर्मुक्तो वर्तते केवलः शिवः ।। ६२।।

ते माता पिता बन्धुः ते पत्नी सुतश्च मित्रम्
पक्षपाती विपक्षपातः कथं हि संतप्तिरियं हि चित्ते ।। ६३।।

दिवा नक्तं ते चित्तं उदयास्तमयौ हि
विदेहस्य शरीरत्वं कल्पयन्ति कथं बुधाः ।। ६४।।

नाविभक्तं विभक्तं हि दुःखसुखादि
हि सर्वमसर्वं विद्धि चात्मानमव्ययम् ।। ६५।।

नाहं कर्ता भोक्ता मे कर्म पुराऽधुना
मे देहो विदेहो वा निर्ममेति ममेति किम् ।। ६६।।

मे रागादिको दोषो दुःखं देहादिकं मे
आत्मानं विद्धि मामेकं विशालं गगनोपमम् ।। ६७।।

सखे मनः किं बहुजल्पितेन सखे मनः सर्वमिदं वितर्क्यम्
यत्सारभूतं कथितं मया ते त्वमेव तत्त्वं गगनोपमोऽसि ।। ६८।।

येन केनापि भावेन यत्र कुत्र मृता अपि
योगिनस्तत्र लीयन्ते घटाकाशमिवाम्बरे ।। ६९।।

तीर्थे चान्त्यजगेहे वा नष्टस्मृतिरपि त्यजन्
समकाले तनुं मुक्तः कैवल्यव्यापको भवेत् ।। ७०।।

धर्मार्थकाममोक्षांश्च द्विपदादिचराचरम्
मन्यन्ते योगिनः सर्वं मरीचिजलसन्निभम् ।। ७१।।

अतीतानागतं कर्म वर्तमानं तथैव
करोमि भुञ्जामि इति मे निश्चला मतिः ।। ७२।।

शून्यागारे समरसपूत- स्तिष्ठन्नेकः सुखमवधूतः
चरति हि नग्नस्त्यक्त्वा गर्वं विन्दति केवलमात्मनि सर्वम् ।। ७३।।

त्रितयतुरीयं नहि नहि यत्र विन्दति केवलमात्मनि तत्र
धर्माधर्मौ नहि नहि यत्र बद्धो मुक्तः कथमिह तत्र ।। ७४।।

विन्दति विन्दति नहि नहि मन्त्रं छन्दोलक्षणं नहि नहि तन्त्रम्
समरसमग्नो भावितपूतः प्रलपितमेतत्परमवधूतः ।। ७५।।

सर्वशून्यमशून्यं सत्यासत्यं विद्यते
स्वभावभावतः प्रोक्तं शास्त्रसंवित्तिपूर्वकम् ।। ७६।।

 

अथ द्वितीयोऽध्यायः

 

बालस्य वा विषयभोगरतस्य वापि मूर्खस्य सेवकजनस्य गृहस्थितस्य

एतद्गुरोः किमपि नैव चिन्तनीयं रत्नं कथं त्यजति कोऽप्यशुचौ प्रविष्टम् ।। १।।

नैवात्र काव्यगुण एव तु चिन्तनीयो ग्राह्यः परं गुणवता खलु सार एव

सिन्दूरचित्ररहिता भुवि रूपशून्या पारं किं नयति नौरिह गन्तुकामान् ।। २।।

प्रयत्नेन विना येन निश्चलेन चलाचलम्

ग्रस्तं स्वभावतः शान्तं चैतन्यं गगनोपमम् ।। ३।।

अयत्नाछालयेद्यस्तु एकमेव चराचरम्

सर्वगं तत्कथं भिन्नमद्वैतं वर्तते मम ।। ४।।

अहमेव परं यस्मात्सारात्सारतरं शिवम्

गमागमविनिर्मुक्तं निर्विकल्पं निराकुलम् ।। ५।।

सर्वावयवनिर्मुक्तं तथाहं त्रिदशार्चितम्

संपूर्णत्वान्न गृह्णामि विभागं त्रिदशादिकम् ।। ६।।

प्रमादेन सन्देहः किं करिष्यामि वृत्तिमान्

उत्पद्यन्ते विलीयन्ते बुद्बुदाश्च यथा जले ।। ७।।

महदादीनि भूतानि समाप्यैवं सदैव हि

मृदुद्रव्येषु तीक्ष्णेषु गुडेषु कटुकेषु ।। ८।।

कटुत्वं चैव शैत्यत्वं मृदुत्वं यथा जले

प्रकृतिः पुरुषस्तद्वदभिन्नं प्रतिभाति मे ।। ९।।

सर्वाख्यारहितं यद्यत्सूक्ष्मात्सूक्ष्मतरं परम्

मनोबुद्धीन्द्रियातीतमकलङ्कं जगत्पतिम् ।। १०।।

ईदृशं सहजं यत्र अहं तत्र कथं भवेत्

त्वमेव हि कथं तत्र कथं तत्र चराचरम् ।। ११।।

गगनोपमं तु यत्प्रोक्तं तदेव गगनोपमम्

चैतन्यं दोषहीनं सर्वज्ञं पूर्णमेव ।। १२।।

पृथिव्यां चरितं नैव मारुतेन वाहितम्

वरिणा पिहितं नैव तेजोमध्ये व्यवस्थितम् ।। १३।।

आकाशं तेन संव्याप्तं तद्व्याप्तं केनचित्

बाह्याभ्यन्तरं तिष्ठत्यवच्छिन्नं निरन्तरम् ।। १४।।

सूक्ष्मत्वात्तददृश्यत्वान्निर्गुणत्वाच्च योगिभिः

आलम्बनादि यत्प्रोक्तं क्रमादालम्बनं भवेत् ।। १५।।

सतताऽभ्यासयुक्तस्तु निरालम्बो यदा भवेत्

तल्लयाल्लीयते नान्तर्गुणदोषविवर्जितः ।। १६।।

विषविश्वस्य रौद्रस्य मोहमूर्च्छाप्रदस्य

एकमेव विनाशाय ह्यमोघं सहजामृतम् ।। १७।।

भावगम्यं निराकारं साकारं दृष्टिगोचरम्

भावाभावविनिर्मुक्तमन्तरालं तदुच्यते ।। १८।।

बाह्यभावं भवेद्विश्वमन्तः प्रकृतिरुच्यते

अन्तरादन्तरं ज्ञेयं नारिकेलफलाम्बुवत् ।। १९।।

भ्रान्तिज्ञानं स्थितं बाह्यं सम्यग्ज्ञानं मध्यगम्

मध्यान्मध्यतरं ज्ञेयं नारिकेलफलाम्बुवत् ।। २०।।

पौर्णमास्यां यथा चन्द्र एक एवातिनिर्मलः

तेन तत्सदृशं पश्येद्द्विधादृष्टिर्विपर्ययः ।। २१।।

अनेनैव प्रकारेण बुद्धिभेदो सर्वगः

दाता धीरतामेति गीयते नामकोटिभिः ।। २२।।

गुरुप्रज्ञाप्रसादेन मूर्खो वा यदि पण्डितः

यस्तु संबुध्यते तत्त्वं विरक्तो भवसागरात् ।। २३।।

रागद्वेषविनिर्मुक्तः सर्वभूतहिते रतः

दृढबोधश्च धीरश्च गच्छेत्परमं पदम् ।। २४।।

घटे भिन्ने घटाकाश आकाशे लीयते यथा

देहाभावे तथा योगी स्वरूपे परमात्मनि ।। २५।।

उक्तेयं कर्मयुक्तानां मतिर्यान्तेऽपि सा गतिः

चोक्ता योगयुक्तानां मतिर्यान्तेऽपि सा गतिः ।। २६।।

या गतिः कर्मयुक्तानां सा वागिन्द्रियाद्वदेत्

योगिनां या गतिः क्वापि ह्यकथ्या भवतोर्जिता ।। २७।।

एवं ज्ञात्वा त्वमुं मार्गं योगिनां नैव कल्पितम्

विकल्पवर्जनं तेषां स्वयं सिद्धिः प्रवर्तते ।। २८।।

तीर्थे वान्त्यजगेहे वा यत्र कुत्र मृतोऽपि वा

योगी पश्यते गर्भं परे ब्रह्मणि लीयते ।। २९।।

सहजमजमचिन्त्यं यस्तु पश्येत्स्वरूपं घटति यदि यथेष्टं लिप्यते नैव दोषैः

सकृदपि तदभावात्कर्म किंचिन्नकुर्यात् तदपि विबद्धः संयमी वा तपस्वी ।। ३०।।

निरामयं निष्प्रतिमं निराकृतिं निराश्रयं निर्वपुषं निराशिषम्

निर्द्वन्द्वनिर्मोहमलुप्तशक्तिकं तमीशमात्मानमुपैति शाश्वतम् ।। ३१।।

वेदो दीक्षा मुण्डनक्रिया गुरुर्न शिष्यो यन्त्रसम्पदः

मुद्रादिकं चापि यत्र भासते तमीशमात्मानमुपैति शाश्वतम् ।। ३२।।

शाम्भवं शाक्तिकमानवं वा पिण्डं रूपं पदादिकं वा

आरम्भनिष्पत्तिघटादिकं नो तमीशमात्मानमुपैति शाश्वतम् ।। ३३।।

यस्य स्वरूपात्सचराचरं जग-दुत्पद्यते तिष्ठति लीयतेऽपि वा

पयोविकारादिव फेनबुद्बुदा-स्तमीशमात्मानमुपैति शाश्वतम् ।। ३४।।

नासानिरोधो दृष्टिरासनं बोधोऽप्यबोधोऽपि यत्र भासते

नाडीप्रचारोऽपि यत्र किञ्चि-त्तमीशमात्मानमुपैति शाश्वतम् ।। ३५।।

नानात्वमेकत्वमुभत्वमन्यता अणुत्वदीर्घत्वमहत्त्वशून्यता

मानत्वमेयत्वसमत्ववर्जितं तमीशमात्मानमुपैति शाश्वतम् ।। ३६।।

सुसंयमी वा यदि वा संयमी सुसंग्रही वा यदि वा संग्रही

निष्कर्मको वा यदि वा सकर्मक-स्तमीशमात्मानमुपैति शाश्वतम् ।। ३७।।

मनो बुद्धिर्न शरीरमिन्द्रियं तन्मात्रभूतानि भूतपञ्चकम्

अहंकृतिश्चापि वियत्स्वरूपकं तमीशमात्मानमुपैति शाश्वतम् ।। ३८।।

विधौ निरोधे परमात्मतां गते न योगिनश्चेतसि भेदवर्जिते

शौचं वाशौचमलिङ्गभावना सर्वं विधेयं यदि वा निषिध्यते ।। ३९।।

मनो वचो यत्र शक्तमीरितुं नूनं कथं तत्र गुरूपदेशता

इमां कथामुक्तवतो गुरोस्त-द्युक्तस्य तत्त्वं हि समं प्रकाशते ।। ४०।।

 

अथ तृतीयोऽध्यायः

 

गुणविगुणविभागो वर्तते नैव किञ्चित् रतिविरतिविहीनं निर्मलं निष्प्रपञ्चम्

गुणविगुणविहीनं व्यापकं विश्वरूपं कथमहमिह वन्दे व्योमरूपं शिवं वै ।। १।।

श्वेतादिवर्णरहितो नियतं शिवश्च कार्यं हि कारणमिदं हि परं शिवश्च

एवं विकल्परहितोऽहमलं शिवश्च स्वात्मानमात्मनि सुमित्र कथं नमामि ।। २।।

निर्मूलमूलरहितो हि सदोदितोऽहं निर्धूमधूमरहितो हि सदोदितोऽहम्

निर्दीपदीपरहितो हि सदोदितोऽहं ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ३।।

निष्कामकाममिह नाम कथं वदामि निःसङ्गसङ्गमिह नाम कथं वदामि

निःसारसाररहितं कथं वदामि ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ४।।

अद्वैतरूपमखिलं हि कथं वदामि द्वैतस्वरूपमखिलं हि कथं वदामि

नित्यं त्वनित्यमखिलं हि कथं वदामि ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ५।।

स्थूलं हि नो नहि कृशं गतागतं हि आद्यन्तमध्यरहितं परापरं हि

सत्यं वदामि खलु वै परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ६।।

संविद्धि सर्वकरणानि नभोनिभानि संविद्धि सर्वविषयांश्च नभोनिभांश्च

संविद्धि चैकममलं हि बन्धमुक्तं ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ७।।

दुर्बोधबोधगहनो भवामि तात दुर्लक्ष्यलक्ष्यगहनो भवामि तात

आसन्नरूपगहनो भवामि तात ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ८।।

निष्कर्मदहनो ज्वलनो भवामि निर्दुःखदुःखदहनो ज्वलनो भवामि

निर्देहदेहदहनो ज्वलनो भवामि ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ९।।

निष्पापपापदहनो हि हुताशनोऽहं निर्धर्मधर्मदहनो हि हुताशनोऽहम्

निर्बन्धबन्धदहनो हि हुताशनोऽहं ज्ञानामृतं समरसं गगनोपमोऽहम् ।। १०।।

निर्भावभावरहितो भवामि वत्स निर्योगयोगरहितो भवामि वत्स

निश्चित्तचित्तरहितो भवामि वत्स ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ११।।

निर्मोहमोहपदवीति मे विकल्पो निःशोकशोकपदवीति मे विकल्पः

निर्लोभलोभपदवीति मे विकल्पो ज्ञानामृतं समरसं गगनोपमोऽहम् ।। १२।।

संसारसन्ततिलता मे कदाचित् सन्तोषसन्ततिसुखो मे कदाचित्

अज्ञानबन्धनमिदं मे कदाचित् ज्ञानामृतं समरसं गगनोपमोऽहम् ।। १३।।

संसारसन्ततिरजो मे विकारः सन्तापसन्ततितमो मे विकारः

सत्त्वं स्वधर्मजनकं मे विकारो ज्ञानामृतं समरसं गगनोपमोऽहम् ।। १४।।

सन्तापदुःखजनको विधिः कदाचित् सन्तापयोगजनितं मनः कदाचित्

यस्मादहङ्कृतिरियं मे कदाचित् ज्ञानामृतं समरसं गगनोपमोऽहम् ।। १५।।

निष्कम्पकम्पनिधनं विकल्पकल्पं स्वप्नप्रबोधनिधनं हिताहितं हि

निःसारसारनिधनं चराचरं हि ज्ञानामृतं समरसं गगनोपमोऽहम् ।। १६।।

नो वेद्यवेदकमिदं हेतुतर्क्यं वाचामगोचरमिदं मनो बुद्धिः

एवं कथं हि भवतः कथयामि तत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ।। १७।।

निर्भिन्नभिन्नरहितं परमार्थतत्त्व-मन्तर्बहिर्न हि कथं परमार्थतत्त्वम्

प्राक्सम्भवं रतं नहि वस्तु किञ्चित् ज्ञानामृतं समरसं गगनोपमोऽहम् ।। १८।।

रागादिदोषरहितं त्वहमेव तत्त्वं दैवादिदोषरहितं त्वहमेव तत्त्वम्

संसारशोकरहितं त्वहमेव तत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ।। १९।।

स्थानत्रयं यदि नेति कथं तुरीयं कालत्रयं यदि नेति कथं दिशश्च

शान्तं पदं हि परमं परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ।। २०।।

दीर्घो लघुः पुनरितीह नमे विभागो विस्तारसंकटमितीह मे विभागः

कोणं हि वर्तुलमितीह मे विभागो ज्ञानामृतं समरसं गगनोपमोऽहम् ।। २१।।

मातापितादि तनयादि मे कदाचित् जातं मृतं मनो मे कदाचित्

निर्व्याकुलं स्थिरमिदं परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ।। २२।।

शुद्धं विशुद्धमविचारमनन्तरूपं निर्लेपलेपमविचारमनन्तरूपम्

निष्खण्डखण्डमविचारमनन्तरूपं ज्ञानामृतं समरसं गगनोपमोऽहम् ।। २३।।

ब्रह्मादयः सुरगणाः कथमत्र सन्ति स्वर्गादयो वसतयः कथमत्र सन्ति

यद्येकरूपममलं परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ।। २४।।

निर्नेति नेति विमलो हि कथं वदामि निःशेषशेषविमलो हि कथं वदामि

निर्लिङ्गलिङ्गविमलो हि कथं वदामि ज्ञानामृतं समरसं गगनोपमोऽहम् ।। २५।।

निष्कर्मकर्मपरमं सततं करोमि निःसङ्गसङ्गरहितं परमं विनोदम्

निर्देहदेहरहितं सततं विनोदं ज्ञानामृतं समरसं गगनोपमोऽहम् ।। २६।।

मायाप्रपञ्चरचना मे विकारः । कौटिल्यदम्भरचना मे विकारः

सत्यानृतेति रचना मे विकारो ज्ञानामृतं समरसं गगनोपमोऽहम् ।। २७।।

सन्ध्यादिकालरहितं मे वियोगो-ह्यन्तः प्रबोधरहितं बधिरो मूकः

एवं विकल्परहितं भावशुद्धं ज्ञानामृतं समरसं गगनोपमोऽहम् ।। २८।।

निर्नाथनाथरहितं हि निराकुलं वै निश्चित्तचित्तविगतं हि निराकुलं वै

संविद्धि सर्वविगतं हि निराकुअलं वै ज्ञानामृतं समरसं गगनोपमोऽहम् ।। २९।।

कान्तारमन्दिरमिदं हि कथं वदामि संसिद्धसंशयमिदं हि कथं वदामि

एवं निरन्तरसमं हि निराकुलं वै ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ३०।।

निर्जीवजीवरहितं सततं विभाति निर्बीजबीजरहितं सततं विभाति

निर्वाणबन्धरहितं सततं विभाति ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ३१।।

सम्भूतिवर्जितमिदं सततं विभाति संसारवर्जितमिदं सततं विभाति

संहारवर्जितमिअदं सततं विभाति ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ३२।।

उल्लेखमात्रमपि ते नामरूपं निर्भिन्नभिन्नमपि ते हि वस्तु किञ्चित्

निर्लज्जमानस करोषि कथं विषादं ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ३३।।

किं नाम रोदिषि सखे जरा मृत्युः किं नाम रोदिषि सखे जन्म दुःखम्

किं नाम रोदिषि सखे ते विकारो ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ३४।।

किं नाम रोदिषि सखे ते स्वरूपं किं नाम रोदिषि सखे ते विरूपम्

किं नाम रोदिषि सखे ते वयांसि ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ३५।।

किं नाम रोदिषि सखे ते वयांसि किं नाम रोदिषि सखे ते मनांसि

किं नाम रोदिषि सखे तवेन्द्रियाणि ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ३६।।

किं नाम रोदिषि सखे तेऽस्ति कामः किं नाम रोदिषि सखे ते प्रलोभः

किं नाम रोदिषि सखे ते विमोहो ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ३७।।

ऐश्वर्यमिच्छसि कथं ते धनानि ऐश्वर्यमिच्छसि कथं ते हि पत्नी

ऐश्वर्यमिच्छसि कथं ते ममेति ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ३८।।

लिङ्गप्रपञ्चजनुषी ते मे च निर्लज्जमानसमिदं विभाति भिन्नम्

निर्भेदभेदरहितं ते मे च ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ३९।।

नो वाणुमात्रमपि ते हि विरागरूपं नो वाणुमात्रमपि ते हि सरागरूपम्

नो वाणुमात्रमपि ते हि सकामरूपं ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ४०।।

ध्याता ते हि हृदये ते समाधि-र्ध्यानं ते हि हृदये बहिः प्रदेशः

ध्येयं चेति हृदये हि वस्तु कालो ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ४१।।

यत्सारभूतमखिलं कथितं मया ते न त्वं मे महतो गुरुर्न शिष्यः

स्वच्छन्दरूपसहजं परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ४२।।

कथमिह परमार्थं तत्त्वमानन्दरूपं कथमिह परमार्थं नैवमानन्दरूपम्

कथमिह परमार्थं ज्ञानविज्ञानरूपं यदि परमहमेकं वर्तते व्योमरूपम् ।। ४३।।

दहनपवनहीनं विद्धि विज्ञानमेक-मवनिजलविहीनं विद्धि विज्ञानरूपम्

समगमनविहीनं विद्धि विज्ञानमेकं गगनमिव विशालं विद्धि विज्ञानमेकम् ।। ४४।।

शून्यरूपं विशून्यरूपं न शुद्धरूपं विशुद्धरूपम्

रूपं विरूपं भवामि किञ्चित् स्वरूपरूपं परमार्थतत्त्वम् ।। ४५।।

मुञ्च मुञ्च हि संसारं त्यागं मुञ्च हि सर्वथा

त्यागात्यागविषं शुद्धममृतं सहजं ध्रुवम् ।। ४६।।

 


अथ चतुर्थोऽध्यायः

 

नावाहनं नैव विसर्जनं वा पुष्पाणि पत्राणि कथं भवन्ति

ध्यानानि मन्त्राणि कथं भवन्ति समासमं चैव शिवार्चनं ।। १।।

केवलं बन्धविबन्धमुक्तो न केवलं शुद्धविशुद्धमुक्तः

केवलं योगवियोगमुक्तः स वै विमुक्तो गगनोपमोऽहम् ।। २।।

सञ्जायते सर्वमिदं हि तथ्यं सञ्जायते सर्वमिदं वितथ्यम्

एवं विकल्पो मम नैव जातः स्वरूपनिर्वाणमनामयोऽहम् ।। ३।।

साञ्जनं चैव निरञ्जनं वा न चान्तरं वापि निरन्तरं वा

अन्तर्विभन्नं हि मे विभाति स्वरूपनिर्वाणमनामयोऽहम् ।। ४।।

अबोधबोधो मम नैव जातो बोधस्वरूपं मम नैव जातम्

निर्बोधबोधं कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। ५।।

धर्मयुक्तो पापयुक्तो न बन्धयुक्तो मोक्षयुक्तः

युक्तं त्वयुक्तं मे विभाति स्वरूपनिर्वाणमनामयोऽहम् ।। ६।।

परापरं वा मे कदाचित् मध्यस्थभावो हि चारिमित्रम्

हिताहितं चापि कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। ७।।

नोपासको नैवमुपास्यरूपं न चोपदेशो मे क्रिया

संवित्स्वरूपं कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। ८।।

नो व्यापकं व्याप्यमिहास्ति किञ्चित् न चालयं वापि निरालयं वा

अशून्यशून्यं कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। ९।।

ग्राहको ग्राह्यकमेव किञ्चित् न कारणं वा मम नैव कार्यम्

अचिन्त्यचिन्त्यं कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। १०।।

भेदकं वापि चैव भेद्यं न वेदकं वा मम नैव वेद्यम्

गतागतं तात कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। ११।।

चास्ति देहो मे विदेहो बुद्दिर्मनो मे हि चेन्द्रियाणि

रागो विरागश्च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। १२।।

उल्लेखमात्रं हि भिन्नमुच्चै-रुल्लेखमात्रं तिरोहितं वै

समासमं मित्र कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। १३।।

जितेन्द्रियोऽहं त्वजितेन्द्रियो वा न संयमो मे नियमो जातः

जयाजयौ मित्र कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। १४।।

अमूर्तमूर्तिर्न मे कदाचि-दाद्यन्तमध्यं मे कदाचित्

बलाबलं मित्र कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। १५।।

मृतामृतं वापि विषाविषं च सञ्जायते तात मे कदाचित्

अशुद्धशुद्धं कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। १६।।

स्वप्नः प्रबोधो योगमुद्रा नक्तं दिवा वापि मे कदाचित्

अतुर्यतुर्यं कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। १७।।

संविद्धि मां सर्वविसर्वमुक्तं माया विमाया मे कदाचित्

सन्ध्यादिकं कर्म कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। १८।।

संविद्धि मां सर्वसमाधियुक्तं संविद्धि मां लक्ष्यविलक्ष्यमुक्तम्

योगं वियोगं कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। १९।।

मूर्खोऽपि नाहं पण्डितोऽहं मौनं विमौनं मे कदाचित्

तर्कं वितर्कं कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। २०।।

पिता माता कुलं जाति-र्जन्मादि मृत्युर्न मे कदाचित्

स्नेहं विमोहं कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। २१।।

अस्तं गतो नैव सदोदितोऽहं तेजोवितेजो मे कदाचित्

सन्ध्यादिकं कर्म कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। २२।।

असंशयं विद्धि निराकुलं मां असंशयं विद्धि निरन्तरं माम्

असंशयं विद्धि निरञ्जनं मां स्वरूपनिर्वाणमनामयोऽहम् ।। २३।।

ध्यानानि सर्वाणि परित्यजन्ति शुभाशुभं कर्म परित्यजन्ति

त्यागामृतं तात पिबन्ति धीराः स्वरूपनिर्वाणमनामयोऽहम् ।। २४।।

विन्दति विन्दति हि हि यत्र छन्दोलक्षणं हि हि तत्र

समरसमग्नो भावितपूतः प्रलपति तत्त्वं परमवधूतः ।। २५।।

 


अथ पञ्चमोध्यायः

 

इति गदितं गगनसमं तत् न परापरसारविचार इति

अविलासविलासनिराकरणं कथमक्षरबिन्दुसमुच्चरणम् ।। १।।

इति तत्त्वमसिप्रभृतिश्रुतिभिः प्रतिपादितमात्मनि तत्त्वमसि

त्वमुपाधिविवर्जितसर्वसमं किमु रोदिषि मानसि सर्वसमम् ।। २।।

अधऊर्ध्वविवर्जितसर्वसमं बहिरन्तरवर्जितसर्वसमम्

यदि चैकविवर्जितसर्वसमं किमु रोदिषि मानसि सर्वसमम् ।। ३।।

हि कल्पितकल्पविचार इति न हि कारणकार्यविचार इति

पदसन्धिविवर्जितसर्वसमं किमु रोदिषि मानसि सर्वसमम् ।। ४।।

हि बोधविबोधसमाधिरिति न हि देशविदेशसमाधिरिति

हि कालविकालसमाधिरिति किमु रोदिषि मानसि सर्वसमम् ।। ५।।

हि कुम्भनभो हि कुम्भ इति न हि जीववपुर्न हि जीव इति

हि कारणकार्यविभाग इति किमु रोदिषि मानसि सर्वसमम् ।। ६।।

इह सर्वनिरन्तरमोक्षपदं लघुदीर्घविचारविहीन इति

हि वर्तुलकोणविभाग इति किमु रोदिषि मानसि सर्वसमम् ।। ७।।

इह शून्यविशून्यविहीन इति इह शुद्धविशुद्धविहीन इति

इह सर्वविसर्वविहीन इति किमु रोदिषि मानसि सर्वसमम् ।। ८।।

हि भिन्नविभिन्नविचार इति बहिरन्तरसन्धिविचार इति

अरिमित्रविवर्जितसर्वसमं किमु रोदिषि मानसि सर्वसमम् ।। ९।।

हि शिष्यविशिष्यस्वरूपैति न चराचरभेदविचार इति

इह सर्वनिरन्तरमोक्षपदं किमु रोदिषि मानसि सर्वसमम् ।। १०।।

ननु रूपविरूपविहीन इति ननु भिन्नविभिन्नविहीन इति

ननु सर्गविसर्गविहीन इति किमु रोदिषि मानसि सर्वसमम् ।। ११।।

गुणागुणपाशनिबन्ध इति मृतजीवनकर्म करोमि कथम्

इति शुद्धनिरञ्जनसर्वसमं किमु रोदिषि मानसि सर्वसमम् ।। १२।।

इह भावविभावविहीन इति इह कामविकामविहीन इति

इह बोधतमं खलु मोक्षसमं किमु रोदिषि मानसि सर्वसमम् ।। १३।।

इह तत्त्वनिरन्तरतत्त्वमिति न हि सन्धिविसन्धिविहीन इति

यदि सर्वविवर्जितसर्वसमं किमु रोदिषि मानसि सर्वसमम् ।। १४।।

अनिकेतकुटी परिवारसमं इहसङ्गविसङ्गविहीनपरम्

इह बोधविबोधविहीनपरं किमु रोदिषि मानसि सर्वसमम् ।। १५।।

अविकारविकारमसत्यमिति अविलक्षविलक्षमसत्यमिति

यदि केवलमात्मनि सत्यमिति किमु रोदिषि मानसि सर्वसमम् ।। १६।।

इह सर्वसमं खलु जीव इति इह सर्वनिरन्तरजीव इति

इह केवलनिश्चलजीव इति किमु रोदिषि मानसि सर्वसमम् ।। १७।।

अविवेकविवेकमबोध इति अविकल्पविकल्पमबोध इति

यदि चैकनिरन्तरबोध इति किमु रोदिषि मानसि सर्वसमम् ।। १८।।

हि मोक्षपदं हि बन्धपदं न हि पुण्यपदं हि पापपदम्

हि पूर्णपदं हि रिक्तपदं किमु रोदिषि मानसि सर्वसमम् ।। १९।।

यदि वर्णविवर्णविहीनसमं यदि कारणकार्यविहीनसमम्

यदिभेदविभेदविहीनसमं किमु रोदिषि मानसि सर्वसमम् ।। २०।।

इह सर्वनिरन्तरसर्वचिते इह केवलनिश्चलसर्वचिते

द्विपदादिविवर्जितसर्वचिते किमु रोदिषि मानसि सर्वसमम् ।। २१।।

अतिसर्वनिरन्तरसर्वगतं अतिनिर्मलनिश्चलसर्वगतम्

दिनरात्रिविवर्जितसर्वगतं किमु रोदिषि मानसि सर्वसमम् ।। २२।।

हि बन्धविबन्धसमागमनं न हि योगवियोगसमागमनम्

हि तर्कवितर्कसमागमनं किमु रोदिषि मानसि सर्वसमम् ।। २३।।

इह कालविकालनिराकरणं अणुमात्रकृशानुनिराकरणम्

हि केवलसत्यनिराकरणं किमु रोदिषि मानसि सर्वसमम् ।। २४।।

इह देहविदेहविहीन इति ननु स्वप्नसुषुप्तिविहीनपरम्

अभिधानविधानविहीनपरं किमु रोदिषि मानसि सर्वसमम् ।। २५।।

गगनोपमशुद्धविशालसमं अतिसर्वविवर्जितसर्वसमम्

गतसारविसारविकारसमं किमु रोदिषि मानसि सर्वसमम् ।। २६।।

इह धर्मविधर्मविरागतर-मिह वस्तुविवस्तुविरागतरम्

इह कामविकामविरागतरं किमु रोदिषि मानसि सर्वसमम् ।। २७।।

सुखदुःखविवर्जितसर्वसम-मिह शोकविशोकविहीनपरम्

गुरुशिष्यविवर्जिततत्त्वपरं किमु रोदिषि मानसि सर्वसमम् ।। २८।।

किलाङ्कुरसारविसार इति न चलाचलसाम्यविसाम्यमिति

अविचारविचारविहीनमिति किमु रोदिषि मानसि सर्वसमम् ।। २९।।

इह सारसमुच्चयसारमिति । कथितं निजभावविभेद इति

विषये करणत्वमसत्यमिति किमु रोदिषि मानसि सर्वसमम् ।। ३०।।

बहुधा श्रुतयः प्रवदन्ति यतो वियदादिरिदं मृगतोयसमम्

यदि चैकनिरन्तरसर्वसमं किमु रोदिषि मानसि सर्वसमम् ।। ३१।।

विन्दति विन्दति हि हि यत्र छन्दोलक्षणं हि हि तत्र

समरसमग्नो भावितपूतः प्रलपति तत्त्वं परमवधूतः ।। ३२।।

 

अथ षष्ठमोऽध्यायः

 

बहुधा श्रुतयः प्रवदन्ति वयं वियदादिरिदं मृगतोयसमम्

यदि चैकनिरन्तरसर्वशिव-मुपमेयमथोह्युपमा कथम् ।। १।।

अविभक्तिविभक्तिविहीनपरं ननु कार्यविकार्यविहीनपरम्

यदि चैकनिरन्तरसर्वशिवं यजनं कथं तपनं कथम् ।। २।।

मन एव निरन्तरसर्वगतं ह्यविशालविशालविहीनपरम्

मन एव निरन्तरसर्वशिवं मनसापि कथं वचसा कथम् ।। ३।।

दिनरात्रिविभेदनिराकरण-मुदितानुदितस्य निराकरणम्

यदि चैकनिरन्तरसर्वशिवं रविचन्द्रमसौ ज्वलनश्च कथम् ।। ४।।

गतकामविकामविभेद इति गतचेष्टविचेष्टविभेद इति

यदि चैकनिरन्तरसर्वशिवं बहिरन्तरभिन्नमतिश्च कथम् ।। ५।।

यदि सारविसारविहीन इति यदि शून्यविशून्यविहीन इति

यदि चैकनिरन्तरसर्वशिवं प्रथमं कथं चरमं कथम् ।। ६।।

यदिभेदविभेदनिराकरणं यदि वेदकवेद्यनिराकरणम्

यदि चैकनिरन्तरसर्वशिवं तृतीयं कथं तुरीयं कथम् ।। ७।।

गदिताविदितं हि सत्यमिति विदिताविदितं नहि सत्यमिति

यदि चैकनिरन्तरसर्वशिवं विषयेन्द्रियबुद्धिमनांसि कथम् ।। ८।।

गगनं पवनो हि सत्यमिति धरणी दहनो हि सत्यमिति

यदि चैकनिरन्तरसर्वशिवं जलदश्च कथं सलिलं कथम् ।। ९।।

यदि कल्पितलोकनिराकरणं यदि कल्पितदेवनिराकरणम्

यदि चैकनिरन्तरसर्वशिवं गुणदोषविचारमतिश्च कथम् ।। १०।।

मरणामरणं हि निराकरणं करणाकरणं हि निराकरणम्

यदि चैकनिरन्तरसर्वशिवं गमनागमनं हि कथं वदति ।। ११।।

प्रकृतिः पुरुषो हि भेद इति न हि कारणकार्यविभेद इति

यदि चैकनिरन्तरसर्वशिवं पुरुषापुरुषं कथं वदति ।। १२।।

तृतीयं हि दुःखसमागमनं न गुणाद्द्वितीयस्य समागमनम्

यदि चैकनिरन्तरसर्वशिवं स्थविरश्च युवा शिशुश्च कथम् ।। १३।।

ननु आश्रमवर्णविहीनपरं ननु कारणकर्तृविहीनपरम्

यदि चैकनिरन्तरसर्वशिव-मविनष्टविनष्टमतिश्च कथम् ।। १४।।

ग्रसिताग्रसितं वितथ्यमिति जनिताजनितं वितथ्यमिति

यदि चैकनिरन्तरसर्वशिव-मविनाशि विनाशि कथं हि भवेत् ।। १५।।

पुरुषापुरुषस्य विनष्टमिति वनितावनितस्य विनष्टमिति

यदि चैकनिरन्तरसर्वशिव-मविनोदविनोदमतिश्च कथम् ।। १६।।

यदि मोहविषादविहीनपरो यदि संशयशोकविहीनपरः

यदि चैकनिरन्तरसर्वशिव-महमेति ममेति कथं पुनः ।। १७।।

ननु धर्मविधर्मविनाश इति ननु बन्धविबन्धविनाश इति

यदि चैकनिरन्तरसर्वशिवं-मिहदुःखविदुःखमतिश्च कथम् ।। १८।।

हि याज्ञिकयज्ञविभाग इति न हुताशनवस्तुविभाग इति

यदि चैकनिरन्तरसर्वशिवं वद कर्मफलानि भवन्ति कथम् ।। १९।।

ननु शोकविशोकविमुक्त इति ननु दर्पविदर्पविमुक्त इति

यदि चैकनिरन्तरसर्वशिवं ननु रागविरागमतिश्च कथम् ।। २०।।

हि मोहविमोहविकार इति न हि लोभविलोभविकार इति

यदि चैकनिरन्तरसर्वशिवं ह्यविवेकविवेकमतिश्च कथम् ।। २१।।

त्वमहं हि हन्त कदाचिदपि कुलजातिविचारमसत्यमिति

अहमेव शिवः परमार्थ इति अभिवादनमत्र करोमि कथम् ।। २२।।

गुरुशिष्यविचारविशीर्ण इति उपदेशविचारविशीर्ण इति

अहमेव शिवः परमार्थ इति अभिवादनमत्र करोमि कथम् ।। २३।।

हि कल्पितदेहविभाग इति न हि कल्पितलोकविभाग इति

अहमेव शिवः परमार्थ इति अभिवादनमत्र करोमि कथम् ।। २४।।

सरजो विरजो कदाचिदपि ननु निर्मलनिश्चलशुद्ध इति

अहमेव शिवः परमार्थ इति अभिवादनमत्र करोमि कथम् ।। २५।।

हि देहविदेहविकल्प इति अनृतं चरितं हि सत्यमिति

अहमेव शिवः परमार्थ इति अभिवादनमत्र करोमि कथम् ।। २६।।

विन्दति विन्दति हि हि यत्र छन्दोलक्षणं हि हि तत्र

समरसमग्नो भावितपूतः प्रलपति तत्त्वं परमवधूतः ।। २७।।

 


अथ सप्तमोऽध्यायः

 

रथ्याकर्पटविरचितकन्थः पुण्यापुण्यविवर्जितपन्थः

शून्यागारे तिष्ठति नग्नो शुद्धनिरञ्जनसमरसमग्नः ।। १।।

लक्ष्यालक्ष्यविवर्जितलक्ष्यो युक्तायुक्तविवर्जितदक्षः

केवलतत्त्वनिरञ्जनपूतो वादविवादः कथमवधूतः ।। २।।

आशापाशविबन्धनमुक्ताः शौचाचारविवर्जितयुक्ताः

एवं सर्वविवर्जितशान्त-स्तत्त्वं शुद्धनिरञ्जनवन्तः ।। ३।।

कथमिह देहविदेहविचारः कथमिह रागविरागविचारः

निर्मलनिश्चलगगनाकारं स्वयमिह तत्त्वं सहजाकारम् ।। ४।।

कथमिह तत्त्वं विन्दति यत्र रूपमरूपं कथमिह तत्र

गगनाकारः परमो यत्र विषयीकरणं कथमिह तत्र ।। ५।।

गगनाकारनिरन्तरहंस-स्तत्त्वविशुद्धनिरञ्जनहंसः

एवं कथमिह भिन्नविभिन्नं बन्धविबन्धविकारविभिन्नम् ।। ६।।

केवलतत्त्वनिरन्तरसर्वं योगवियोगौ कथमिह गर्वम्

एवं परमनिरन्तरसर्व-मेवं कथमिह सारविसारम् ।। ७।।

केवलतत्त्वनिरञ्जनसर्वं गगनाकारनिरन्तरशुद्धम्

एवं कथमिह सङ्गविसङ्गं सत्यं कथमिह रङ्गविरङ्गम् ।। ८।।

योगवियोगै रहितो योगी भोगविभोगै रहितो भोगी

एवं चरति हि मन्दं मन्दं मनसा कल्पितसहजानन्दम् ।। ९।।

बोधविबोधैः सततं युक्तो द्वैताद्वैतैः कथमिह मुक्तः

सहजो विरजः कथमिह योगी शुद्धनिरञ्जनसमरसभोगी ।। १०।।

भग्नाभग्नविवर्जितभग्नो लग्नालग्नविवर्जितलग्नः

एवं कथमिह सारविसारः समरसतत्त्वं गगनाकारः ।। ११।।

सततं सर्वविवर्जितयुक्तः सर्वं तत्त्वविवर्जितमुक्तः

एवं कथमिह जीवितमरणं ध्यानाध्यानैः कथमिह करणम् ।। १२।।

इन्द्रजालमिदं सर्वं यथा मरुमरीचिका

अखण्डितमनाकारो वर्तते केवलः शिवः ।। १३।।

धर्मादौ मोक्षपर्यन्तं निरीहाः सर्वथा वयम्

कथं रागविरागैश्च कल्पयन्ति विपश्चितः ।। १४।।

विन्दति विन्दति हि हि यत्र छन्दोलक्षणं हि हि तत्र

समरसमग्नो भावितपूतः प्रलपति तत्त्वं परमवधूतः ।। १५।।

 


अथ अष्टमोऽध्यायः

 

त्वद्यात्रया व्यापकता हता ते ध्यानेन चेतःपरता हता ते

स्तुत्या मया वाक्परता हता ते क्षमस्व नित्यं त्रिविधापराधान् ।। १।।

कामैरहतधीर्दान्तो मृदुः शुचिरकिञ्चनः

अनीहो मितभुक् शान्तः स्थिरो मच्छरणो मुनिः ।। २।।

अप्रमत्तो गभीरात्मा धृतिमान् जितषड्गुणः

अमानी मानदः कल्पो मैत्रः कारुणिकः कविः ।। ३।।

कृपालुरकृतद्रोहस्तितिक्षुः सर्वदेहिनाम्

सत्यसारोऽनवद्यात्मा समः सर्वोपकारकः ।। ४।।

अवधूतलक्षणं वर्णैर्ज्ञातव्यं भगवत्तमैः

वेदवर्णार्थतत्त्वज्ञैर्वेदवेदान्तवादिभिः ।। ५।।

आशापाशविनिर्मुक्त आदिमध्यान्तनिर्मलः

आनन्दे वर्तते नित्यमकारं तस्य लक्षणम् ।। ६।।

वासना वर्जिता येन वक्तव्यं निरामयम्

वर्तमानेषु वर्तेत वकारं तस्य लक्षणम् ।। ७।।

धूलिधूसरगात्राणि धूतचित्तो निरामयः

धारणाध्याननिर्मुक्तो धूकारस्तस्य लक्षणम् ।। ८।।

तत्त्वचिन्ता धृता येन चिन्ताचेष्टाविवर्जितः

तमोऽहंकारनिर्मुक्तस्तकारस्तस्य लक्षणम् ।। ९।।

दत्तात्रेयावधूतेन निर्मितानन्दरूपिणा

ये पठन्ति शृण्वन्ति तेषां नैव पुनर्भवः ।। १०।।

 

 

1 2 3 4 5 6 7 8

 

 

avadhūta gītā

 

atha prathamo ̕dhyāyaḥ

 

īśvarānugrahādeva puṃsāmadvaitavāsanā

mahadbhayaparitrāṇādviprāṇāmupajāyate ।। 1।।

yenedaṃ pūritaṃ sarvamātmanaivāatmanātmani

nirākāraṃ kathaṃ vande hyabhinnaṃ śivamavyayam ।। 2।।

pañcabhūtātmakaṃ viśvaṃ marīcijalasannibham

kasyāpyaho namaskuryāmahameko nirañjanaḥ ।। 3।।

ātmaiva kevalaṃ sarvaṃ bhedābhedo na vidyate

asti nāsti kathaṃ brūyāṃ vismayaḥ pratibhāti me ।। 4।।

vedāntasārasarvasvaṃ jñānaṃ vijñānameva ca

ahamātmā nirākāraḥ sarvavyāpī svabhāvataḥ ।। 5।।

yo vai sarvātmako devo niṣkalo gaganopamaḥ

svabhāvanirmalaḥ śuddhaḥ sa evāyaṃ na saṃśayaḥ ।। 6।।

ahamevāvyayo ̕nantaḥ śuddhavijñānavigrahaḥ

sukhaṃ duḥkhaṃ na jānāmi kathaṃ kasyāpi vartate ।। 7।।

na mānasaṃ karma śubhāśubhaṃ me na kāyikaṃ karma śubhāśubhaṃ me

na vācikaṃ karma śubhāśubhaṃ me jñānāmṛtaṃ śuddhamatīndriyo ̕ham ।। 8।।

mano vai gaganākāraṃ mano vai sarvatomukham

mano ̕tītaṃ manaḥ sarvaṃ na manaḥ paramārthataḥ ।। 9।।

ahamekamidaṃ sarvaṃ vyomātītaṃ nirantaram

paśyāmi kathamātmānaṃ pratyakṣaṃ vā tirohitam ।। 10।।

tvamevamekaṃ hi kathaṃ na budhyase samaṃ hi sarveṣu vimṛṣṭamavyayam

sadodito ̕si tvamakhaṇḍitaḥ prabho divā ca naktaṃ ca kathaṃ hi manyase ।। 11।।

ātmānaṃ satataṃ viddhi sarvatraikaṃ nirantaram

ahaṃ dhyātā paraṃ dhyeyamakhaṇḍaṃ khaṇḍyate katham ।। 12।।

na jāto na mṛto ̕si tvaṃ na te dehaḥ kadācana

sarvaṃ brahmeti vikhyātaṃ bravīti bahudhā śrutiḥ ।। 13।।

sa bāhyābhyantaro ̕si tvaṃ śivaḥ sarvatra sarvadā

itastataḥ kathaṃ bhrāntaḥ pradhāvasi piśācavat ।। 14।।

saṃyogaśca viyogaśca vartate na ca te na me

na tvaṃ nāhaṃ jagannedaṃ sarvamātmaiva kevalam ।। 15।।

śabdādipañcakasyāsya naivāsi tvaṃ na te punaḥ

tvameva paramaṃ tattvamataḥ kiṃ paritapyase ।। 16।।

janma mṛtyurna te cittaṃ bandhamokṣau śubhāśubhau

kathaṃ rodiṣi re vatsa nāmarūpaṃ na te na me ।। 17।।

aho citta kathaṃ bhrāntaḥ pradhāvasi piśācavat

abhinnaṃ paśya cātmānaṃ rāgatyāgātsukhī bhava ।। 18।।

tvameva tattvaṃ hi vikāravarjitaṃ niṣkampamekaṃ hi vimokṣavigraham

na te ca rāgo hyathavā virāgaḥ kathaṃ hi santapyasi kāmakāmataḥ ।। 19।।

vadanti śrutayaḥ sarvāḥ nirguṇaṃ śuddhamavyayam

aśarīraṃ samaṃ tattvaṃ tanmāṃ viddhi na saṃśayaḥ ।। 20।।

sākāramanṛtaṃ viddhi nirākāraṃ nirantaram

etattattvopadeśena na punarbhavasambhavaḥ ।। 21।।

ekameva samaṃ tattvaṃ vadanti hi vipaścitaḥ

rāgatyāgātpunaścittamekānekaṃ na vidyate ।। 22।।

anātmarūpaṃ ca kathaṃ samādhi rātmasvarūpaṃ ca kathaṃ samādhiḥ

astīti nāstīti kathaṃ samādhi rmokṣasvarūpaṃ yadi sarvamekam ।। 23।।

viśuddho ̕si samaṃ tattvaṃ videhastvamajo ̕vyayaḥ

jānāmīha na jānāmītyātmānaṃ manyase katham ।। 24।।

tattvamasyādivākyena svātmā hi pratipāditaḥ

neti neti śrutirbrūyādanṛtaṃ pāñcabhautikam ।। 25।।

ātmanyevātmanā sarvaṃ tvayā pūrṇaṃ nirantaram

dhyātā dhyānaṃ na te cittaṃ nirlajjaṃ dhyāyate katham ।। 26।।

śivaṃ na jānāmi kathaṃ vadāmi śivaṃ na jānāmi kathaṃ bhajāmi

ahaṃ śivaścetparamārthathatattvaṃ samasvarūpaṃ gaganopamaṃ ca ।। 27।।

nāhaṃ tattvaṃ samaṃ tattvaṃ kalpanāhetuvarjitam

grāhyagrāhakanirmuktaṃ svasaṃvedyaṃ kathaṃ bhavet ।। 28।।

anantarūpaṃ na hi vastu kiṃci- ttattvasvarūpaṃ na hi vastu kiṃcit

ātmaikarūpaṃ paramārthatattvaṃ na hiṃsako vāpi na cāpyahiṃsā ।। 29।।

viśuddho ̕si samaṃ tattvaṃ videhamajamavyayam

vibhramaṃ kathamātmārthe vibhrānto ̕haṃ kathaṃ punaḥ ।। 30।।

ghaṭe bhinne ghaṭākāśaṃ sulīnaṃ bhedavarjitam

śivena manasā śuddho na bhedaḥ pratibhāti me ।। 31।।

na ghaṭo na ghaṭākāśo na jīvo na jīvavigrahaḥ

kevalaṃ brahma saṃviddhi vedyavedakavarjitam ।। 32।।

sarvatra sarvadā sarvamātmānaṃ satataṃ dhruvam

sarvaṃ śūnyamaśūnyaṃ ca tanmāṃ viddhi na saṃśayaḥ ।। 33।।

vedā na lokā na surā na yajñā varṇāśramo naiva kulaṃ na jātiḥ

na dhūmamārgo na ca dīptimārgo brahmaikarūpaṃ paramārthatattvam ।। 34।।

vyāpyavyāpakanirmuktaḥ tvamekaḥ saphalaṃ yadi

pratyakṣaṃ cāparokṣaṃ ca hyātmānaṃ manyase katham ।। 35।।

advaitaṃ kecidicchanti dvaitamicchanti cāpare

samaṃ tattvaṃ na vindanti dvaitādvaitavivarjitam ।। 36।।

śvetādivarṇarahitaṃ śabdādiguṇavarjitam

kathayanti kathaṃ tattvaṃ manovācāmagocaram ।। 37।।

yadā ̕nṛtamidaṃ sarvaṃ dehādigaganopamam

tadā hi brahma saṃvetti na te dvaitaparamparā ।। 38।।

pareṇa sahajātmāpi hyabhinnaḥ pratibhāti me

vyomākāraṃ tathaivaikaṃ dhyātā dhyānaṃ kathaṃ bhavet ।। 39।।

yatkaromi yadaśnāmi yajjuhomi dadāmi yat

etatsarvaṃ na me kiṃcidviśuddho ̕hamajo ̕vyayaḥ ।। 40।।

sarvaṃ jagadviddhi nirākṛtīdaṃ sarvaṃ jagadviddhi vikārahīnam

sarvaṃ jagadviddhi viśuddhadehaṃ sarvaṃ jagadviddhi śivaikarūpam ।। 41।।

tattvaṃ tvaṃ na hi sandehaḥ kiṃ jānāmyathavā punaḥ

asaṃvedyaṃ svasaṃvedyamātmānaṃ manyase katham ।। 42।।

māyā ̕māyā kathaṃ tāta chāyā ̕chāyā na vidyate

tattvamekamidaṃ sarvaṃ vyomākāraṃ nirañjanam ।। 43।।

ādimadhyāntamukto ̕haṃ na baddho ̕haṃ kadācana

svabhāvanirmalaḥ śuddha iti me niścitā matiḥ ।। 44।।

mahadādi jagatsarvaṃ na kiṃcitpratibhāti me

brahmaiva kevalaṃ sarvaṃ kathaṃ varṇāśramasthitiḥ ।। 45।।

jānāmi sarvathā sarvamahameko nirantaram

nirālambamaśūnyaṃ ca śūnyaṃ vyomādipañcakam ।। 46।।

na ṣaṇḍho na pumānna strī na bodho naiva kalpanā

sānando vā nirānandamātmānaṃ manyase katham ।। 47।।

ṣaḍaṅgayogānna tu naiva śuddhaṃ manovināśānna tu naiva śuddham

gurūpadeśānna tu naiva śuddhaṃ svayaṃ ca tattvaṃ svayameva buddham ।। 48।।

na hi pañcātmako deho videho vartate na hi

ātmaiva kevalaṃ sarvaṃ turīyaṃ ca trayaṃ katham ।। 49।।

na baddho naiva mukto ̕haṃ na cāhaṃ brahmaṇaḥ pṛthak

na kartā na ca bhoktāhaṃ vyāpyavyāpakavarjitaḥ ।। 50।।

yathā jalaṃ jale nyastaṃ salilaṃ bhedavarjitam

prakṛtiṃ puruṣaṃ tadvadabhinnaṃ pratibhāti me ।। 51।।

yadi nāma na mukto ̕si na baddho ̕si kadācana

sākāraṃ ca nirākāramātmānaṃ manyase katham ।। 52।।

jānāmi te paraṃ rūpaṃ pratyakṣaṃ gaganopamam

yathā paraṃ hi rūpaṃ yanmarīcijalasannibham ।। 53।।

na gururnopadeśaśca na copādhirna me kriyā

videhaṃ gaganaṃ viddhi viśuddho ̕haṃ svabhāvataḥ ।। 54।।

viśuddho ̕sya śarīro ̕si na te cittaṃ parātparam

ahaṃ cātmā paraṃ tattvamiti vaktuṃ na lajjase ।। 55।।

kathaṃ rodiṣi re citta hyātmaivātmātmanā bhava

piba vatsa kalātītamadvaitaṃ paramāmṛtam ।। 56।।

naiva bodho na cābodho na bodhābodha eva ca

yasyedṛśaḥ sadā bodhaḥ sa bodho nānyathā bhavet ।। 57।।

jñānaṃ na tarko na samādhiyogo na deśakālau na gurūpadeśaḥ

svabhāvasaṃvittarahaṃ ca tattv- mākāśakalpaṃ sahajaṃ dhruvaṃ ca ।। 58।।

na jāto ̕haṃ mṛto vāpi na me karma śubhāśubham

viśuddhaṃ nirguṇaṃ brahma bandho muktiḥ kathaṃ mama ।। 59।।

yadi sarvagato devaḥ sthiraḥ pūrṇo nirantaraḥ

antaraṃ hi na paśyāmi sa bāhyābhyantaraḥ katham ।। 60।।

sphuratyeva jagatkṛtsnamakhaṇḍitanirantaram

aho māyāmahāmoho dvaitādvaitavikalpanā ।। 61।।

sākāraṃ ca nirākāraṃ neti netīti sarvadā

bhedābhedavinirmukto vartate kevalaḥ śivaḥ ।। 62।।

na te ca mātā ca pitā ca bandhuḥ na te ca patnī na sutaśca mitram

na pakṣapātī na vipakṣapātaḥ kathaṃ hi saṃtaptiriyaṃ hi citte ।। 63।।

divā naktaṃ na te cittaṃ udayāstamayau na hi

videhasya śarīratvaṃ kalpayanti kathaṃ budhāḥ ।। 64।।

nāvibhaktaṃ vibhaktaṃ ca na hi duḥkhasukhādi ca

na hi sarvamasarvaṃ ca viddhi cātmānamavyayam ।। 65।।

nāhaṃ kartā na bhoktā ca na me karma purā ̕dhunā

na me deho videho vā nirmameti mameti kim ।। 66।।

na me rāgādiko doṣo duḥkhaṃ dehādikaṃ na me

ātmānaṃ viddhi māmekaṃ viśālaṃ gaganopamam ।। 67।।

sakhe manaḥ kiṃ bahujalpitena sakhe manaḥ sarvamidaṃ vitarkyam

yatsārabhūtaṃ kathitaṃ mayā te tvameva tattvaṃ gaganopamo ̕si ।। 68।।

yena kenāpi bhāvena yatra kutra mṛtā api

yoginastatra līyante ghaṭākāśamivāmbare ।। 69।।

tīrthe cāntyajagehe vā naṣṭasmṛtirapi tyajan

samakāle tanuṃ muktaḥ kaivalyavyāpako bhavet ।। 70।।

dharmārthakāmamokṣāṃśca dvipadādicarācaram

manyante yoginaḥ sarvaṃ marīcijalasannibham ।। 71।।

atītānāgataṃ karma vartamānaṃ tathaiva ca

na karomi na bhuñjāmi iti me niścalā matiḥ ।। 72।।

śūnyāgāre samarasapūt- stiṣṭhannekaḥ sukhamavadhūtaḥ

carati hi nagnastyaktvā garvaṃ vindati kevalamātmani sarvam ।। 73।।

tritayaturīyaṃ nahi nahi yatra vindati kevalamātmani tatra

dharmādharmau nahi nahi yatra baddho muktaḥ kathamiha tatra ।। 74।।

vindati vindati nahi nahi mantraṃ chandolakṣaṇaṃ nahi nahi tantram

samarasamagno bhāvitapūtaḥ pralapitametatparamavadhūtaḥ ।। 75।।

sarvaśūnyamaśūnyaṃ ca satyāsatyaṃ na vidyate

svabhāvabhāvataḥ proktaṃ śāstrasaṃvittipūrvakam ।। 76।।

 

atha dvitīyo ̕dhyāyaḥ

 

bālasya vā viṣayabhogaratasya vāpi mūrkhasya sevakajanasya gṛhasthitasya

etadguroḥ kimapi naiva na cintanīyaṃ ratnaṃ kathaṃ tyajati ko ̕pyaśucau praviṣṭam ।। 1।।

naivātra kāvyaguṇa eva tu cintanīyo grāhyaḥ paraṃ guṇavatā khalu sāra eva

sindūracitrarahitā bhuvi rūpaśūnyā pāraṃ na kiṃ nayati nauriha gantukāmān ।। 2।।

prayatnena vinā yena niścalena calācalam

grastaṃ svabhāvataḥ śāntaṃ caitanyaṃ gaganopamam ।। 3।।

ayatnāchālayedyastu ekameva carācaram

sarvagaṃ tatkathaṃ bhinnamadvaitaṃ vartate mama ।। 4।।

ahameva paraṃ yasmātsārātsārataraṃ śivam

gamāgamavinirmuktaṃ nirvikalpaṃ nirākulam ।। 5।।

sarvāvayavanirmuktaṃ tathāhaṃ tridaśārcitam

saṃpūrṇatvānna gṛhṇāmi vibhāgaṃ tridaśādikam ।। 6।।

pramādena na sandehaḥ kiṃ kariṣyāmi vṛttimān

utpadyante vilīyante budbudāśca yathā jale ।। 7।।

mahadādīni bhūtāni samāpyaivaṃ sadaiva hi

mṛdudravyeṣu tīkṣṇeṣu guḍeṣu kaṭukeṣu ca ।। 8।।

kaṭutvaṃ caiva śaityatvaṃ mṛdutvaṃ ca yathā jale

prakṛtiḥ puruṣastadvadabhinnaṃ pratibhāti me ।। 9।।

sarvākhyārahitaṃ yadyatsūkṣmātsūkṣmataraṃ param

manobuddhīndriyātītamakalaṅkaṃ jagatpatim ।। 10।।

īdṛśaṃ sahajaṃ yatra ahaṃ tatra kathaṃ bhavet

tvameva hi kathaṃ tatra kathaṃ tatra carācaram ।। 11।।

gaganopamaṃ tu yatproktaṃ tadeva gaganopamam

caitanyaṃ doṣahīnaṃ ca sarvajñaṃ pūrṇameva ca ।। 12।।

pṛthivyāṃ caritaṃ naiva mārutena ca vāhitam

variṇā pihitaṃ naiva tejomadhye vyavasthitam ।। 13।।

ākāśaṃ tena saṃvyāptaṃ na tadvyāptaṃ ca kenacit

sa bāhyābhyantaraṃ tiṣṭhatyavacchinnaṃ nirantaram ।। 14।।

sūkṣmatvāttadadṛśyatvānnirguṇatvācca yogibhiḥ

ālambanādi yatproktaṃ kramādālambanaṃ bhavet ।। 15।।

satatā ̕bhyāsayuktastu nirālambo yadā bhavet

tallayāllīyate nāntarguṇadoṣavivarjitaḥ ।। 16।।

viṣaviśvasya raudrasya mohamūrcchāpradasya ca

ekameva vināśāya hyamoghaṃ sahajāmṛtam ।। 17।।

bhāvagamyaṃ nirākāraṃ sākāraṃ dṛṣṭigocaram

bhāvābhāvavinirmuktamantarālaṃ taducyate ।। 18।।

bāhyabhāvaṃ bhavedviśvamantaḥ prakṛtirucyate

antarādantaraṃ jñeyaṃ nārikelaphalāmbuvat ।। 19।।

bhrāntijñānaṃ sthitaṃ bāhyaṃ samyagjñānaṃ ca madhyagam

madhyānmadhyataraṃ jñeyaṃ nārikelaphalāmbuvat ।। 20।।

paurṇamāsyāṃ yathā candra eka evātinirmalaḥ

tena tatsadṛśaṃ paśyeddvidhādṛṣṭirviparyayaḥ ।। 21।।

anenaiva prakāreṇa buddhibhedo na sarvagaḥ

dātā ca dhīratāmeti gīyate nāmakoṭibhiḥ ।। 22।।

guruprajñāprasādena mūrkho vā yadi paṇḍitaḥ

yastu saṃbudhyate tattvaṃ virakto bhavasāgarāt ।। 23।।

rāgadveṣavinirmuktaḥ sarvabhūtahite rataḥ

dṛḍhabodhaśca dhīraśca sa gacchetparamaṃ padam ।। 24।।

ghaṭe bhinne ghaṭākāśa ākāśe līyate yathā

dehābhāve tathā yogī svarūpe paramātmani ।। 25।।

ukteyaṃ karmayuktānāṃ matiryānte ̕pi sā gatiḥ

na coktā yogayuktānāṃ matiryānte ̕pi sā gatiḥ ।। 26।।

yā gatiḥ karmayuktānāṃ sā ca vāgindriyādvadet

yogināṃ yā gatiḥ kvāpi hyakathyā bhavatorjitā ।। 27।।

evaṃ jñātvā tvamuṃ mārgaṃ yogināṃ naiva kalpitam

vikalpavarjanaṃ teṣāṃ svayaṃ siddhiḥ pravartate ।। 28।।

tīrthe vāntyajagehe vā yatra kutra mṛto ̕pi vā

na yogī paśyate garbhaṃ pare brahmaṇi līyate ।। 29।।

sahajamajamacintyaṃ yastu paśyetsvarūpaṃ ghaṭati yadi yatheṣṭaṃ lipyate naiva doṣaiḥ

sakṛdapi tadabhāvātkarma kiṃcinnakuryāt tadapi na ca vibaddhaḥ saṃyamī vā tapasvī ।। 30।।

nirāmayaṃ niṣpratimaṃ nirākṛtiṃ nirāśrayaṃ nirvapuṣaṃ nirāśiṣam

nirdvandvanirmohamaluptaśaktikaṃ tamīśamātmānamupaiti śāśvatam ।। 31।।

vedo na dīkṣā na ca muṇḍanakriyā gururna śiṣyo na ca yantrasampadaḥ

mudrādikaṃ cāpi na yatra bhāsate tamīśamātmānamupaiti śāśvatam ।। 32।।

na śāmbhavaṃ śāktikamānavaṃ na vā piṇḍaṃ ca rūpaṃ ca padādikaṃ na vā

ārambhaniṣpattighaṭādikaṃ ca no tamīśamātmānamupaiti śāśvatam ।। 33।।

yasya svarūpātsacarācaraṃ jag-dutpadyate tiṣṭhati līyate ̕pi vā

payovikārādiva phenabudbudā-stamīśamātmānamupaiti śāśvatam ।। 34।।

nāsānirodho na ca dṛṣṭirāsanaṃ bodho ̕pyabodho ̕pi na yatra bhāsate

nāḍīpracāro ̕pi na yatra kiñci-ttamīśamātmānamupaiti śāśvatam ।। 35।।

nānātvamekatvamubhatvamanyatā aṇutvadīrghatvamahattvaśūnyatā

mānatvameyatvasamatvavarjitaṃ tamīśamātmānamupaiti śāśvatam ।। 36।।

susaṃyamī vā yadi vā na saṃyamī susaṃgrahī vā yadi vā na saṃgrahī

niṣkarmako vā yadi vā sakarmak-stamīśamātmānamupaiti śāśvatam ।। 37।।

mano na buddhirna śarīramindriyaṃ tanmātrabhūtāni na bhūtapañcakam

ahaṃkṛtiścāpi viyatsvarūpakaṃ tamīśamātmānamupaiti śāśvatam ।। 38।।

vidhau nirodhe paramātmatāṃ gate na yoginaścetasi bhedavarjite

śaucaṃ na vāśaucamaliṅgabhāvanā sarvaṃ vidheyaṃ yadi vā niṣidhyate ।। 39।।

mano vaco yatra na śaktamīrituṃ nūnaṃ kathaṃ tatra gurūpadeśatā

imāṃ kathāmuktavato gurost-dyuktasya tattvaṃ hi samaṃ prakāśate ।। 40।।

 

 

atha tṛtīyo ̕dhyāyaḥ

 

guṇaviguṇavibhāgo vartate naiva kiñcit rativirativihīnaṃ nirmalaṃ niṣprapañcam

guṇaviguṇavihīnaṃ vyāpakaṃ viśvarūpaṃ kathamahamiha vande vyomarūpaṃ śivaṃ vai ।। 1।।

śvetādivarṇarahito niyataṃ śivaśca kāryaṃ hi kāraṇamidaṃ hi paraṃ śivaśca

evaṃ vikalparahito ̕hamalaṃ śivaśca svātmānamātmani sumitra kathaṃ namāmi ।। 2।।

nirmūlamūlarahito hi sadodito ̕haṃ nirdhūmadhūmarahito hi sadodito ̕ham

nirdīpadīparahito hi sadodito ̕haṃ jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 3।।

niṣkāmakāmamiha nāma kathaṃ vadāmi niḥsaṅgasaṅgamiha nāma kathaṃ vadāmi

niḥsārasārarahitaṃ ca kathaṃ vadāmi jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 4।।

advaitarūpamakhilaṃ hi kathaṃ vadāmi dvaitasvarūpamakhilaṃ hi kathaṃ vadāmi

nityaṃ tvanityamakhilaṃ hi kathaṃ vadāmi jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 5।।

sthūlaṃ hi no nahi kṛśaṃ na gatāgataṃ hi ādyantamadhyarahitaṃ na parāparaṃ hi

satyaṃ vadāmi khalu vai paramārthatattvaṃ jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 6।।

saṃviddhi sarvakaraṇāni nabhonibhāni saṃviddhi sarvaviṣayāṃśca nabhonibhāṃśca

saṃviddhi caikamamalaṃ na hi bandhamuktaṃ jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 7।।

durbodhabodhagahano na bhavāmi tāta durlakṣyalakṣyagahano na bhavāmi tāta

āsannarūpagahano na bhavāmi tāta jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 8।।

niṣkarmadahano jvalano bhavāmi nirduḥkhaduḥkhadahano jvalano bhavāmi

nirdehadehadahano jvalano bhavāmi jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 9।।

niṣpāpapāpadahano hi hutāśano ̕haṃ nirdharmadharmadahano hi hutāśano ̕ham

nirbandhabandhadahano hi hutāśano ̕haṃ jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 10।।

nirbhāvabhāvarahito na bhavāmi vatsa niryogayogarahito na bhavāmi vatsa

niścittacittarahito na bhavāmi vatsa jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 11।।

nirmohamohapadavīti na me vikalpo niḥśokaśokapadavīti na me vikalpaḥ

nirlobhalobhapadavīti na me vikalpo jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 12।।

saṃsārasantatilatā na ca me kadācit santoṣasantatisukho na ca me kadācit

ajñānabandhanamidaṃ na ca me kadācit jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 13।।

saṃsārasantatirajo na ca me vikāraḥ santāpasantatitamo na ca me vikāraḥ

sattvaṃ svadharmajanakaṃ na ca me vikāro jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 14।।

santāpaduḥkhajanako na vidhiḥ kadācit santāpayogajanitaṃ na manaḥ kadācit

yasmādahaṅkṛtiriyaṃ na ca me kadācit jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 15।।

niṣkampakampanidhanaṃ na vikalpakalpaṃ svapnaprabodhanidhanaṃ na hitāhitaṃ hi

niḥsārasāranidhanaṃ na carācaraṃ hi jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 16।।

no vedyavedakamidaṃ na ca hetutarkyaṃ vācāmagocaramidaṃ na mano na buddhiḥ

evaṃ kathaṃ hi bhavataḥ kathayāmi tattvaṃ jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 17।।

nirbhinnabhinnarahitaṃ paramārthatattv-mantarbahirna hi kathaṃ paramārthatattvam

prāksambhavaṃ na ca rataṃ nahi vastu kiñcit jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 18।।

rāgādidoṣarahitaṃ tvahameva tattvaṃ daivādidoṣarahitaṃ tvahameva tattvam

saṃsāraśokarahitaṃ tvahameva tattvaṃ jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 19।।

sthānatrayaṃ yadi ca neti kathaṃ turīyaṃ kālatrayaṃ yadi ca neti kathaṃ diśaśca

śāntaṃ padaṃ hi paramaṃ paramārthatattvaṃ jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 20।।

dīrgho laghuḥ punaritīha name vibhāgo vistārasaṃkaṭamitīha na me vibhāgaḥ

koṇaṃ hi vartulamitīha na me vibhāgo jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 21।।

mātāpitādi tanayādi na me kadācit jātaṃ mṛtaṃ na ca mano na ca me kadācit

nirvyākulaṃ sthiramidaṃ paramārthatattvaṃ jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 22।।

śuddhaṃ viśuddhamavicāramanantarūpaṃ nirlepalepamavicāramanantarūpam

niṣkhaṇḍakhaṇḍamavicāramanantarūpaṃ jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 23।।

brahmādayaḥ suragaṇāḥ kathamatra santi svargādayo vasatayaḥ kathamatra santi

yadyekarūpamamalaṃ paramārthatattvaṃ jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 24।।

nirneti neti vimalo hi kathaṃ vadāmi niḥśeṣaśeṣavimalo hi kathaṃ vadāmi

nirliṅgaliṅgavimalo hi kathaṃ vadāmi jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 25।।

niṣkarmakarmaparamaṃ satataṃ karomi niḥsaṅgasaṅgarahitaṃ paramaṃ vinodam

nirdehadeharahitaṃ satataṃ vinodaṃ jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 26।।

māyāprapañcaracanā na ca me vikāraḥ kauṭilyadambharacanā na ca me vikāraḥ

satyānṛteti racanā na ca me vikāro jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 27।।

sandhyādikālarahitaṃ na ca me viyogo-hyantaḥ prabodharahitaṃ badhiro na mūkaḥ

evaṃ vikalparahitaṃ na ca bhāvaśuddhaṃ jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 28।।

nirnāthanātharahitaṃ hi nirākulaṃ vai niścittacittavigataṃ hi nirākulaṃ vai

saṃviddhi sarvavigataṃ hi nirākualaṃ vai jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 29।।

kāntāramandiramidaṃ hi kathaṃ vadāmi saṃsiddhasaṃśayamidaṃ hi kathaṃ vadāmi

evaṃ nirantarasamaṃ hi nirākulaṃ vai jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 30।।

nirjīvajīvarahitaṃ satataṃ vibhāti nirbījabījarahitaṃ satataṃ vibhāti

nirvāṇabandharahitaṃ satataṃ vibhāti jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 31।।

sambhūtivarjitamidaṃ satataṃ vibhāti saṃsāravarjitamidaṃ satataṃ vibhāti

saṃhāravarjitamiadaṃ satataṃ vibhāti jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 32।।

ullekhamātramapi te na ca nāmarūpaṃ nirbhinnabhinnamapi te na hi vastu kiñcit

nirlajjamānasa karoṣi kathaṃ viṣādaṃ jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 33।।

kiṃ nāma rodiṣi sakhe na jarā na mṛtyuḥ kiṃ nāma rodiṣi sakhe na ca janma duḥkham

kiṃ nāma rodiṣi sakhe na ca te vikāro jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 34।।

kiṃ nāma rodiṣi sakhe na ca te svarūpaṃ kiṃ nāma rodiṣi sakhe na ca te virūpam

kiṃ nāma rodiṣi sakhe na ca te vayāṃsi jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 35।।

kiṃ nāma rodiṣi sakhe na ca te vayāṃsi kiṃ nāma rodiṣi sakhe na ca te manāṃsi

kiṃ nāma rodiṣi sakhe na tavendriyāṇi jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 36।।

kiṃ nāma rodiṣi sakhe na ca te ̕sti kāmaḥ kiṃ nāma rodiṣi sakhe na ca te pralobhaḥ

kiṃ nāma rodiṣi sakhe na ca te vimoho jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 37।।

aiśvaryamicchasi kathaṃ na ca te dhanāni aiśvaryamicchasi kathaṃ na ca te hi patnī

aiśvaryamicchasi kathaṃ na ca te mameti jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 38।।

liṅgaprapañcajanuṣī na ca te na me ca nirlajjamānasamidaṃ ca vibhāti bhinnam

nirbhedabhedarahitaṃ na ca te na me ca jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 39।।

no vāṇumātramapi te hi virāgarūpaṃ no vāṇumātramapi te hi sarāgarūpam

no vāṇumātramapi te hi sakāmarūpaṃ jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 40।।

dhyātā na te hi hṛdaye na ca te samādhi-rdhyānaṃ na te hi hṛdaye na bahiḥ pradeśaḥ

dhyeyaṃ na ceti hṛdaye na hi vastu kālo jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 41।।

yatsārabhūtamakhilaṃ kathitaṃ mayā te na tvaṃ na me na mahato na gururna na śiṣyaḥ

svacchandarūpasahajaṃ paramārthatattvaṃ jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 42।।

kathamiha paramārthaṃ tattvamānandarūpaṃ kathamiha paramārthaṃ naivamānandarūpam

kathamiha paramārthaṃ jñānavijñānarūpaṃ yadi paramahamekaṃ vartate vyomarūpam ।। 43।।

dahanapavanahīnaṃ viddhi vijñānamek-mavanijalavihīnaṃ viddhi vijñānarūpam

samagamanavihīnaṃ viddhi vijñānamekaṃ gaganamiva viśālaṃ viddhi vijñānamekam ।। 44।।

na śūnyarūpaṃ na viśūnyarūpaṃ na śuddharūpaṃ na viśuddharūpam

rūpaṃ virūpaṃ na bhavāmi kiñcit svarūparūpaṃ paramārthatattvam ।। 45।।

muñca muñca hi saṃsāraṃ tyāgaṃ muñca hi sarvathā

tyāgātyāgaviṣaṃ śuddhamamṛtaṃ sahajaṃ dhruvam ।। 46।।

 

 

atha caturtho ̕dhyāyaḥ

 

nāvāhanaṃ naiva visarjanaṃ vā puṣpāṇi patrāṇi kathaṃ bhavanti

dhyānāni mantrāṇi kathaṃ bhavanti samāsamaṃ caiva śivārcanaṃ ca ।। 1।।

na kevalaṃ bandhavibandhamukto na kevalaṃ śuddhaviśuddhamuktaḥ

na kevalaṃ yogaviyogamuktaḥ sa vai vimukto gaganopamo ̕ham ।। 2।।

sañjāyate sarvamidaṃ hi tathyaṃ sañjāyate sarvamidaṃ vitathyam

evaṃ vikalpo mama naiva jātaḥ svarūpanirvāṇamanāmayo ̕ham ।। 3।।

na sāñjanaṃ caiva nirañjanaṃ vā na cāntaraṃ vāpi nirantaraṃ vā

antarvibhannaṃ na hi me vibhāti svarūpanirvāṇamanāmayo ̕ham ।। 4।।

abodhabodho mama naiva jāto bodhasvarūpaṃ mama naiva jātam

nirbodhabodhaṃ ca kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 5।।

na dharmayukto na ca pāpayukto na bandhayukto na ca mokṣayuktaḥ

yuktaṃ tvayuktaṃ na ca me vibhāti svarūpanirvāṇamanāmayo ̕ham ।। 6।।

parāparaṃ vā na ca me kadācit madhyasthabhāvo hi na cārimitram

hitāhitaṃ cāpi kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 7।।

nopāsako naivamupāsyarūpaṃ na copadeśo na ca me kriyā ca

saṃvitsvarūpaṃ ca kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 8।।

no vyāpakaṃ vyāpyamihāsti kiñcit na cālayaṃ vāpi nirālayaṃ vā

aśūnyaśūnyaṃ ca kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 9।।

na grāhako grāhyakameva kiñcit na kāraṇaṃ vā mama naiva kāryam

acintyacintyaṃ ca kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 10।।

na bhedakaṃ vāpi na caiva bhedyaṃ na vedakaṃ vā mama naiva vedyam

gatāgataṃ tāta kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 11।।

na cāsti deho na ca me videho buddirmano me na hi cendriyāṇi

rāgo virāgaśca kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 12।।

ullekhamātraṃ na hi bhinnamuccai-rullekhamātraṃ na tirohitaṃ vai

samāsamaṃ mitra kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 13।।

jitendriyo ̕haṃ tvajitendriyo vā na saṃyamo me niyamo na jātaḥ

jayājayau mitra kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 14।।

amūrtamūrtirna ca me kadāci-dādyantamadhyaṃ na ca me kadācit

balābalaṃ mitra kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 15।।

mṛtāmṛtaṃ vāpi viṣāviṣaṃ ca sañjāyate tāta na me kadācit

aśuddhaśuddhaṃ ca kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 16।।

svapnaḥ prabodho na ca yogamudrā naktaṃ divā vāpi na me kadācit

aturyaturyaṃ ca kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 17।।

saṃviddhi māṃ sarvavisarvamuktaṃ māyā vimāyā na ca me kadācit

sandhyādikaṃ karma kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 18।।

saṃviddhi māṃ sarvasamādhiyuktaṃ saṃviddhi māṃ lakṣyavilakṣyamuktam

yogaṃ viyogaṃ ca kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 19।।

mūrkho ̕pi nāhaṃ na ca paṇḍito ̕haṃ maunaṃ vimaunaṃ na ca me kadācit

tarkaṃ vitarkaṃ ca kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 20।।

pitā ca mātā ca kulaṃ na jāti-rjanmādi mṛtyurna ca me kadācit

snehaṃ vimohaṃ ca kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 21।।

astaṃ gato naiva sadodito ̕haṃ tejovitejo na ca me kadācit

sandhyādikaṃ karma kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 22।।

asaṃśayaṃ viddhi nirākulaṃ māṃ asaṃśayaṃ viddhi nirantaraṃ mām

asaṃśayaṃ viddhi nirañjanaṃ māṃ svarūpanirvāṇamanāmayo ̕ham ।। 23।।

dhyānāni sarvāṇi parityajanti śubhāśubhaṃ karma parityajanti

tyāgāmṛtaṃ tāta pibanti dhīrāḥ svarūpanirvāṇamanāmayo ̕ham ।। 24।।

vindati vindati na hi na hi yatra chandolakṣaṇaṃ na hi na hi tatra

samarasamagno bhāvitapūtaḥ pralapati tattvaṃ paramavadhūtaḥ ।। 25।।

 

 

atha pañcamodhyāyaḥ

 

om iti gaditaṃ gaganasamaṃ tat na parāparasāravicāra iti

avilāsavilāsanirākaraṇaṃ kathamakṣarabindusamuccaraṇam ।। 1।।

iti tattvamasiprabhṛtiśrutibhiḥ pratipāditamātmani tattvamasi

tvamupādhivivarjitasarvasamaṃ kimu rodiṣi mānasi sarvasamam ।। 2।।

adhūrdhvavivarjitasarvasamaṃ bahirantaravarjitasarvasamam

yadi caikavivarjitasarvasamaṃ kimu rodiṣi mānasi sarvasamam ।। 3।।

na hi kalpitakalpavicāra iti na hi kāraṇakāryavicāra iti

padasandhivivarjitasarvasamaṃ kimu rodiṣi mānasi sarvasamam ।। 4।।

na hi bodhavibodhasamādhiriti na hi deśavideśasamādhiriti

na hi kālavikālasamādhiriti kimu rodiṣi mānasi sarvasamam ।। 5।।

na hi kumbhanabho na hi kumbha iti na hi jīvavapurna hi jīva iti

na hi kāraṇakāryavibhāga iti kimu rodiṣi mānasi sarvasamam ।। 6।।

iha sarvanirantaramokṣapadaṃ laghudīrghavicāravihīna iti

na hi vartulakoṇavibhāga iti kimu rodiṣi mānasi sarvasamam ।। 7।।

iha śūnyaviśūnyavihīna iti iha śuddhaviśuddhavihīna iti

iha sarvavisarvavihīna iti kimu rodiṣi mānasi sarvasamam ।। 8।।

na hi bhinnavibhinnavicāra iti bahirantarasandhivicāra iti

arimitravivarjitasarvasamaṃ kimu rodiṣi mānasi sarvasamam ।। 9।।

na hi śiṣyaviśiṣyasvarūpaiti na carācarabhedavicāra iti

iha sarvanirantaramokṣapadaṃ kimu rodiṣi mānasi sarvasamam ।। 10।।

nanu rūpavirūpavihīna iti nanu bhinnavibhinnavihīna iti

nanu sargavisargavihīna iti kimu rodiṣi mānasi sarvasamam ।। 11।।

na guṇāguṇapāśanibandha iti mṛtajīvanakarma karomi katham

iti śuddhanirañjanasarvasamaṃ kimu rodiṣi mānasi sarvasamam ।। 12।।

iha bhāvavibhāvavihīna iti iha kāmavikāmavihīna iti

iha bodhatamaṃ khalu mokṣasamaṃ kimu rodiṣi mānasi sarvasamam ।। 13।।

iha tattvanirantaratattvamiti na hi sandhivisandhivihīna iti

yadi sarvavivarjitasarvasamaṃ kimu rodiṣi mānasi sarvasamam ।। 14।।

aniketakuṭī parivārasamaṃ ihasaṅgavisaṅgavihīnaparam

iha bodhavibodhavihīnaparaṃ kimu rodiṣi mānasi sarvasamam ।। 15।।

avikāravikāramasatyamiti avilakṣavilakṣamasatyamiti

yadi kevalamātmani satyamiti kimu rodiṣi mānasi sarvasamam ।। 16।।

iha sarvasamaṃ khalu jīva iti iha sarvanirantarajīva iti

iha kevalaniścalajīva iti kimu rodiṣi mānasi sarvasamam ।। 17।।

avivekavivekamabodha iti avikalpavikalpamabodha iti

yadi caikanirantarabodha iti kimu rodiṣi mānasi sarvasamam ।। 18।।

na hi mokṣapadaṃ na hi bandhapadaṃ na hi puṇyapadaṃ na hi pāpapadam

na hi pūrṇapadaṃ na hi riktapadaṃ kimu rodiṣi mānasi sarvasamam ।। 19।।

yadi varṇavivarṇavihīnasamaṃ yadi kāraṇakāryavihīnasamam

yadibhedavibhedavihīnasamaṃ kimu rodiṣi mānasi sarvasamam ।। 20।।

iha sarvanirantarasarvacite iha kevalaniścalasarvacite

dvipadādivivarjitasarvacite kimu rodiṣi mānasi sarvasamam ।। 21।।

atisarvanirantarasarvagataṃ atinirmalaniścalasarvagatam

dinarātrivivarjitasarvagataṃ kimu rodiṣi mānasi sarvasamam ।। 22।।

na hi bandhavibandhasamāgamanaṃ na hi yogaviyogasamāgamanam

na hi tarkavitarkasamāgamanaṃ kimu rodiṣi mānasi sarvasamam ।। 23।।

iha kālavikālanirākaraṇaṃ aṇumātrakṛśānunirākaraṇam

na hi kevalasatyanirākaraṇaṃ kimu rodiṣi mānasi sarvasamam ।। 24।।

iha dehavidehavihīna iti nanu svapnasuṣuptivihīnaparam

abhidhānavidhānavihīnaparaṃ kimu rodiṣi mānasi sarvasamam ।। 25।।

gaganopamaśuddhaviśālasamaṃ atisarvavivarjitasarvasamam

gatasāravisāravikārasamaṃ kimu rodiṣi mānasi sarvasamam ।। 26।।

iha dharmavidharmavirāgatar-miha vastuvivastuvirāgataram

iha kāmavikāmavirāgataraṃ kimu rodiṣi mānasi sarvasamam ।। 27।।

sukhaduḥkhavivarjitasarvasam-miha śokaviśokavihīnaparam

guruśiṣyavivarjitatattvaparaṃ kimu rodiṣi mānasi sarvasamam ।। 28।।

na kilāṅkurasāravisāra iti na calācalasāmyavisāmyamiti

avicāravicāravihīnamiti kimu rodiṣi mānasi sarvasamam ।। 29।।

iha sārasamuccayasāramiti kathitaṃ nijabhāvavibheda iti

viṣaye karaṇatvamasatyamiti kimu rodiṣi mānasi sarvasamam ।। 30।।

bahudhā śrutayaḥ pravadanti yato viyadādiridaṃ mṛgatoyasamam

yadi caikanirantarasarvasamaṃ kimu rodiṣi mānasi sarvasamam ।। 31।।

vindati vindati na hi na hi yatra chandolakṣaṇaṃ na hi na hi tatra

samarasamagno bhāvitapūtaḥ pralapati tattvaṃ paramavadhūtaḥ ।। 32।।

 

 

atha ṣaṣṭhamo ̕dhyāyaḥ

 

bahudhā śrutayaḥ pravadanti vayaṃ viyadādiridaṃ mṛgatoyasamam

yadi caikanirantarasarvaśiv-mupameyamathohyupamā ca katham ।। 1।।

avibhaktivibhaktivihīnaparaṃ nanu kāryavikāryavihīnaparam

yadi caikanirantarasarvaśivaṃ yajanaṃ ca kathaṃ tapanaṃ ca katham ।। 2।।

mana eva nirantarasarvagataṃ hyaviśālaviśālavihīnaparam

mana eva nirantarasarvaśivaṃ manasāpi kathaṃ vacasā ca katham ।। 3।।

dinarātrivibhedanirākaraṇ-muditānuditasya nirākaraṇam

yadi caikanirantarasarvaśivaṃ ravicandramasau jvalanaśca katham ।। 4।।

gatakāmavikāmavibheda iti gataceṣṭaviceṣṭavibheda iti

yadi caikanirantarasarvaśivaṃ bahirantarabhinnamatiśca katham ।। 5।।

yadi sāravisāravihīna iti yadi śūnyaviśūnyavihīna iti

yadi caikanirantarasarvaśivaṃ prathamaṃ ca kathaṃ caramaṃ ca katham ।। 6।।

yadibhedavibhedanirākaraṇaṃ yadi vedakavedyanirākaraṇam

yadi caikanirantarasarvaśivaṃ tṛtīyaṃ ca kathaṃ turīyaṃ ca katham ।। 7।।

gaditāviditaṃ na hi satyamiti viditāviditaṃ nahi satyamiti

yadi caikanirantarasarvaśivaṃ viṣayendriyabuddhimanāṃsi katham ।। 8।।

gaganaṃ pavano na hi satyamiti dharaṇī dahano na hi satyamiti

yadi caikanirantarasarvaśivaṃ jaladaśca kathaṃ salilaṃ ca katham ।। 9।।

yadi kalpitalokanirākaraṇaṃ yadi kalpitadevanirākaraṇam

yadi caikanirantarasarvaśivaṃ guṇadoṣavicāramatiśca katham ।। 10।।

maraṇāmaraṇaṃ hi nirākaraṇaṃ karaṇākaraṇaṃ hi nirākaraṇam

yadi caikanirantarasarvaśivaṃ gamanāgamanaṃ hi kathaṃ vadati ।। 11।।

prakṛtiḥ puruṣo na hi bheda iti na hi kāraṇakāryavibheda iti

yadi caikanirantarasarvaśivaṃ puruṣāpuruṣaṃ ca kathaṃ vadati ।। 12।।

tṛtīyaṃ na hi duḥkhasamāgamanaṃ na guṇāddvitīyasya samāgamanam

yadi caikanirantarasarvaśivaṃ sthaviraśca yuvā ca śiśuśca katham ।। 13।।

nanu āśramavarṇavihīnaparaṃ nanu kāraṇakartṛvihīnaparam

yadi caikanirantarasarvaśiv-mavinaṣṭavinaṣṭamatiśca katham ।। 14।।

grasitāgrasitaṃ ca vitathyamiti janitājanitaṃ ca vitathyamiti

yadi caikanirantarasarvaśiv-mavināśi vināśi kathaṃ hi bhavet ।। 15।।

puruṣāpuruṣasya vinaṣṭamiti vanitāvanitasya vinaṣṭamiti

yadi caikanirantarasarvaśiv-mavinodavinodamatiśca katham ।। 16।।

yadi mohaviṣādavihīnaparo yadi saṃśayaśokavihīnaparaḥ

yadi caikanirantarasarvaśiv-mahameti mameti kathaṃ ca punaḥ ।। 17।।

nanu dharmavidharmavināśa iti nanu bandhavibandhavināśa iti

yadi caikanirantarasarvaśivaṃ-mihaduḥkhaviduḥkhamatiśca katham ।। 18।।

na hi yājñikayajñavibhāga iti na hutāśanavastuvibhāga iti

yadi caikanirantarasarvaśivaṃ vada karmaphalāni bhavanti katham ।। 19।।

nanu śokaviśokavimukta iti nanu darpavidarpavimukta iti

yadi caikanirantarasarvaśivaṃ nanu rāgavirāgamatiśca katham ।। 20।।

na hi mohavimohavikāra iti na hi lobhavilobhavikāra iti

yadi caikanirantarasarvaśivaṃ hyavivekavivekamatiśca katham ।। 21।।

tvamahaṃ na hi hanta kadācidapi kulajātivicāramasatyamiti

ahameva śivaḥ paramārtha iti abhivādanamatra karomi katham ।। 22।।

guruśiṣyavicāraviśīrṇa iti upadeśavicāraviśīrṇa iti

ahameva śivaḥ paramārtha iti abhivādanamatra karomi katham ।। 23।।

na hi kalpitadehavibhāga iti na hi kalpitalokavibhāga iti

ahameva śivaḥ paramārtha iti abhivādanamatra karomi katham ।। 24।।

sarajo virajo na kadācidapi nanu nirmalaniścalaśuddha iti

ahameva śivaḥ paramārtha iti abhivādanamatra karomi katham ।। 25।।

na hi dehavidehavikalpa iti anṛtaṃ caritaṃ na hi satyamiti

ahameva śivaḥ paramārtha iti abhivādanamatra karomi katham ।। 26।।

vindati vindati na hi na hi yatra chandolakṣaṇaṃ na hi na hi tatra

samarasamagno bhāvitapūtaḥ pralapati tattvaṃ paramavadhūtaḥ ।। 27।।

 

 

 

atha saptamo ̕dhyāyaḥ

 

rathyākarpaṭaviracitakanthaḥ puṇyāpuṇyavivarjitapanthaḥ

śūnyāgāre tiṣṭhati nagno śuddhanirañjanasamarasamagnaḥ ।। 1।।

lakṣyālakṣyavivarjitalakṣyo yuktāyuktavivarjitadakṣaḥ

kevalatattvanirañjanapūto vādavivādaḥ kathamavadhūtaḥ ।। 2।।

āśāpāśavibandhanamuktāḥ śaucācāravivarjitayuktāḥ

evaṃ sarvavivarjitaśānt-stattvaṃ śuddhanirañjanavantaḥ ।। 3।।

kathamiha dehavidehavicāraḥ kathamiha rāgavirāgavicāraḥ

nirmalaniścalagaganākāraṃ svayamiha tattvaṃ sahajākāram ।। 4।।

kathamiha tattvaṃ vindati yatra rūpamarūpaṃ kathamiha tatra

gaganākāraḥ paramo yatra viṣayīkaraṇaṃ kathamiha tatra ।। 5।।

gaganākāranirantarahaṃs-stattvaviśuddhanirañjanahaṃsaḥ

evaṃ kathamiha bhinnavibhinnaṃ bandhavibandhavikāravibhinnam ।। 6।।

kevalatattvanirantarasarvaṃ yogaviyogau kathamiha garvam

evaṃ paramanirantarasarv-mevaṃ kathamiha sāravisāram ।। 7।।

kevalatattvanirañjanasarvaṃ gaganākāranirantaraśuddham

evaṃ kathamiha saṅgavisaṅgaṃ satyaṃ kathamiha raṅgaviraṅgam ।। 8।।

yogaviyogai rahito yogī bhogavibhogai rahito bhogī

evaṃ carati hi mandaṃ mandaṃ manasā kalpitasahajānandam ।। 9।।

bodhavibodhaiḥ satataṃ yukto dvaitādvaitaiḥ kathamiha muktaḥ

sahajo virajaḥ kathamiha yogī śuddhanirañjanasamarasabhogī ।। 10।।

bhagnābhagnavivarjitabhagno lagnālagnavivarjitalagnaḥ

evaṃ kathamiha sāravisāraḥ samarasatattvaṃ gaganākāraḥ ।। 11।।

satataṃ sarvavivarjitayuktaḥ sarvaṃ tattvavivarjitamuktaḥ

evaṃ kathamiha jīvitamaraṇaṃ dhyānādhyānaiḥ kathamiha karaṇam ।। 12।।

indrajālamidaṃ sarvaṃ yathā marumarīcikā

akhaṇḍitamanākāro vartate kevalaḥ śivaḥ ।। 13।।

dharmādau mokṣaparyantaṃ nirīhāḥ sarvathā vayam

kathaṃ rāgavirāgaiśca kalpayanti vipaścitaḥ ।। 14।।

vindati vindati na hi na hi yatra chandolakṣaṇaṃ na hi na hi tatra

samarasamagno bhāvitapūtaḥ pralapati tattvaṃ paramavadhūtaḥ ।। 15।।

 

 

atha aṣṭamo ̕dhyāyaḥ

 

tvadyātrayā vyāpakatā hatā te dhyānena cetaḥparatā hatā te

stutyā mayā vākparatā hatā te kṣamasva nityaṃ trividhāparādhān ।। 1।।

kāmairahatadhīrdānto mṛduḥ śucirakiñcanaḥ

anīho mitabhuk śāntaḥ sthiro maccharaṇo muniḥ ।। 2।।

apramatto gabhīrātmā dhṛtimān jitaṣaḍguṇaḥ

amānī mānadaḥ kalpo maitraḥ kāruṇikaḥ kaviḥ ।। 3।।

kṛpālurakṛtadrohastitikṣuḥ sarvadehinām

satyasāro ̕navadyātmā samaḥ sarvopakārakaḥ ।। 4।।

avadhūtalakṣaṇaṃ varṇairjñātavyaṃ bhagavattamaiḥ

vedavarṇārthatattvajñairvedavedāntavādibhiḥ ।। 5।।

āśāpāśavinirmukta ādimadhyāntanirmalaḥ

ānande vartate nityamakāraṃ tasya lakṣaṇam ।। 6।।

vāsanā varjitā yena vaktavyaṃ ca nirāmayam

vartamāneṣu varteta vakāraṃ tasya lakṣaṇam ।। 7।।

dhūlidhūsaragātrāṇi dhūtacitto nirāmayaḥ

dhāraṇādhyānanirmukto dhūkārastasya lakṣaṇam ।। 8।।

tattvacintā dhṛtā yena cintāceṣṭāvivarjitaḥ

tamo ̕haṃkāranirmuktastakārastasya lakṣaṇam ।। 9।।

dattātreyāvadhūtena nirmitānandarūpiṇā

ye paṭhanti ca śṛṇvanti teṣāṃ naiva punarbhavaḥ ।। 10।।

 

 

1 2 3 4 5 6 7 8

 


 

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy