Ashtavakra Gita
॥श्री॥ अथ श्रीमदष्टावक्रगीता प्रारभ्यते॥
जनक उवाच॥ कथं ज्ञानमवाप्नोति कथं मुक्तिर्भविष्यति। वैराग्यं च कथं प्राप्तं एतद् ब्रूहि मम प्रभो॥१- १॥
अष्टावक्र उवाच॥ मुक्तिं इच्छसि चेत्तात विषयान् विषवत्त्यज। क्षमार्जवदयातोषसत्यं पीयूषवद् भज॥१- २॥
न पृथ्वी न जलं नाग्निर्न वायुर्द्यौर्न वा भवान्। एषां साक्षिणमात्मानं चिद्रूपं विद्धि मुक्तये॥१- ३॥
यदि देहं पृथक् कृत्य चिति विश्राम्य तिष्ठसि। अधुनैव सुखी शान्तो बन्धमुक्तो भविष्यसि॥१- ४॥
न त्वं विप्रादिको वर्णो नाश्रमी नाक्षगोचरः। असङ्गोऽसि निराकारो विश्वसाक्षी सुखी भव॥१- ५॥
धर्माधर्मौ सुखं दुःखं मानसानि न ते विभो। न कर्तासि न भोक्तासि मुक्त एवासि सर्वदा॥१- ६॥
एको द्रष्टासि सर्वस्य मुक्तप्रायोऽसि सर्वदा। अयमेव हि ते बन्धो द्रष्टारं पश्यसीतरम्॥१- ७॥
अहं कर्तेत्यहंमानमहाकृष्णाहिदंशितः। नाहं कर्तेति विश्वासामृतं पीत्वा सुखी भव॥१- ८॥
एको विशुद्धबोधोऽहं इति निश्चयवह्निना। प्रज्वाल्याज्ञानगहनं वीतशोकः सुखी भव॥१- ९॥
यत्र विश्वमिदं भाति कल्पितं रज्जुसर्पवत्। आनन्दपरमानन्दः स बोधस्त्वं सुखं भव॥१- १०॥
मुक्ताभिमानी मुक्तो हि बद्धो बद्धाभिमान्यपि। किंवदन्तीह सत्येयं या मतिः सा गतिर्भवेत्॥१- ११॥
आत्मा साक्षी विभुः पूर्ण एको मुक्तश्चिदक्रियः। असंगो निःस्पृहः शान्तो भ्रमात्संसारवानिव॥१- १२॥
कूटस्थं बोधमद्वैतमात्मानं परिभावय। आभासोऽहं भ्रमं मुक्त्वा भावं बाह्यमथान्तरम्॥१- १३॥
देहाभिमानपाशेन चिरं बद्धोऽसि पुत्रक। बोधोऽहं ज्ञानखंगेन तःनिकृत्य सुखी भव॥१- १४॥
निःसंगो निष्क्रियोऽसि त्वं स्वप्रकाशो निरंजनः। अयमेव हि ते बन्धः समाधिमनुतिष्ठति॥१- १५॥
त्वया व्याप्तमिदं विश्वं त्वयि प्रोतं यथार्थतः। शुद्धबुद्धस्वरूपस्त्वं मा गमः क्षुद्रचित्तताम्॥१- १६॥
निरपेक्षो निर्विकारो निर्भरः शीतलाशयः। अगाधबुद्धिरक्षुब्धो भव चिन्मात्रवासनः॥१- १७॥
साकारमनृतं विद्धि निराकारं तु निश्चलं। एतत्तत्त्वोपदेशेन न पुनर्भवसंभवः॥१- १८॥
यथैवादर्शमध्यस्थे रूपेऽन्तः परितस्तु सः। तथैवाऽस्मिन् शरीरेऽन्तः परितः परमेश्वरः॥१- १९॥
एकं सर्वगतं व्योम बहिरन्तर्यथा घटे। नित्यं निरन्तरं ब्रह्म सर्वभूतगणे तथा॥१- २०॥
जनक उवाच॥ अहो निरंजनः शान्तो बोधोऽहं प्रकृतेः परः। एतावन्तमहं कालं मोहेनैव विडंबितः॥२- १॥
यथा प्रकाशयाम्येको देहमेनं तथा जगत्। अतो मम जगत्सर्वमथवा न च किंचन॥२- २॥
स शरीरमहो विश्वं परित्यज्य मयाधुना। कुतश्चित् कौशलाद् एव परमात्मा विलोक्यते॥२- ३॥
यथा न तोयतो भिन्नास्तरंगाः फेनबुद्बुदाः। आत्मनो न तथा भिन्नं विश्वमात्मविनिर्गतम्॥२- ४॥
तन्तुमात्रो भवेद् एव पटो यद्वद् विचारितः। आत्मतन्मात्रमेवेदं तद्वद् विश्वं विचारितम्॥२- ५॥
यथैवेक्षुरसे क्लृप्ता तेन व्याप्तैव शर्करा। तथा विश्वं मयि क्लृप्तं मया व्याप्तं निरन्तरम्॥२- ६॥
आत्मज्ञानाज्जगद् भाति आत्मज्ञानान्न भासते। रज्ज्वज्ञानादहिर्भाति तज्ज्ञानाद् भासते न हि॥२- ७॥
प्रकाशो मे निजं रूपं नातिरिक्तोऽस्म्यहं ततः। यदा प्रकाशते विश्वं तदाहं भास एव हि॥२- ८॥
अहो विकल्पितं विश्वमज्ञानान्मयि भासते। रूप्यं शुक्तौ फणी रज्जौ वारि सूर्यकरे यथा॥२- ९॥
मत्तो विनिर्गतं विश्वं मय्येव लयमेष्यति। मृदि कुंभो जले वीचिः कनके कटकं यथा॥२- १०॥
अहो अहं नमो मह्यं विनाशो यस्य नास्ति मे। ब्रह्मादिस्तंबपर्यन्तं जगन्नाशोऽपि तिष्ठतः॥२- ११॥
अहो अहं नमो मह्यं एकोऽहं देहवानपि। क्वचिन्न गन्ता नागन्ता व्याप्य विश्वमवस्थितः॥२- १२॥
अहो अहं नमो मह्यं दक्षो नास्तीह मत्समः। असंस्पृश्य शरीरेण येन विश्वं चिरं धृतम्॥२- १३॥
अहो अहं नमो मह्यं यस्य मे नास्ति किंचन। अथवा यस्य मे सर्वं यद् वाङ्मनसगोचरम्॥२- १४॥
ज्ञानं ज्ञेयं तथा ज्ञाता त्रितयं नास्ति वास्तवं। अज्ञानाद् भाति यत्रेदं सोऽहमस्मि निरंजनः॥२- १५॥
द्वैतमूलमहो दुःखं नान्यत्तस्याऽस्ति भेषजं। दृश्यमेतन् मृषा सर्वं एकोऽहं चिद्रसोमलः॥२- १६॥
बोधमात्रोऽहमज्ञानाद् उपाधिः कल्पितो मया। एवं विमृशतो नित्यं निर्विकल्पे स्थितिर्मम॥२- १७॥
न मे बन्धोऽस्ति मोक्षो वा भ्रान्तिः शान्तो निराश्रया। अहो मयि स्थितं विश्वं वस्तुतो न मयि स्थितम्॥२- १८॥
सशरीरमिदं विश्वं न किंचिदिति निश्चितं। शुद्धचिन्मात्र आत्मा च तत्कस्मिन् कल्पनाधुना॥२- १९॥
शरीरं स्वर्गनरकौ बन्धमोक्षौ भयं तथा। कल्पनामात्रमेवैतत् किं मे कार्यं चिदात्मनः॥२- २०॥
अहो जनसमूहेऽपि न द्वैतं पश्यतो मम। अरण्यमिव संवृत्तं क्व रतिं करवाण्यहम्॥२- २१॥
नाहं देहो न मे देहो जीवो नाहमहं हि चित्। अयमेव हि मे बन्ध आसीद्या जीविते स्पृहा॥२- २२॥
अहो भुवनकल्लोलैर्विचित्रैर्द्राक् समुत्थितं। मय्यनंतमहांभोधौ चित्तवाते समुद्यते॥२- २३॥
मय्यनंतमहांभोधौ चित्तवाते प्रशाम्यति। अभाग्याज्जीववणिजो जगत्पोतो विनश्वरः॥२- २४॥
मय्यनन्तमहांभोधावाश्चर्यं जीववीचयः। उद्यन्ति घ्नन्ति खेलन्ति प्रविशन्ति स्वभावतः॥२- २५॥
अष्टावक्र उवाच॥ अविनाशिनमात्मानं एकं विज्ञाय तत्त्वतः। तवात्मज्ञानस्य धीरस्य कथमर्थार्जने रतिः॥३- १॥
आत्माज्ञानादहो प्रीतिर्विषयभ्रमगोचरे। शुक्तेरज्ञानतो लोभो यथा रजतविभ्रमे॥३- २॥
विश्वं स्फुरति यत्रेदं तरङ्गा इव सागरे। सोऽहमस्मीति विज्ञाय किं दीन इव धावसि॥३- ३॥
श्रुत्वापि शुद्धचैतन्य आत्मानमतिसुन्दरं। उपस्थेऽत्यन्तसंसक्तो मालिन्यमधिगच्छति॥३- ४॥
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि। मुनेर्जानत आश्चर्यं ममत्वमनुवर्तते॥३- ५॥
आस्थितः परमाद्वैतं मोक्षार्थेऽपि व्यवस्थितः। आश्चर्यं कामवशगो विकलः केलिशिक्षया॥३- ६॥
उद्भूतं ज्ञानदुर्मित्रमवधार्यातिदुर्बलः। आश्चर्यं काममाकाङ्क्षेत् कालमन्तमनुश्रितः॥३- ७॥
इहामुत्र विरक्तस्य नित्यानित्यविवेकिनः। आश्चर्यं मोक्षकामस्य मोक्षाद् एव विभीषिका॥३- ८॥
धीरस्तु भोज्यमानोऽपि पीड्यमानोऽपि सर्वदा। आत्मानं केवलं पश्यन् न तुष्यति न कुप्यति॥३- ९॥
चेष्टमानं शरीरं स्वं पश्यत्यन्यशरीरवत्। संस्तवे चापि निन्दायां कथं क्षुभ्येत् महाशयः॥३- १०॥
मायामात्रमिदं विश्वं पश्यन् विगतकौतुकः। अपि सन्निहिते मृत्यौ कथं त्रस्यति धीरधीः॥३- ११॥
निःस्पृहं मानसं यस्य नैराश्येऽपि महात्मनः। तस्यात्मज्ञानतृप्तस्य तुलना केन जायते॥३- १२॥
स्वभावाद् एव जानानो दृश्यमेतन्न किंचन। इदं ग्राह्यमिदं त्याज्यं स किं पश्यति धीरधीः॥३- १३॥
अंतस्त्यक्तकषायस्य निर्द्वन्द्वस्य निराशिषः। यदृच्छयागतो भोगो न दुःखाय न तुष्टये॥३- १४॥
अष्टावक्र उवाच॥ हन्तात्मज्ञानस्य धीरस्य खेलतो भोगलीलया। न हि संसारवाहीकैर्मूढैः सह समानता॥४- १॥
यत् पदं प्रेप्सवो दीनाः शक्राद्याः सर्वदेवताः। अहो तत्र स्थितो योगी न हर्षमुपगच्छति॥४- २॥
तज्ज्ञस्य पुण्यपापाभ्यां स्पर्शो ह्यन्तर्न जायते। न ह्याकाशस्य धूमेन दृश्यमानापि सङ्गतिः॥४- ३॥
आत्मैवेदं जगत्सर्वं ज्ञातं येन महात्मना। यदृच्छया वर्तमानं तं निषेद्धुं क्षमेत कः॥४- ४॥
आब्रह्मस्तंबपर्यन्ते भूतग्रामे चतुर्विधे। विज्ञस्यैव हि सामर्थ्यमिच्छानिच्छाविवर्जने॥४- ५॥
आत्मानमद्वयं कश्चिज्जानाति जगदीश्वरं। यद् वेत्ति तत्स कुरुते न भयं तस्य कुत्रचित्॥४- ६॥
अष्टावक्र उवाच॥ न ते संगोऽस्ति केनापि किं शुद्धस्त्यक्तुमिच्छसि। संघातविलयं कुर्वन्नेवमेव लयं व्रज॥५- १॥
उदेति भवतो विश्वं वारिधेरिव बुद्बुदः। इति ज्ञात्वैकमात्मानं एवमेव लयं व्रज॥५- २॥
प्रत्यक्षमप्यवस्तुत्वाद् विश्वं नास्त्यमले त्वयि। रज्जुसर्प इव व्यक्तं एवमेव लयं व्रज॥५- ३॥
समदुःखसुखः पूर्ण आशानैराश्ययोः समः। समजीवितमृत्युः सन्नेवमेव लयं व्रज॥५- ४॥
अष्टावक्र उवाच॥ आकाशवदनन्तोऽहं घटवत् प्राकृतं जगत्। इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः॥६- १॥
महोदधिरिवाहं स प्रपंचो वीचिसऽन्निभः। इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः॥६- २॥
अहं स शुक्तिसङ्काशो रूप्यवद् विश्वकल्पना। इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः॥६- ३॥
अहं वा सर्वभूतेषु सर्वभूतान्यथो मयि। इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः॥६- ४॥
जनक उवाच॥ मय्यनंतमहांभोधौ विश्वपोत इतस्ततः। भ्रमति स्वांतवातेन न ममास्त्यसहिष्णुता॥७- १॥
मय्यनंतमहांभोधौ जगद्वीचिः स्वभावतः। उदेतु वास्तमायातु न मे वृद्धिर्न च क्षतिः॥७- २॥
मय्यनंतमहांभोधौ विश्वं नाम विकल्पना। अतिशांतो निराकार एतदेवाहमास्थितः॥७- ३॥
नात्मा भावेषु नो भावस्तत्रानन्ते निरंजने। इत्यसक्तोऽस्पृहः शान्त एतदेवाहमास्तितः॥७- ४॥
अहो चिन्मात्रमेवाहं इन्द्रजालोपमं जगत्। इति मम कथं कुत्र हेयोपादेयकल्पना॥७- ५॥
अष्टावक्र उवाच॥ तदा बन्धो यदा चित्तं किन्चिद् वांछति शोचति। किंचिन् मुंचति गृण्हाति किंचिद् दृष्यति कुप्यति॥८- १॥
तदा मुक्तिर्यदा चित्तं न वांछति न शोचति। न मुंचति न गृण्हाति न हृष्यति न कुप्यति॥८- २॥
तदा बन्धो यदा चित्तं सक्तं काश्वपि दृष्टिषु। तदा मोक्षो यदा चित्तमसक्तं सर्वदृष्टिषु॥८- ३॥
यदा नाहं तदा मोक्षो यदाहं बन्धनं तदा। मत्वेति हेलया किंचिन्मा गृहाण विमुंच मा॥८- ४॥
अष्टावक्र उवाच॥ कृताकृते च द्वन्द्वानि कदा शान्तानि कस्य वा। एवं ज्ञात्वेह निर्वेदाद् भव त्यागपरोऽव्रती॥९- १॥
कस्यापि तात धन्यस्य लोकचेष्टावलोकनात्। जीवितेच्छा बुभुक्षा च बुभुत्सोपशमः गताः॥९- २॥
अनित्यं सर्वमेवेदं तापत्रयदूषितं। असरं निन्दितं हेयमिति निश्चित्य शाम्यति॥९- ३॥
कोऽसौ कालो वयः किं वा यत्र द्वन्द्वानि नो नृणां। तान्युपेक्ष्य यथाप्राप्तवर्ती सिद्धिमवाप्नुयात्॥९- ४॥
ना मतं महर्षीणां साधूनां योगिनां तथा। दृष्ट्वा निर्वेदमापन्नः को न शाम्यति मानवः॥९- ५॥
कृत्वा मूर्तिपरिज्ञानं चैतन्यस्य न किं गुरुः। निर्वेदसमतायुक्त्या यस्तारयति संसृतेः॥९- ६॥
पश्य भूतविकारांस्त्वं भूतमात्रान् यथार्थतः। तत्क्षणाद् बन्धनिर्मुक्तः स्वरूपस्थो भविष्यसि॥९- ७॥
वासना एव संसार इति सर्वा विमुंच ताः। तत्त्यागो वासनात्यागात्स्थितिरद्य यथा तथा॥९- ८॥
अष्टावक्र उवाच॥ विहाय वैरिणं काममर्थं चानर्थसंकुलं। धर्ममप्येतयोर्हेतुं सर्वत्रादरं कुरु॥१०- १॥
स्वप्नेन्द्रजालवत् पश्य दिनानि त्रीणि पंच वा। मित्रक्षेत्रधनागारदारदायादिसंपदः॥१०- २॥
यत्र यत्र भवेत्तृष्णा संसारं विद्धि तत्र वै। प्रौढवैराग्यमाश्रित्य वीततृष्णः सुखी भव॥१०- ३॥
तृष्णामात्रात्मको बन्धस्तन्नाशो मोक्ष उच्यते। भवासंसक्तिमात्रेण प्राप्तितुष्टिर्मुहुर्मुहुः॥१०- ४॥
त्वमेकश्चेतनः शुद्धो जडं विश्वमसत्तथा। अविद्यापि न किंचित्सा का बुभुत्सा तथापि ते॥१०- ५॥
राज्यं सुताः कलत्राणि शरीराणि सुखानि च। संसक्तस्यापि नष्टानि तव जन्मनि जन्मनि॥१०- ६॥
अलमर्थेन कामेन सुकृतेनापि कर्मणा। एभ्यः संसारकान्तारे न विश्रान्तमभून् मनः॥१०- ७॥
कृतं न कति जन्मानि कायेन मनसा गिरा। दुःखमायासदं कर्म तदद्याप्युपरम्यताम्॥१०- ८॥
अष्टावक्र उवाच॥ भावाभावविकारश्च स्वभावादिति निश्चयी। निर्विकारो गतक्लेशः सुखेनैवोपशाम्यति॥११- १॥
ईश्वरः सर्वनिर्माता नेहान्य इति निश्चयी। अन्तर्गलितसर्वाशः शान्तः क्वापि न सज्जते॥११- २॥
आपदः संपदः काले दैवादेवेति निश्चयी। तृप्तः स्वस्थेन्द्रियो नित्यं न वान्छति न शोचति॥११- ३॥
सुखदुःखे जन्ममृत्यू दैवादेवेति निश्चयी। साध्यादर्शी निरायासः कुर्वन्नपि न लिप्यते॥११- ४॥
चिन्तया जायते दुःखं नान्यथेहेति निश्चयी। तया हीनः सुखी शान्तः सर्वत्र गलितस्पृहः॥११- ५॥
नाहं देहो न मे देहो बोधोऽहमिति निश्चयी। कैवल्यं इव संप्राप्तो न स्मरत्यकृतं कृतम्॥११- ६॥
आब्रह्मस्तंबपर्यन्तं अहमेवेति निश्चयी। निर्विकल्पः शुचिः शान्तः प्राप्ताप्राप्तविनिर्वृतः॥११- ७॥
नाश्चर्यमिदं विश्वं न किंचिदिति निश्चयी। निर्वासनः स्फूर्तिमात्रो न किंचिदिव शाम्यति॥११- ८॥
जनक उवाच॥ कायकृत्यासहः पूर्वं ततो वाग्विस्तरासहः। अथ चिन्तासहस्तस्माद् एवमेवाहमास्थितः॥१२- १॥
प्रीत्यभावेन शब्दादेरदृश्यत्वेन चात्मनः। विक्षेपैकाग्रहृदय एवमेवाहमास्थितः॥१२- २॥
समाध्यासादिविक्षिप्तौ व्यवहारः समाधये। एवं विलोक्य नियमं एवमेवाहमास्थितः॥१२- ३॥
हेयोपादेयविरहाद् एवं हर्षविषादयोः। अभावादद्य हे ब्रह्मन्न् एवमेवाहमास्थितः॥१२- ४॥
आश्रमानाश्रमं ध्यानं चित्तस्वीकृतवर्जनं। विकल्पं मम वीक्ष्यैतैरेवमेवाहमास्थितः॥१२- ५॥
कर्मानुष्ठानमज्ञानाद् यथैवोपरमस्तथा। बुध्वा सम्यगिदं तत्त्वं एवमेवाहमास्थितः॥१२- ६॥
अचिंत्यं चिंत्यमानोऽपि चिन्तारूपं भजत्यसौ। त्यक्त्वा तद्भावनं तस्माद् एवमेवाहमास्थितः॥१२- ७॥
एवमेव कृतं येन स कृतार्थो भवेदसौ। एवमेव स्वभावो यः स कृतार्थो भवेदसौ॥१२- ८॥
जनक उवाच॥ अकिंचनभवं स्वास्थं कौपीनत्वेऽपि दुर्लभं। त्यागादाने विहायास्मादहमासे यथासुखम्॥१३- १॥
कुत्रापि खेदः कायस्य जिह्वा कुत्रापि खेद्यते। मनः कुत्रापि तत्त्यक्त्वा पुरुषार्थे स्थितः सुखम्॥१३- २॥
कृतं किमपि नैव स्याद् इति संचिन्त्य तत्त्वतः। यदा यत्कर्तुमायाति तत् कृत्वासे यथासुखम्॥१३- ३॥
कर्मनैष्कर्म्यनिर्बन्धभावा देहस्थयोगिनः। संयोगायोगविरहादहमासे यथासुखम्॥१३- ४॥
अर्थानर्थौ न मे स्थित्या गत्या न शयनेन वा। तिष्ठन् गच्छन् स्वपन् तस्मादहमासे यथासुखम्॥१३- ५॥
स्वपतो नास्ति मे हानिः सिद्धिर्यत्नवतो न वा। नाशोल्लासौ विहायास्मदहमासे यथासुखम्॥१३- ६॥
सुखादिरूपा नियमं भावेष्वालोक्य भूरिशः। शुभाशुभे विहायास्मादहमासे यथासुखम्॥१३- ७॥
जनक उवाच॥ प्रकृत्या शून्यचित्तो यः प्रमादाद् भावभावनः। निद्रितो बोधित इव क्षीणसंस्मरणो हि सः॥१४- १॥
क्व धनानि क्व मित्राणि क्व मे विषयदस्यवः। क्व शास्त्रं क्व च विज्ञानं यदा मे गलिता स्पृहा॥१४- २॥
विज्ञाते साक्षिपुरुषे परमात्मनि चेश्वरे। नैराश्ये बंधमोक्षे च न चिंता मुक्तये मम॥१४- ३॥
अंतर्विकल्पशून्यस्य बहिः स्वच्छन्दचारिणः। भ्रान्तस्येव दशास्तास्तास्तादृशा एव जानते॥१४- ४॥
अष्टावक्र उवाच॥ यथातथोपदेशेन कृतार्थः सत्त्वबुद्धिमान्। आजीवमपि जिज्ञासुः परस्तत्र विमुह्यति॥१५- १॥
मोक्षो विषयवैरस्यं बन्धो वैषयिको रसः। एतावदेव विज्ञानं यथेच्छसि तथा कुरु॥१५- २॥
वाग्मिप्राज्ञानमहोद्योगं जनं मूकजडालसं। करोति तत्त्वबोधोऽयमतस्त्यक्तो बुभुक्षभिः॥१५- ३॥
न त्वं देहो न ते देहो भोक्ता कर्ता न वा भवान्। चिद्रूपोऽसि सदा साक्षी निरपेक्षः सुखं चर॥१५- ४॥
रागद्वेषौ मनोधर्मौ न मनस्ते कदाचन। निर्विकल्पोऽसि बोधात्मा निर्विकारः सुखं चर॥१५- ५॥
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि। विज्ञाय निरहंकारो निर्ममस्त्वं सुखी भव॥१५- ६॥
विश्वं स्फुरति यत्रेदं तरंगा इव सागरे। तत्त्वमेव न सन्देहश्चिन्मूर्ते विज्वरो भव॥१५- ७॥
श्रद्धस्व तात श्रद्धस्व नात्र मोऽहं कुरुष्व भोः। ज्ञानस्वरूपो भगवानात्मा त्वं प्रकृतेः परः॥१५- ८॥
गुणैः संवेष्टितो देहस्तिष्ठत्यायाति याति च। आत्मा न गंता नागंता किमेनमनुशोचसि॥१५- ९॥
देहस्तिष्ठतु कल्पान्तं गच्छत्वद्यैव वा पुनः। क्व वृद्धिः क्व च वा हानिस्तव चिन्मात्ररूपिणः॥१५- १०॥
त्वय्यनंतमहांभोधौ विश्ववीचिः स्वभावतः। उदेतु वास्तमायातु न ते वृद्धिर्न वा क्षतिः॥१५- ११॥
तात चिन्मात्ररूपोऽसि न ते भिन्नमिदं जगत्। अतः कस्य कथं कुत्र हेयोपादेयकल्पना॥१५- १२॥
एकस्मिन्नव्यये शान्ते चिदाकाशेऽमले त्वयि। कुतो जन्म कुतो कर्म कुतोऽहंकार एव च॥१५- १३॥
यत्त्वं पश्यसि तत्रैकस्त्वमेव प्रतिभाससे। किं पृथक् भासते स्वर्णात् कटकांगदनूपुरम्॥१५- १४॥
अयं सोऽहमयं नाहं विभागमिति संत्यज। सर्वमात्मेति निश्चित्य निःसङ्कल्पः सुखी भव॥१५- १५॥
तवैवाज्ञानतो विश्वं त्वमेकः परमार्थतः। त्वत्तोऽन्यो नास्ति संसारी नासंसारी च कश्चन॥१५- १६॥
भ्रान्तिमात्रमिदं विश्वं न किंचिदिति निश्चयी। निर्वासनः स्फूर्तिमात्रो न किंचिदिव शाम्यति॥१५- १७॥
एक एव भवांभोधावासीदस्ति भविष्यति। न ते बन्धोऽस्ति मोक्षो वा कृत्यकृत्यः सुखं चर॥१५- १८॥
मा सङ्कल्पविकल्पाभ्यां चित्तं क्षोभय चिन्मय। उपशाम्य सुखं तिष्ठ स्वात्मन्यानन्दविग्रहे॥१५- १९॥
त्यजैव ध्यानं सर्वत्र मा किंचिद् हृदि धारय। आत्मा त्वं मुक्त एवासि किं विमृश्य करिष्यसि॥१५- २०॥
अष्टावक्र उवाच॥ आचक्ष्व शृणु वा तात नानाशास्त्राण्यनेकशः। तथापि न तव स्वास्थ्यं सर्वविस्मरणाद् ऋते॥१६- १॥
भोगं कर्म समाधिं वा कुरु विज्ञ तथापि ते। चित्तं निरस्तसर्वाशमत्यर्थं रोचयिष्यति॥१६- २॥
आयासात्सकलो दुःखी नैनं जानाति कश्चन। अनेनैवोपदेशेन धन्यः प्राप्नोति निर्वृतिम्॥१६- ३॥
व्यापारे खिद्यते यस्तु निमेषोन्मेषयोरपि। तस्यालस्य धुरीणस्य सुखं नन्यस्य कस्यचित्॥१६- ४॥
इदं कृतमिदं नेति द्वंद्वैर्मुक्तं यदा मनः। धर्मार्थकाममोक्षेषु निरपेक्षं तदा भवेत्॥१६- ५॥
विरक्तो विषयद्वेष्टा रागी विषयलोलुपः। ग्रहमोक्षविहीनस्तु न विरक्तो न रागवान्॥१६- ६॥
हेयोपादेयता तावत्संसारविटपांकुरः। स्पृहा जीवति यावद् वै निर्विचारदशास्पदम्॥१६- ७॥
प्रवृत्तौ जायते रागो निर्वृत्तौ द्वेष एव हि। निर्द्वन्द्वो बालवद् धीमान् एवमेव व्यवस्थितः॥१६- ८॥
हातुमिच्छति संसारं रागी दुःखजिहासया। वीतरागो हि निर्दुःखस्तस्मिन्नपि न खिद्यति॥१६- ९॥
यस्याभिमानो मोक्षेऽपि देहेऽपि ममता तथा। न च ज्ञानी न वा योगी केवलं दुःखभागसौ॥१६- १०॥
हरो यद्युपदेष्टा ते हरिः कमलजोऽपि वा। तथापि न तव स्वाथ्यं सर्वविस्मरणादृते॥१६- ११॥
अष्टावक्र उवाच॥ तेन ज्ञानफलं प्राप्तं योगाभ्यासफलं तथा। तृप्तः स्वच्छेन्द्रियो नित्यं एकाकी रमते तु यः॥१७- १॥
न कदाचिज्जगत्यस्मिन् तत्त्वज्ञा हन्त खिद्यति। यत एकेन तेनेदं पूर्णं ब्रह्माण्डमण्डलम्॥१७- २॥
न जातु विषयाः केऽपि स्वारामं हर्षयन्त्यमी। सल्लकीपल्लवप्रीतमिवेभं निंबपल्लवाः॥१७- ३॥
यस्तु भोगेषु भुक्तेषु न भवत्यधिवासिता। अभुक्तेषु निराकांक्षी तदृशो भवदुर्लभः॥१७- ४॥
बुभुक्षुरिह संसारे मुमुक्षुरपि दृश्यते। भोगमोक्षनिराकांक्षी विरलो हि महाशयः॥१७- ५॥
धर्मार्थकाममोक्षेषु जीविते मरणे तथा। कस्याप्युदारचित्तस्य हेयोपादेयता न हि॥१७- ६॥
वांछा न विश्वविलये न द्वेषस्तस्य च स्थितौ। यथा जीविकया तस्माद् धन्य आस्ते यथा सुखम्॥१७- ७॥
कृतार्थोऽनेन ज्ञानेनेत्येवं गलितधीः कृती। पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन्नस्ते यथा सुखम्॥१७- ८॥
शून्या दृष्टिर्वृथा चेष्टा विकलानीन्द्रियाणि च। न स्पृहा न विरक्तिर्वा क्षीणसंसारसागरे॥१७- ९॥
न जगर्ति न निद्राति नोन्मीलति न मीलति। अहो परदशा क्वापि वर्तते मुक्तचेतसः॥१७- १०॥
सर्वत्र दृश्यते स्वस्थः सर्वत्र विमलाशयः। समस्तवासना मुक्तो मुक्तः सर्वत्र राजते॥१७- ११॥
पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन् गृण्हन् वदन् व्रजन्। ईहितानीहितैर्मुक्तो मुक्त एव महाशयः॥१७- १२॥
न निन्दति न च स्तौति न हृष्यति न कुप्यति। न ददाति न गृण्हाति मुक्तः सर्वत्र नीरसः॥१७- १३॥
सानुरागां स्त्रियं दृष्ट्वा मृत्युं वा समुपस्थितं। अविह्वलमनाः स्वस्थो मुक्त एव महाशयः॥१७- १४॥
सुखे दुःखे नरे नार्यां संपत्सु विपत्सु च। विशेषो नैव धीरस्य सर्वत्र समदर्शिनः॥१७- १५॥
न हिंसा नैव कारुण्यं नौद्धत्यं न च दीनता। नाश्चर्यं नैव च क्षोभः क्षीणसंसरणे नरे॥१७- १६॥
न मुक्तो विषयद्वेष्टा न वा विषयलोलुपः। असंसक्तमना नित्यं प्राप्ताप्राप्तमुपाश्नुते॥१७- १७॥
समाधानसमाधानहिताहितविकल्पनाः। शून्यचित्तो न जानाति कैवल्यमिव संस्थितः॥१७- १८॥
निर्ममो निरहंकारो न किंचिदिति निश्चितः। अन्तर्गलितसर्वाशः कुर्वन्नपि करोति न॥१७- १९॥
मनःप्रकाशसंमोहस्वप्नजाड्यविवर्जितः। दशां कामपि संप्राप्तो भवेद् गलितमानसः॥१७- २०॥
अष्टावक्र उवाच॥ यस्य बोधोदये तावत्स्वप्नवद् भवति भ्रमः। तस्मै सुखैकरूपाय नमः शान्ताय तेजसे॥१८- १॥
अर्जयित्वाखिलान् अर्थान् भोगानाप्नोति पुष्कलान्। न हि सर्वपरित्याजमन्तरेण सुखी भवेत्॥१८- २॥
कर्तव्यदुःखमार्तण्डज्वालादग्धान्तरात्मनः। कुतः प्रशमपीयूषधारासारमृते सुखम्॥१८- ३॥
भवोऽयं भावनामात्रो न किंचित् परमर्थतः। नास्त्यभावः स्वभावनां भावाभावविभाविनाम्॥१८- ४॥
न दूरं न च संकोचाल्लब्धमेवात्मनः पदं। निर्विकल्पं निरायासं निर्विकारं निरंजनम्॥१८- ५॥
व्यामोहमात्रविरतौ स्वरूपादानमात्रतः। वीतशोका विराजन्ते निरावरणदृष्टयः॥१८- ६॥
समस्तं कल्पनामात्रमात्मा मुक्तः सनातनः। इति विज्ञाय धीरो हि किमभ्यस्यति बालवत्॥१८- ७॥
आत्मा ब्रह्मेति निश्चित्य भावाभावौ च कल्पितौ। निष्कामः किं विजानाति किं ब्रूते च करोति किम्॥१८- ८॥
अयं सोऽहमयं नाहं इति क्षीणा विकल्पना। सर्वमात्मेति निश्चित्य तूष्णींभूतस्य योगिनः॥१८- ९॥
न विक्षेपो न चैकाग्र्यं नातिबोधो न मूढता। न सुखं न च वा दुःखं उपशान्तस्य योगिनः॥१८- १०॥
स्वाराज्ये भैक्षवृत्तौ च लाभालाभे जने वने। निर्विकल्पस्वभावस्य न विशेषोऽस्ति योगिनः॥१८- ११॥
क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता। इदं कृतमिदं नेति द्वन्द्वैर्मुक्तस्य योगिनः॥१८- १२॥
कृत्यं किमपि नैवास्ति न कापि हृदि रंजना। यथा जीवनमेवेह जीवन्मुक्तस्य योगिनः॥१८- १३॥
क्व मोहः क्व च वा विश्वं क्व तद् ध्यानं क्व मुक्तता। सर्वसंकल्पसीमायां विश्रान्तस्य महात्मनः॥१८- १४॥
येन विश्वमिदं दृष्टं स नास्तीति करोतु वै। निर्वासनः किं कुरुते पश्यन्नपि न पश्यति॥१८- १५॥
येन दृष्टं परं ब्रह्म सोऽहं ब्रह्मेति चिन्तयेत्। किं चिन्तयति निश्चिन्तो द्वितीयं यो न पश्यति॥१८- १६॥
दृष्टो येनात्मविक्षेपो निरोधं कुरुते त्वसौ। उदारस्तु न विक्षिप्तः साध्याभावात्करोति किम्॥१८- १७॥
धीरो लोकविपर्यस्तो वर्तमानोऽपि लोकवत्। नो समाधिं न विक्षेपं न लोपं स्वस्य पश्यति॥१८- १८॥
भावाभावविहीनो यस्तृप्तो निर्वासनो बुधः। नैव किंचित्कृतं तेन लोकदृष्ट्या विकुर्वता॥१८- १९॥
प्रवृत्तौ वा निवृत्तौ वा नैव धीरस्य दुर्ग्रहः। यदा यत्कर्तुमायाति तत्कृत्वा तिष्ठते सुखम्॥१८- २०॥
निर्वासनो निरालंबः स्वच्छन्दो मुक्तबन्धनः। क्षिप्तः संस्कारवातेन चेष्टते शुष्कपर्णवत्॥१८- २१॥
असंसारस्य तु क्वापि न हर्षो न विषादिता। स शीतलहमना नित्यं विदेह इव राजये॥१८- २२॥
कुत्रापि न जिहासास्ति नाशो वापि न कुत्रचित्। आत्मारामस्य धीरस्य शीतलाच्छतरात्मनः॥१८- २३॥
प्रकृत्या शून्यचित्तस्य कुर्वतोऽस्य यदृच्छया। प्राकृतस्येव धीरस्य न मानो नावमानता॥१८- २४॥
कृतं देहेन कर्मेदं न मया शुद्धरूपिणा। इति चिन्तानुरोधी यः कुर्वन्नपि करोति न॥१८- २५॥
अतद्वादीव कुरुते न भवेदपि बालिशः। जीवन्मुक्तः सुखी श्रीमान् संसरन्नपि शोभते॥१८- २६॥
नाविचारसुश्रान्तो धीरो विश्रान्तिमागतः। न कल्पते न जाति न शृणोति न पश्यति॥१८- २७॥
असमाधेरविक्षेपान् न मुमुक्षुर्न चेतरः। निश्चित्य कल्पितं पश्यन् ब्रह्मैवास्ते महाशयः॥१८- २८॥
यस्यान्तः स्यादहंकारो न करोति करोति सः। निरहंकारधीरेण न किंचिदकृतं कृतम्॥१८- २९॥
नोद्विग्नं न च सन्तुष्टमकर्तृ स्पन्दवर्जितं। निराशं गतसन्देहं चित्तं मुक्तस्य राजते॥१८- ३०॥
निर्ध्यातुं चेष्टितुं वापि यच्चित्तं न प्रवर्तते। निर्निमित्तमिदं किंतु निर्ध्यायेति विचेष्टते॥१८- ३१॥
तत्त्वं यथार्थमाकर्ण्य मन्दः प्राप्नोति मूढतां। अथवा याति संकोचममूढः कोऽपि मूढवत्॥१८- ३२॥
एकाग्रता निरोधो वा मूढैरभ्यस्यते भृशं। धीराः कृत्यं न पश्यन्ति सुप्तवत्स्वपदे स्थिताः॥१८- ३३॥
अप्रयत्नात् प्रयत्नाद् वा मूढो नाप्नोति निर्वृतिं। तत्त्वनिश्चयमात्रेण प्राज्ञो भवति निर्वृतः॥१८- ३४॥
शुद्धं बुद्धं प्रियं पूर्णं निष्प्रपंचं निरामयं। आत्मानं तं न जानन्ति तत्राभ्यासपरा जनाः॥१८- ३५॥
नाप्नोति कर्मणा मोक्षं विमूढोऽभ्यासरूपिणा। धन्यो विज्ञानमात्रेण मुक्तस्तिष्ठत्यविक्रियः॥१८- ३६॥
मूढो नाप्नोति तद् ब्रह्म यतो भवितुमिच्छति। अनिच्छन्नपि धीरो हि परब्रह्मस्वरूपभाक्॥१८- ३७॥
निराधारा ग्रहव्यग्रा मूढाः संसारपोषकाः। एतस्यानर्थमूलस्य मूलच्छेदः कृतो बुधैः॥१८- ३८॥
न शान्तिं लभते मूढो यतः शमितुमिच्छति। धीरस्तत्त्वं विनिश्चित्य सर्वदा शान्तमानसः॥१८- ३९॥
क्वात्मनो दर्शनं तस्य यद् दृष्टमवलंबते। धीरास्तं तं न पश्यन्ति पश्यन्त्यात्मानमव्ययम्॥१८- ४०॥
क्व निरोधो विमूढस्य यो निर्बन्धं करोति वै। स्वारामस्यैव धीरस्य सर्वदासावकृत्रिमः॥१८- ४१॥
भावस्य भावकः कश्चिन् न किंचिद् भावकोपरः। उभयाभावकः कश्चिद् एवमेव निराकुलः॥१८- ४२॥
शुद्धमद्वयमात्मानं भावयन्ति कुबुद्धयः। न तु जानन्ति संमोहाद्यावज्जीवमनिर्वृताः॥१८- ४३॥
मुमुक्षोर्बुद्धिरालंबमन्तरेण न विद्यते। निरालंबैव निष्कामा बुद्धिर्मुक्तस्य सर्वदा॥१८- ४४॥
विषयद्वीपिनो वीक्ष्य चकिताः शरणार्थिनः। विशन्ति झटिति क्रोडं निरोधैकाग्रसिद्धये॥१८- ४५॥
निर्वासनं हरिं दृष्ट्वा तूष्णीं विषयदन्तिनः। पलायन्ते न शक्तास्ते सेवन्ते कृतचाटवः॥१८- ४६॥
न मुक्तिकारिकां धत्ते निःशङ्को युक्तमानसः। पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन्नास्ते यथासुखम्॥१८- ४७॥
वस्तुश्रवणमात्रेण शुद्धबुद्धिर्निराकुलः। नैवाचारमनाचारमौदास्यं वा प्रपश्यति॥१८- ४८॥
यदा यत्कर्तुमायाति तदा तत्कुरुते ऋजुः। शुभं वाप्यशुभं वापि तस्य चेष्टा हि बालवत्॥१८- ४९॥
स्वातंत्र्यात्सुखमाप्नोति स्वातंत्र्याल्लभते परं। स्वातंत्र्यान्निर्वृतिं गच्छेत्स्वातंत्र्यात् परमं पदम्॥१८- ५०॥
अकर्तृत्वमभोक्तृत्वं स्वात्मनो मन्यते यदा। तदा क्षीणा भवन्त्येव समस्ताश्चित्तवृत्तयः॥१८- ५१॥
उच्छृंखलाप्यकृतिका स्थितिर्धीरस्य राजते। न तु सस्पृहचित्तस्य शान्तिर्मूढस्य कृत्रिमा॥१८- ५२॥
विलसन्ति महाभोगैर्विशन्ति गिरिगह्वरान्। निरस्तकल्पना धीरा अबद्धा मुक्तबुद्धयः॥१८- ५३॥
श्रोत्रियं देवतां तीर्थमङ्गनां भूपतिं प्रियं। दृष्ट्वा संपूज्य धीरस्य न कापि हृदि वासना॥१८- ५४॥
भृत्यैः पुत्रैः कलत्रैश्च दौहित्रैश्चापि गोत्रजैः। विहस्य धिक्कृतो योगी न याति विकृतिं मनाक्॥१८- ५५॥
सन्तुष्टोऽपि न सन्तुष्टः खिन्नोऽपि न च खिद्यते। तस्याश्चर्यदशां तां तां तादृशा एव जानते॥१८- ५६॥
कर्तव्यतैव संसारो न तां पश्यन्ति सूरयः। शून्याकारा निराकारा निर्विकारा निरामयाः॥१८- ५७॥
अकुर्वन्नपि संक्षोभाद् व्यग्रः सर्वत्र मूढधीः। कुर्वन्नपि तु कृत्यानि कुशलो हि निराकुलः॥१८- ५८॥
सुखमास्ते सुखं शेते सुखमायाति याति च। सुखं वक्ति सुखं भुंक्ते व्यवहारेऽपि शान्तधीः॥१८- ५९॥
स्वभावाद्यस्य नैवार्तिर्लोकवद् व्यवहारिणः। महाहृद इवाक्षोभ्यो गतक्लेशः स शोभते॥१८- ६०॥
निवृत्तिरपि मूढस्य प्रवृत्ति रुपजायते। प्रवृत्तिरपि धीरस्य निवृत्तिफलभागिनी॥१८- ६१॥
परिग्रहेषु वैराग्यं प्रायो मूढस्य दृश्यते। देहे विगलिताशस्य क्व रागः क्व विरागता॥१८- ६२॥
भावनाभावनासक्ता दृष्टिर्मूढस्य सर्वदा। भाव्यभावनया सा तु स्वस्थस्यादृष्टिरूपिणी॥१८- ६३॥
सर्वारंभेषु निष्कामो यश्चरेद् बालवन् मुनिः। न लेपस्तस्य शुद्धस्य क्रियमाणोऽपि कर्मणि॥१८- ६४॥
स एव धन्य आत्मज्ञः सर्वभावेषु यः समः। पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन्निस्तर्षमानसः॥१८- ६५॥
क्व संसारः क्व चाभासः क्व साध्यं क्व च साधनं। आकाशस्येव धीरस्य निर्विकल्पस्य सर्वदा॥१८- ६६॥
स जयत्यर्थसंन्यासी पूर्णस्वरसविग्रहः। अकृत्रिमोऽनवच्छिन्ने समाधिर्यस्य वर्तते॥१८- ६७॥
बहुनात्र किमुक्तेन ज्ञाततत्त्वो महाशयः। भोगमोक्षनिराकांक्षी सदा सर्वत्र नीरसः॥१८- ६८॥
महदादि जगद्द्वैतं नाममात्रविजृंभितं। विहाय शुद्धबोधस्य किं कृत्यमवशिष्यते॥१८- ६९॥
भ्रमभृतमिदं सर्वं किंचिन्नास्तीति निश्चयी। अलक्ष्यस्फुरणः शुद्धः स्वभावेनैव शाम्यति॥१८- ७०॥
शुद्धस्फुरणरूपस्य दृश्यभावमपश्यतः। क्व विधिः क्व वैराग्यं क्व त्यागः क्व शमोऽपि वा॥१८- ७१॥
स्फुरतोऽनन्तरूपेण प्रकृतिं च न पश्यतः। क्व बन्धः क्व च वा मोक्षः क्व हर्षः क्व विषादिता॥१८- ७२॥
बुद्धिपर्यन्तसंसारे मायामात्रं विवर्तते। निर्ममो निरहंकारो निष्कामः शोभते बुधः॥१८- ७३॥
अक्षयं गतसन्तापमात्मानं पश्यतो मुनेः। क्व विद्या च क्व वा विश्वं क्व देहोऽहं ममेति वा॥१८- ७४॥
निरोधादीनि कर्माणि जहाति जडधीर्यदि। मनोरथान् प्रलापांश्च कर्तुमाप्नोत्यतत्क्षणात्॥१८- ७५॥
मन्दः श्रुत्वापि तद्वस्तु न जहाति विमूढतां। निर्विकल्पो बहिर्यत्नादन्तर्विषयलालसः॥१८- ७६॥
ज्ञानाद् गलितकर्मा यो लोकदृष्ट्यापि कर्मकृत्। नाप्नोत्यवसरं कर्मं वक्तुमेव न किंचन॥१८- ७७॥
क्व तमः क्व प्रकाशो वा हानं क्व च न किंचन। निर्विकारस्य धीरस्य निरातंकस्य सर्वदा॥१८- ७८॥
क्व धैर्यं क्व विवेकित्वं क्व निरातंकतापि वा। अनिर्वाच्यस्वभावस्य निःस्वभावस्य योगिनः॥१८- ७९॥
न स्वर्गो नैव नरको जीवन्मुक्तिर्न चैव हि। बहुनात्र किमुक्तेन योगदृष्ट्या न किंचन॥१८- ८०॥
नैव प्रार्थयते लाभं नालाभेनानुशोचति। धीरस्य शीतलं चित्तममृतेनैव पूरितम्॥१८- ८१॥
न शान्तं स्तौति निष्कामो न दुष्टमपि निन्दति। समदुःखसुखस्तृप्तः किंचित् कृत्यं न पश्यति॥१८- ८२॥
धीरो न द्वेष्टि संसारमात्मानं न दिदृक्षति। हर्षामर्षविनिर्मुक्तो न मृतो न च जीवति॥१८- ८३॥
निःस्नेहः पुत्रदारादौ निष्कामो विषयेषु च। निश्चिन्तः स्वशरीरेऽपि निराशः शोभते बुधः॥१८- ८४॥
तुष्टिः सर्वत्र धीरस्य यथापतितवर्तिनः। स्वच्छन्दं चरतो देशान् यत्रस्तमितशायिनः॥१८- ८५॥
पततूदेतु वा देहो नास्य चिन्ता महात्मनः। स्वभावभूमिविश्रान्तिविस्मृताशेषसंसृतेः॥१८- ८६॥
अकिंचनः कामचारो निर्द्वन्द्वश्छिन्नसंशयः। असक्तः सर्वभावेषु केवलो रमते बुधः॥१८- ८७॥
निर्ममः शोभते धीरः समलोष्टाश्मकांचनः। सुभिन्नहृदयग्रन्थिर्विनिर्धूतरजस्तमः॥१८- ८८॥
सर्वत्रानवधानस्य न किंचिद् वासना हृदि। मुक्तात्मनो वितृप्तस्य तुलना केन जायते॥१८- ८९॥
जानन्नपि न जानाति पश्यन्नपि न पश्यति। ब्रुवन्न् अपि न च ब्रूते कोऽन्यो निर्वासनादृते॥१८- ९०॥
भिक्षुर्वा भूपतिर्वापि यो निष्कामः स शोभते। भावेषु गलिता यस्य शोभनाशोभना मतिः॥१८- ९१॥
क्व स्वाच्छन्द्यं क्व संकोचः क्व वा तत्त्वविनिश्चयः। निर्व्याजार्जवभूतस्य चरितार्थस्य योगिनः॥१८- ९२॥
आत्मविश्रान्तितृप्तेन निराशेन गतार्तिना। अन्तर्यदनुभूयेत तत् कथं कस्य कथ्यते॥१८- ९३॥
सुप्तोऽपि न सुषुप्तौ च स्वप्नेऽपि शयितो न च। जागरेऽपि न जागर्ति धीरस्तृप्तः पदे पदे॥१८- ९४॥
ज्ञः सचिन्तोऽपि निश्चिन्तः सेन्द्रियोऽपि निरिन्द्रियः। सुबुद्धिरपि निर्बुद्धिः साहंकारोऽनहङ्कृतिः॥१८- ९५॥
न सुखी न च वा दुःखी न विरक्तो न संगवान्। न मुमुक्षुर्न वा मुक्ता न किंचिन्न्न च किंचन॥१८- ९६॥
विक्षेपेऽपि न विक्षिप्तः समाधौ न समाधिमान्। जाड्येऽपि न जडो धन्यः पाण्डित्येऽपि न पण्डितः॥१८- ९७॥
मुक्तो यथास्थितिस्वस्थः कृतकर्तव्यनिर्वृतः। समः सर्वत्र वैतृष्ण्यान्न स्मरत्यकृतं कृतम्॥१८- ९८॥
न प्रीयते वन्द्यमानो निन्द्यमानो न कुप्यति। नैवोद्विजति मरणे जीवने नाभिनन्दति॥१८- ९९॥
न धावति जनाकीर्णं नारण्यं उपशान्तधीः। यथातथा यत्रतत्र सम एवावतिष्ठते॥१८- १००॥
जनक उवाच॥ तत्त्वविज्ञानसन्दंशमादाय हृदयोदरात्। नाविधपरामर्शशल्योद्धारः कृतो मया॥१९- १॥
क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता। क्व द्वैतं क्व च वाऽद्वैतं स्वमहिम्नि स्थितस्य मे॥१९- २॥
क्व भूतं क्व भविष्यद् वा वर्तमानमपि क्व वा। क्व देशः क्व च वा नित्यं स्वमहिम्नि स्थितस्य मे॥१९- ३॥
क्व चात्मा क्व च वानात्मा क्व शुभं क्वाशुभं यथा। क्व चिन्ता क्व च वाचिन्ता स्वमहिम्नि स्थितस्य मे॥१९- ४॥
क्व स्वप्नः क्व सुषुप्तिर्वा क्व च जागरणं तथा। क्व तुरियं भयं वापि स्वमहिम्नि स्थितस्य मे॥१९- ५॥
क्व दूरं क्व समीपं वा बाह्यं क्वाभ्यन्तरं क्व वा। क्व स्थूलं क्व च वा सूक्ष्मं स्वमहिम्नि स्थितस्य मे॥१९- ६॥
क्व मृत्युर्जीवितं वा क्व लोकाः क्वास्य क्व लौकिकं। क्व लयः क्व समाधिर्वा स्वमहिम्नि स्थितस्य मे॥१९- ७॥
अलं त्रिवर्गकथया योगस्य कथयाप्यलं। अलं विज्ञानकथया विश्रान्तस्य ममात्मनि॥१९- ८॥
जनक उवाच॥ क्व भूतानि क्व देहो वा क्वेन्द्रियाणि क्व वा मनः। क्व शून्यं क्व च नैराश्यं मत्स्वरूपे निरंजने॥२०- १॥
क्व शास्त्रं क्वात्मविज्ञानं क्व वा निर्विषयं मनः। क्व तृप्तिः क्व वितृष्णात्वं गतद्वन्द्वस्य मे सदा॥२०- २॥
क्व विद्या क्व च वाविद्या क्वाहं क्वेदं मम क्व वा। क्व बन्ध क्व च वा मोक्षः स्वरूपस्य क्व रूपिता॥२०- ३॥
क्व प्रारब्धानि कर्माणि जीवन्मुक्तिरपि क्व वा। क्व तद् विदेहकैवल्यं निर्विशेषस्य सर्वदा॥२०- ४॥
क्व कर्ता क्व च वा भोक्ता निष्क्रियं स्फुरणं क्व वा। क्वापरोक्षं फलं वा क्व निःस्वभावस्य मे सदा॥२०- ५॥
क्व लोकं क्व मुमुक्षुर्वा क्व योगी ज्ञानवान् क्व वा। क्व बद्धः क्व च वा मुक्तः स्वस्वरूपेऽहमद्वये॥२०- ६॥
क्व सृष्टिः क्व च संहारः क्व साध्यं क्व च साधनं। क्व साधकः क्व सिद्धिर्वा स्वस्वरूपेऽहमद्वये॥२०- ७॥
क्व प्रमाता प्रमाणं वा क्व प्रमेयं क्व च प्रमा। क्व किंचित् क्व न किंचिद् वा सर्वदा विमलस्य मे॥२०- ८॥
क्व विक्षेपः क्व चैकाग्र्यं क्व निर्बोधः क्व मूढता। क्व हर्षः क्व विषादो वा सर्वदा निष्क्रियस्य मे॥२०- ९॥
क्व चैष व्यवहारो वा क्व च सा परमार्थता। क्व सुखं क्व च वा दुखं निर्विमर्शस्य मे सदा॥२०- १०॥
क्व माया क्व च संसारः क्व प्रीतिर्विरतिः क्व वा। क्व जीवः क्व च तद्ब्रह्म सर्वदा विमलस्य मे॥२०- ११॥
क्व प्रवृत्तिर्निर्वृत्तिर्वा क्व मुक्तिः क्व च बन्धनं। कूटस्थनिर्विभागस्य स्वस्थस्य मम सर्वदा॥२०- १२॥
क्वोपदेशः क्व वा शास्त्रं क्व शिष्यः क्व च वा गुरुः। क्व चास्ति पुरुषार्थो वा निरुपाधेः शिवस्य मे॥२०- १३॥
क्व चास्ति क्व च वा नास्ति क्वास्ति चैकं क्व च द्वयं। बहुनात्र किमुक्तेन किंचिन्नोत्तिष्ठते मम॥२०- १४॥
॥ॐ तत्सत्॥
॥śrī॥ atha śrīmadaṣṭāvakragītā prārabhyate॥
janaka uvāc॥ kathaṃ jñānamavāpnoti kathaṃ muktirbhaviṣyati। vairāgyaṃ ca kathaṃ prāptaṃ etad brūhi mama prabho॥1- 1॥
aṣṭāvakra uvāc॥ muktiṃ icchasi cettāta viṣayān viṣavattyaj। kṣamārjavadayātoṣasatyaṃ pīyūṣavad bhaj॥1- 2॥
na pṛthvī na jalaṃ nāgnirna vāyurdyaurna vā bhavān। eṣāṃ sākṣiṇamātmānaṃ cidrūpaṃ viddhi muktaye॥1- 3॥
yadi dehaṃ pṛthak kṛtya citi viśrāmya tiṣṭhasi। adhunaiva sukhī śānto bandhamukto bhaviṣyasi॥1- 4॥
na tvaṃ viprādiko varṇo nāśramī nākṣagocaraḥ। asaṅgo ̕si nirākāro viśvasākṣī sukhī bhav॥1- 5॥
dharmādharmau sukhaṃ duḥkhaṃ mānasāni na te vibho। na kartāsi na bhoktāsi mukta evāsi sarvadā॥1- 6॥
eko draṣṭāsi sarvasya muktaprāyo ̕si sarvadā। ayameva hi te bandho draṣṭāraṃ paśyasītaram॥1- 7॥
ahaṃ kartetyahaṃmānamahākṛṣṇāhidaṃśitaḥ। nāhaṃ karteti viśvāsāmṛtaṃ pītvā sukhī bhav॥1- 8॥
eko viśuddhabodho ̕haṃ iti niścayavahninā। prajvālyājñānagahanaṃ vītaśokaḥ sukhī bhav॥1- 9॥
yatra viśvamidaṃ bhāti kalpitaṃ rajjusarpavat। ānandaparamānandaḥ sa bodhastvaṃ sukhaṃ bhav॥1- 10॥
muktābhimānī mukto hi baddho baddhābhimānyapi। kiṃvadantīha satyeyaṃ yā matiḥ sā gatirbhavet॥1- 11॥
ātmā sākṣī vibhuḥ pūrṇa eko muktaścidakriyaḥ। asaṃgo niḥspṛhaḥ śānto bhramātsaṃsāravāniv॥1- 12॥
kūṭasthaṃ bodhamadvaitamātmānaṃ paribhāvay। ābhāso ̕haṃ bhramaṃ muktvā bhāvaṃ bāhyamathāntaram॥1- 13॥
dehābhimānapāśena ciraṃ baddho ̕si putrak। bodho ̕haṃ jñānakhaṃgena taḥnikṛtya sukhī bhav॥1- 14॥
niḥsaṃgo niṣkriyo ̕si tvaṃ svaprakāśo niraṃjanaḥ। ayameva hi te bandhaḥ samādhimanutiṣṭhati॥1- 15॥
tvayā vyāptamidaṃ viśvaṃ tvayi protaṃ yathārthataḥ। śuddhabuddhasvarūpastvaṃ mā gamaḥ kṣudracittatām॥1- 16॥
nirapekṣo nirvikāro nirbharaḥ śītalāśayaḥ। agādhabuddhirakṣubdho bhava cinmātravāsanaḥ॥1- 17॥
sākāramanṛtaṃ viddhi nirākāraṃ tu niścalaṃ। etattattvopadeśena na punarbhavasaṃbhavaḥ॥1- 18॥
yathaivādarśamadhyasthe rūpe ̕ntaḥ paritastu saḥ। tathaivā ̕smin śarīre ̕ntaḥ paritaḥ parameśvaraḥ॥1- 19॥
ekaṃ sarvagataṃ vyoma bahirantaryathā ghaṭe। nityaṃ nirantaraṃ brahma sarvabhūtagaṇe tathā॥1- 20॥
janaka uvāc॥ aho niraṃjanaḥ śānto bodho ̕haṃ prakṛteḥ paraḥ। etāvantamahaṃ kālaṃ mohenaiva viḍaṃbitaḥ॥2- 1॥
yathā prakāśayāmyeko dehamenaṃ tathā jagat। ato mama jagatsarvamathavā na ca kiṃcan॥2- 2॥
sa śarīramaho viśvaṃ parityajya mayādhunā। kutaścit kauśalād eva paramātmā vilokyate॥2- 3॥
yathā na toyato bhinnāstaraṃgāḥ phenabudbudāḥ। ātmano na tathā bhinnaṃ viśvamātmavinirgatam॥2- 4॥
tantumātro bhaved eva paṭo yadvad vicāritaḥ। ātmatanmātramevedaṃ tadvad viśvaṃ vicāritam॥2- 5॥
yathaivekṣurase klṛptā tena vyāptaiva śarkarā। tathā viśvaṃ mayi klṛptaṃ mayā vyāptaṃ nirantaram॥2- 6॥
ātmajñānājjagad bhāti ātmajñānānna bhāsate। rajjvajñānādahirbhāti tajjñānād bhāsate na hi॥2- 7॥
prakāśo me nijaṃ rūpaṃ nātirikto ̕smyahaṃ tataḥ। yadā prakāśate viśvaṃ tadāhaṃ bhāsa eva hi॥2- 8॥
aho vikalpitaṃ viśvamajñānānmayi bhāsate। rūpyaṃ śuktau phaṇī rajjau vāri sūryakare yathā॥2- 9॥
matto vinirgataṃ viśvaṃ mayyeva layameṣyati। mṛdi kuṃbho jale vīciḥ kanake kaṭakaṃ yathā॥2- 10॥
aho ahaṃ namo mahyaṃ vināśo yasya nāsti me। brahmādistaṃbaparyantaṃ jagannāśo ̕pi tiṣṭhataḥ॥2- 11॥
aho ahaṃ namo mahyaṃ eko ̕haṃ dehavānapi। kvacinna gantā nāgantā vyāpya viśvamavasthitaḥ॥2- 12॥
aho ahaṃ namo mahyaṃ dakṣo nāstīha matsamaḥ। asaṃspṛśya śarīreṇa yena viśvaṃ ciraṃ dhṛtam॥2- 13॥
aho ahaṃ namo mahyaṃ yasya me nāsti kiṃcan। athavā yasya me sarvaṃ yad vāṅmanasagocaram॥2- 14॥
jñānaṃ jñeyaṃ tathā jñātā tritayaṃ nāsti vāstavaṃ। ajñānād bhāti yatredaṃ so ̕hamasmi niraṃjanaḥ॥2- 15॥
dvaitamūlamaho duḥkhaṃ nānyattasyā ̕sti bheṣajaṃ। dṛśyametan mṛṣā sarvaṃ eko ̕haṃ cidrasomalaḥ॥2- 16॥
bodhamātro ̕hamajñānād upādhiḥ kalpito mayā। evaṃ vimṛśato nityaṃ nirvikalpe sthitirmam॥2- 17॥
na me bandho ̕sti mokṣo vā bhrāntiḥ śānto nirāśrayā। aho mayi sthitaṃ viśvaṃ vastuto na mayi sthitam॥2- 18॥
saśarīramidaṃ viśvaṃ na kiṃciditi niścitaṃ। śuddhacinmātra ātmā ca tatkasmin kalpanādhunā॥2- 19॥
śarīraṃ svarganarakau bandhamokṣau bhayaṃ tathā। kalpanāmātramevaitat kiṃ me kāryaṃ cidātmanaḥ॥2- 20॥
aho janasamūhe ̕pi na dvaitaṃ paśyato mam। araṇyamiva saṃvṛttaṃ kva ratiṃ karavāṇyaham॥2- 21॥
nāhaṃ deho na me deho jīvo nāhamahaṃ hi cit। ayameva hi me bandha āsīdyā jīvite spṛhā॥2- 22॥
aho bhuvanakallolairvicitrairdrāk samutthitaṃ। mayyanaṃtamahāṃbhodhau cittavāte samudyate॥2- 23॥
mayyanaṃtamahāṃbhodhau cittavāte praśāmyati। abhāgyājjīvavaṇijo jagatpoto vinaśvaraḥ॥2- 24॥
mayyanantamahāṃbhodhāvāścaryaṃ jīvavīcayaḥ। udyanti ghnanti khelanti praviśanti svabhāvataḥ॥2- 25॥
aṣṭāvakra uvāc॥ avināśinamātmānaṃ ekaṃ vijñāya tattvataḥ। tavātmajñānasya dhīrasya kathamarthārjane ratiḥ॥3- 1॥
ātmājñānādaho prītirviṣayabhramagocare। śukterajñānato lobho yathā rajatavibhrame॥3- 2॥
viśvaṃ sphurati yatredaṃ taraṅgā iva sāgare। so ̕hamasmīti vijñāya kiṃ dīna iva dhāvasi॥3- 3॥
śrutvāpi śuddhacaitanya ātmānamatisundaraṃ। upasthe ̕tyantasaṃsakto mālinyamadhigacchati॥3- 4॥
sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani। munerjānata āścaryaṃ mamatvamanuvartate॥3- 5॥
āsthitaḥ paramādvaitaṃ mokṣārthe ̕pi vyavasthitaḥ। āścaryaṃ kāmavaśago vikalaḥ keliśikṣayā॥3- 6॥
udbhūtaṃ jñānadurmitramavadhāryātidurbalaḥ। āścaryaṃ kāmamākāṅkṣet kālamantamanuśritaḥ॥3- 7॥
ihāmutra viraktasya nityānityavivekinaḥ। āścaryaṃ mokṣakāmasya mokṣād eva vibhīṣikā॥3- 8॥
dhīrastu bhojyamāno ̕pi pīḍyamāno ̕pi sarvadā। ātmānaṃ kevalaṃ paśyan na tuṣyati na kupyati॥3- 9॥
ceṣṭamānaṃ śarīraṃ svaṃ paśyatyanyaśarīravat। saṃstave cāpi nindāyāṃ kathaṃ kṣubhyet mahāśayaḥ॥3- 10॥
māyāmātramidaṃ viśvaṃ paśyan vigatakautukaḥ। api sannihite mṛtyau kathaṃ trasyati dhīradhīḥ॥3- 11॥
niḥspṛhaṃ mānasaṃ yasya nairāśye ̕pi mahātmanaḥ। tasyātmajñānatṛptasya tulanā kena jāyate॥3- 12॥
svabhāvād eva jānāno dṛśyametanna kiṃcan। idaṃ grāhyamidaṃ tyājyaṃ sa kiṃ paśyati dhīradhīḥ॥3- 13॥
aṃtastyaktakaṣāyasya nirdvandvasya nirāśiṣaḥ। yadṛcchayāgato bhogo na duḥkhāya na tuṣṭaye॥3- 14॥
aṣṭāvakra uvāc॥ hantātmajñānasya dhīrasya khelato bhogalīlayā। na hi saṃsāravāhīkairmūḍhaiḥ saha samānatā॥4- 1॥
yat padaṃ prepsavo dīnāḥ śakrādyāḥ sarvadevatāḥ। aho tatra sthito yogī na harṣamupagacchati॥4- 2॥
tajjñasya puṇyapāpābhyāṃ sparśo hyantarna jāyate। na hyākāśasya dhūmena dṛśyamānāpi saṅgatiḥ॥4- 3॥
ātmaivedaṃ jagatsarvaṃ jñātaṃ yena mahātmanā। yadṛcchayā vartamānaṃ taṃ niṣeddhuṃ kṣameta kaḥ॥4- 4॥
ābrahmastaṃbaparyante bhūtagrāme caturvidhe। vijñasyaiva hi sāmarthyamicchānicchāvivarjane॥4- 5॥
ātmānamadvayaṃ kaścijjānāti jagadīśvaraṃ। yad vetti tatsa kurute na bhayaṃ tasya kutracit॥4- 6॥
aṣṭāvakra uvāc॥ na te saṃgo ̕sti kenāpi kiṃ śuddhastyaktumicchasi। saṃghātavilayaṃ kurvannevameva layaṃ vraj॥5- 1॥
udeti bhavato viśvaṃ vāridheriva budbudaḥ। iti jñātvaikamātmānaṃ evameva layaṃ vraj॥5- 2॥
pratyakṣamapyavastutvād viśvaṃ nāstyamale tvayi। rajjusarpa iva vyaktaṃ evameva layaṃ vraj॥5- 3॥
samaduḥkhasukhaḥ pūrṇa āśānairāśyayoḥ samaḥ। samajīvitamṛtyuḥ sannevameva layaṃ vraj॥5- 4॥
aṣṭāvakra uvāc॥ ākāśavadananto ̕haṃ ghaṭavat prākṛtaṃ jagat। iti jñānaṃ tathaitasya na tyāgo na graho layaḥ॥6- 1॥
mahodadhirivāhaṃ sa prapaṃco vīcis ̕nnibhaḥ। iti jñānaṃ tathaitasya na tyāgo na graho layaḥ॥6- 2॥
ahaṃ sa śuktisaṅkāśo rūpyavad viśvakalpanā। iti jñānaṃ tathaitasya na tyāgo na graho layaḥ॥6- 3॥
ahaṃ vā sarvabhūteṣu sarvabhūtānyatho mayi। iti jñānaṃ tathaitasya na tyāgo na graho layaḥ॥6- 4॥
janaka uvāc॥ mayyanaṃtamahāṃbhodhau viśvapota itastataḥ। bhramati svāṃtavātena na mamāstyasahiṣṇutā॥7- 1॥
mayyanaṃtamahāṃbhodhau jagadvīciḥ svabhāvataḥ। udetu vāstamāyātu na me vṛddhirna ca kṣatiḥ॥7- 2॥
mayyanaṃtamahāṃbhodhau viśvaṃ nāma vikalpanā। atiśāṃto nirākāra etadevāhamāsthitaḥ॥7- 3॥
nātmā bhāveṣu no bhāvastatrānante niraṃjane। ityasakto ̕spṛhaḥ śānta etadevāhamāstitaḥ॥7- 4॥
aho cinmātramevāhaṃ indrajālopamaṃ jagat। iti mama kathaṃ kutra heyopādeyakalpanā॥7- 5॥
aṣṭāvakra uvāc॥ tadā bandho yadā cittaṃ kincid vāṃchati śocati। kiṃcin muṃcati gṛṇhāti kiṃcid dṛṣyati kupyati॥8- 1॥
tadā muktiryadā cittaṃ na vāṃchati na śocati। na muṃcati na gṛṇhāti na hṛṣyati na kupyati॥8- 2॥
tadā bandho yadā cittaṃ saktaṃ kāśvapi dṛṣṭiṣu। tadā mokṣo yadā cittamasaktaṃ sarvadṛṣṭiṣu॥8- 3॥
yadā nāhaṃ tadā mokṣo yadāhaṃ bandhanaṃ tadā। matveti helayā kiṃcinmā gṛhāṇa vimuṃca mā॥8- 4॥
aṣṭāvakra uvāc॥ kṛtākṛte ca dvandvāni kadā śāntāni kasya vā। evaṃ jñātveha nirvedād bhava tyāgaparo ̕vratī॥9- 1॥
kasyāpi tāta dhanyasya lokaceṣṭāvalokanāt। jīvitecchā bubhukṣā ca bubhutsopaśamaḥ gatāḥ॥9- 2॥
anityaṃ sarvamevedaṃ tāpatrayadūṣitaṃ। asaraṃ ninditaṃ heyamiti niścitya śāmyati॥9- 3॥
ko ̕sau kālo vayaḥ kiṃ vā yatra dvandvāni no nṛṇāṃ। tānyupekṣya yathāprāptavartī siddhimavāpnuyāt॥9- 4॥
nā mataṃ maharṣīṇāṃ sādhūnāṃ yogināṃ tathā। dṛṣṭvā nirvedamāpannaḥ ko na śāmyati mānavaḥ॥9- 5॥
kṛtvā mūrtiparijñānaṃ caitanyasya na kiṃ guruḥ। nirvedasamatāyuktyā yastārayati saṃsṛteḥ॥9- 6॥
paśya bhūtavikārāṃstvaṃ bhūtamātrān yathārthataḥ। tatkṣaṇād bandhanirmuktaḥ svarūpastho bhaviṣyasi॥9- 7॥
vāsanā eva saṃsāra iti sarvā vimuṃca tāḥ। tattyāgo vāsanātyāgātsthitiradya yathā tathā॥9- 8॥
aṣṭāvakra uvāc॥ vihāya vairiṇaṃ kāmamarthaṃ cānarthasaṃkulaṃ। dharmamapyetayorhetuṃ sarvatrādaraṃ kuru॥10- 1॥
svapnendrajālavat paśya dināni trīṇi paṃca vā। mitrakṣetradhanāgāradāradāyādisaṃpadaḥ॥10- 2॥
yatra yatra bhavettṛṣṇā saṃsāraṃ viddhi tatra vai। prauḍhavairāgyamāśritya vītatṛṣṇaḥ sukhī bhav॥10- 3॥
tṛṣṇāmātrātmako bandhastannāśo mokṣa ucyate। bhavāsaṃsaktimātreṇa prāptituṣṭirmuhurmuhuḥ॥10- 4॥
tvamekaścetanaḥ śuddho jaḍaṃ viśvamasattathā। avidyāpi na kiṃcitsā kā bubhutsā tathāpi te॥10- 5॥
rājyaṃ sutāḥ kalatrāṇi śarīrāṇi sukhāni c। saṃsaktasyāpi naṣṭāni tava janmani janmani॥10- 6॥
alamarthena kāmena sukṛtenāpi karmaṇā। ebhyaḥ saṃsārakāntāre na viśrāntamabhūn manaḥ॥10- 7॥
kṛtaṃ na kati janmāni kāyena manasā girā। duḥkhamāyāsadaṃ karma tadadyāpyuparamyatām॥10- 8॥
aṣṭāvakra uvāc॥ bhāvābhāvavikāraśca svabhāvāditi niścayī। nirvikāro gatakleśaḥ sukhenaivopaśāmyati॥11- 1॥
īśvaraḥ sarvanirmātā nehānya iti niścayī। antargalitasarvāśaḥ śāntaḥ kvāpi na sajjate॥11- 2॥
āpadaḥ saṃpadaḥ kāle daivādeveti niścayī। tṛptaḥ svasthendriyo nityaṃ na vānchati na śocati॥11- 3॥
sukhaduḥkhe janmamṛtyū daivādeveti niścayī। sādhyādarśī nirāyāsaḥ kurvannapi na lipyate॥11- 4॥
cintayā jāyate duḥkhaṃ nānyatheheti niścayī। tayā hīnaḥ sukhī śāntaḥ sarvatra galitaspṛhaḥ॥11- 5॥
nāhaṃ deho na me deho bodho ̕hamiti niścayī। kaivalyaṃ iva saṃprāpto na smaratyakṛtaṃ kṛtam॥11- 6॥
ābrahmastaṃbaparyantaṃ ahameveti niścayī। nirvikalpaḥ śuciḥ śāntaḥ prāptāprāptavinirvṛtaḥ॥11- 7॥
nāścaryamidaṃ viśvaṃ na kiṃciditi niścayī। nirvāsanaḥ sphūrtimātro na kiṃcidiva śāmyati॥11- 8॥
janaka uvāc॥ kāyakṛtyāsahaḥ pūrvaṃ tato vāgvistarāsahaḥ। atha cintāsahastasmād evamevāhamāsthitaḥ॥12- 1॥
prītyabhāvena śabdāderadṛśyatvena cātmanaḥ। vikṣepaikāgrahṛdaya evamevāhamāsthitaḥ॥12- 2॥
samādhyāsādivikṣiptau vyavahāraḥ samādhaye। evaṃ vilokya niyamaṃ evamevāhamāsthitaḥ॥12- 3॥
heyopādeyavirahād evaṃ harṣaviṣādayoḥ। abhāvādadya he brahmann evamevāhamāsthitaḥ॥12- 4॥
āśramānāśramaṃ dhyānaṃ cittasvīkṛtavarjanaṃ। vikalpaṃ mama vīkṣyaitairevamevāhamāsthitaḥ॥12- 5॥
karmānuṣṭhānamajñānād yathaivoparamastathā। budhvā samyagidaṃ tattvaṃ evamevāhamāsthitaḥ॥12- 6॥
aciṃtyaṃ ciṃtyamāno ̕pi cintārūpaṃ bhajatyasau। tyaktvā tadbhāvanaṃ tasmād evamevāhamāsthitaḥ॥12- 7॥
evameva kṛtaṃ yena sa kṛtārtho bhavedasau। evameva svabhāvo yaḥ sa kṛtārtho bhavedasau॥12- 8॥
janaka uvāc॥ akiṃcanabhavaṃ svāsthaṃ kaupīnatve ̕pi durlabhaṃ। tyāgādāne vihāyāsmādahamāse yathāsukham॥13- 1॥
kutrāpi khedaḥ kāyasya jihvā kutrāpi khedyate। manaḥ kutrāpi tattyaktvā puruṣārthe sthitaḥ sukham॥13- 2॥
kṛtaṃ kimapi naiva syād iti saṃcintya tattvataḥ। yadā yatkartumāyāti tat kṛtvāse yathāsukham॥13- 3॥
karmanaiṣkarmyanirbandhabhāvā dehasthayoginaḥ। saṃyogāyogavirahādahamāse yathāsukham॥13- 4॥
arthānarthau na me sthityā gatyā na śayanena vā। tiṣṭhan gacchan svapan tasmādahamāse yathāsukham॥13- 5॥
svapato nāsti me hāniḥ siddhiryatnavato na vā। nāśollāsau vihāyāsmadahamāse yathāsukham॥13- 6॥
sukhādirūpā niyamaṃ bhāveṣvālokya bhūriśaḥ। śubhāśubhe vihāyāsmādahamāse yathāsukham॥13- 7॥
janaka uvāc॥ prakṛtyā śūnyacitto yaḥ pramādād bhāvabhāvanaḥ। nidrito bodhita iva kṣīṇasaṃsmaraṇo hi saḥ॥14- 1॥
kva dhanāni kva mitrāṇi kva me viṣayadasyavaḥ। kva śāstraṃ kva ca vijñānaṃ yadā me galitā spṛhā॥14- 2॥
vijñāte sākṣipuruṣe paramātmani ceśvare। nairāśye baṃdhamokṣe ca na ciṃtā muktaye mam॥14- 3॥
aṃtarvikalpaśūnyasya bahiḥ svacchandacāriṇaḥ। bhrāntasyeva daśāstāstāstādṛśā eva jānate॥14- 4॥
aṣṭāvakra uvāc॥ yathātathopadeśena kṛtārthaḥ sattvabuddhimān। ājīvamapi jijñāsuḥ parastatra vimuhyati॥15- 1॥
mokṣo viṣayavairasyaṃ bandho vaiṣayiko rasaḥ। etāvadeva vijñānaṃ yathecchasi tathā kuru॥15- 2॥
vāgmiprājñānamahodyogaṃ janaṃ mūkajaḍālasaṃ। karoti tattvabodho ̕yamatastyakto bubhukṣabhiḥ॥15- 3॥
na tvaṃ deho na te deho bhoktā kartā na vā bhavān। cidrūpo ̕si sadā sākṣī nirapekṣaḥ sukhaṃ car॥15- 4॥
rāgadveṣau manodharmau na manaste kadācan। nirvikalpo ̕si bodhātmā nirvikāraḥ sukhaṃ car॥15- 5॥
sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani। vijñāya nirahaṃkāro nirmamastvaṃ sukhī bhav॥15- 6॥
viśvaṃ sphurati yatredaṃ taraṃgā iva sāgare। tattvameva na sandehaścinmūrte vijvaro bhav॥15- 7॥
śraddhasva tāta śraddhasva nātra mo ̕haṃ kuruṣva bhoḥ। jñānasvarūpo bhagavānātmā tvaṃ prakṛteḥ paraḥ॥15- 8॥
guṇaiḥ saṃveṣṭito dehastiṣṭhatyāyāti yāti c। ātmā na gaṃtā nāgaṃtā kimenamanuśocasi॥15- 9॥
dehastiṣṭhatu kalpāntaṃ gacchatvadyaiva vā punaḥ। kva vṛddhiḥ kva ca vā hānistava cinmātrarūpiṇaḥ॥15- 10॥
tvayyanaṃtamahāṃbhodhau viśvavīciḥ svabhāvataḥ। udetu vāstamāyātu na te vṛddhirna vā kṣatiḥ॥15- 11॥
tāta cinmātrarūpo ̕si na te bhinnamidaṃ jagat। ataḥ kasya kathaṃ kutra heyopādeyakalpanā॥15- 12॥
ekasminnavyaye śānte cidākāśe ̕male tvayi। kuto janma kuto karma kuto ̕haṃkāra eva c॥15- 13॥
yattvaṃ paśyasi tatraikastvameva pratibhāsase। kiṃ pṛthak bhāsate svarṇāt kaṭakāṃgadanūpuram॥15- 14॥
ayaṃ so ̕hamayaṃ nāhaṃ vibhāgamiti saṃtyaj। sarvamātmeti niścitya niḥsaṅkalpaḥ sukhī bhav॥15- 15॥
tavaivājñānato viśvaṃ tvamekaḥ paramārthataḥ। tvatto ̕nyo nāsti saṃsārī nāsaṃsārī ca kaścan॥15- 16॥
bhrāntimātramidaṃ viśvaṃ na kiṃciditi niścayī। nirvāsanaḥ sphūrtimātro na kiṃcidiva śāmyati॥15- 17॥
eka eva bhavāṃbhodhāvāsīdasti bhaviṣyati। na te bandho ̕sti mokṣo vā kṛtyakṛtyaḥ sukhaṃ car॥15- 18॥
mā saṅkalpavikalpābhyāṃ cittaṃ kṣobhaya cinmay। upaśāmya sukhaṃ tiṣṭha svātmanyānandavigrahe॥15- 19॥
tyajaiva dhyānaṃ sarvatra mā kiṃcid hṛdi dhāray। ātmā tvaṃ mukta evāsi kiṃ vimṛśya kariṣyasi॥15- 20॥
aṣṭāvakra uvāc॥ ācakṣva śṛṇu vā tāta nānāśāstrāṇyanekaśaḥ। tathāpi na tava svāsthyaṃ sarvavismaraṇād ṛte॥16- 1॥
bhogaṃ karma samādhiṃ vā kuru vijña tathāpi te। cittaṃ nirastasarvāśamatyarthaṃ rocayiṣyati॥16- 2॥
āyāsātsakalo duḥkhī nainaṃ jānāti kaścan। anenaivopadeśena dhanyaḥ prāpnoti nirvṛtim॥16- 3॥
vyāpāre khidyate yastu nimeṣonmeṣayorapi। tasyālasya dhurīṇasya sukhaṃ nanyasya kasyacit॥16- 4॥
idaṃ kṛtamidaṃ neti dvaṃdvairmuktaṃ yadā manaḥ। dharmārthakāmamokṣeṣu nirapekṣaṃ tadā bhavet॥16- 5॥
virakto viṣayadveṣṭā rāgī viṣayalolupaḥ। grahamokṣavihīnastu na virakto na rāgavān॥16- 6॥
heyopādeyatā tāvatsaṃsāraviṭapāṃkuraḥ। spṛhā jīvati yāvad vai nirvicāradaśāspadam॥16- 7॥
pravṛttau jāyate rāgo nirvṛttau dveṣa eva hi। nirdvandvo bālavad dhīmān evameva vyavasthitaḥ॥16- 8॥
hātumicchati saṃsāraṃ rāgī duḥkhajihāsayā। vītarāgo hi nirduḥkhastasminnapi na khidyati॥16- 9॥
yasyābhimāno mokṣe ̕pi dehe ̕pi mamatā tathā। na ca jñānī na vā yogī kevalaṃ duḥkhabhāgasau॥16- 10॥
haro yadyupadeṣṭā te hariḥ kamalajo ̕pi vā। tathāpi na tava svāthyaṃ sarvavismaraṇādṛte॥16- 11॥
aṣṭāvakra uvāc॥ tena jñānaphalaṃ prāptaṃ yogābhyāsaphalaṃ tathā। tṛptaḥ svacchendriyo nityaṃ ekākī ramate tu yaḥ॥17- 1॥
na kadācijjagatyasmin tattvajñā hanta khidyati। yata ekena tenedaṃ pūrṇaṃ brahmāṇḍamaṇḍalam॥17- 2॥
na jātu viṣayāḥ ke ̕pi svārāmaṃ harṣayantyamī। sallakīpallavaprītamivebhaṃ niṃbapallavāḥ॥17- 3॥
yastu bhogeṣu bhukteṣu na bhavatyadhivāsitā। abhukteṣu nirākāṃkṣī tadṛśo bhavadurlabhaḥ॥17- 4॥
bubhukṣuriha saṃsāre mumukṣurapi dṛśyate। bhogamokṣanirākāṃkṣī viralo hi mahāśayaḥ॥17- 5॥
dharmārthakāmamokṣeṣu jīvite maraṇe tathā। kasyāpyudāracittasya heyopādeyatā na hi॥17- 6॥
vāṃchā na viśvavilaye na dveṣastasya ca sthitau। yathā jīvikayā tasmād dhanya āste yathā sukham॥17- 7॥
kṛtārtho ̕nena jñānenetyevaṃ galitadhīḥ kṛtī। paśyan śṛṇvan spṛśan jighrann aśnannaste yathā sukham॥17- 8॥
śūnyā dṛṣṭirvṛthā ceṣṭā vikalānīndriyāṇi c। na spṛhā na viraktirvā kṣīṇasaṃsārasāgare॥17- 9॥
na jagarti na nidrāti nonmīlati na mīlati। aho paradaśā kvāpi vartate muktacetasaḥ॥17- 10॥
sarvatra dṛśyate svasthaḥ sarvatra vimalāśayaḥ। samastavāsanā mukto muktaḥ sarvatra rājate॥17- 11॥
paśyan śṛṇvan spṛśan jighrann aśnan gṛṇhan vadan vrajan। īhitānīhitairmukto mukta eva mahāśayaḥ॥17- 12॥
na nindati na ca stauti na hṛṣyati na kupyati। na dadāti na gṛṇhāti muktaḥ sarvatra nīrasaḥ॥17- 13॥
sānurāgāṃ striyaṃ dṛṣṭvā mṛtyuṃ vā samupasthitaṃ। avihvalamanāḥ svastho mukta eva mahāśayaḥ॥17- 14॥
sukhe duḥkhe nare nāryāṃ saṃpatsu vipatsu c। viśeṣo naiva dhīrasya sarvatra samadarśinaḥ॥17- 15॥
na hiṃsā naiva kāruṇyaṃ nauddhatyaṃ na ca dīnatā। nāścaryaṃ naiva ca kṣobhaḥ kṣīṇasaṃsaraṇe nare॥17- 16॥
na mukto viṣayadveṣṭā na vā viṣayalolupaḥ। asaṃsaktamanā nityaṃ prāptāprāptamupāśnute॥17- 17॥
samādhānasamādhānahitāhitavikalpanāḥ। śūnyacitto na jānāti kaivalyamiva saṃsthitaḥ॥17- 18॥
nirmamo nirahaṃkāro na kiṃciditi niścitaḥ। antargalitasarvāśaḥ kurvannapi karoti n॥17- 19॥
manaḥprakāśasaṃmohasvapnajāḍyavivarjitaḥ। daśāṃ kāmapi saṃprāpto bhaved galitamānasaḥ॥17- 20॥
aṣṭāvakra uvāc॥ yasya bodhodaye tāvatsvapnavad bhavati bhramaḥ। tasmai sukhaikarūpāya namaḥ śāntāya tejase॥18- 1॥
arjayitvākhilān arthān bhogānāpnoti puṣkalān। na hi sarvaparityājamantareṇa sukhī bhavet॥18- 2॥
kartavyaduḥkhamārtaṇḍajvālādagdhāntarātmanaḥ। kutaḥ praśamapīyūṣadhārāsāramṛte sukham॥18- 3॥
bhavo ̕yaṃ bhāvanāmātro na kiṃcit paramarthataḥ। nāstyabhāvaḥ svabhāvanāṃ bhāvābhāvavibhāvinām॥18- 4॥
na dūraṃ na ca saṃkocāllabdhamevātmanaḥ padaṃ। nirvikalpaṃ nirāyāsaṃ nirvikāraṃ niraṃjanam॥18- 5॥
vyāmohamātraviratau svarūpādānamātrataḥ। vītaśokā virājante nirāvaraṇadṛṣṭayaḥ॥18- 6॥
samastaṃ kalpanāmātramātmā muktaḥ sanātanaḥ। iti vijñāya dhīro hi kimabhyasyati bālavat॥18- 7॥
ātmā brahmeti niścitya bhāvābhāvau ca kalpitau। niṣkāmaḥ kiṃ vijānāti kiṃ brūte ca karoti kim॥18- 8॥
ayaṃ so ̕hamayaṃ nāhaṃ iti kṣīṇā vikalpanā। sarvamātmeti niścitya tūṣṇīṃbhūtasya yoginaḥ॥18- 9॥
na vikṣepo na caikāgryaṃ nātibodho na mūḍhatā। na sukhaṃ na ca vā duḥkhaṃ upaśāntasya yoginaḥ॥18- 10॥
svārājye bhaikṣavṛttau ca lābhālābhe jane vane। nirvikalpasvabhāvasya na viśeṣo ̕sti yoginaḥ॥18- 11॥
kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā। idaṃ kṛtamidaṃ neti dvandvairmuktasya yoginaḥ॥18- 12॥
kṛtyaṃ kimapi naivāsti na kāpi hṛdi raṃjanā। yathā jīvanameveha jīvanmuktasya yoginaḥ॥18- 13॥
kva mohaḥ kva ca vā viśvaṃ kva tad dhyānaṃ kva muktatā। sarvasaṃkalpasīmāyāṃ viśrāntasya mahātmanaḥ॥18- 14॥
yena viśvamidaṃ dṛṣṭaṃ sa nāstīti karotu vai। nirvāsanaḥ kiṃ kurute paśyannapi na paśyati॥18- 15॥
yena dṛṣṭaṃ paraṃ brahma so ̕haṃ brahmeti cintayet। kiṃ cintayati niścinto dvitīyaṃ yo na paśyati॥18- 16॥
dṛṣṭo yenātmavikṣepo nirodhaṃ kurute tvasau। udārastu na vikṣiptaḥ sādhyābhāvātkaroti kim॥18- 17॥
dhīro lokaviparyasto vartamāno ̕pi lokavat। no samādhiṃ na vikṣepaṃ na lopaṃ svasya paśyati॥18- 18॥
bhāvābhāvavihīno yastṛpto nirvāsano budhaḥ। naiva kiṃcitkṛtaṃ tena lokadṛṣṭyā vikurvatā॥18- 19॥
pravṛttau vā nivṛttau vā naiva dhīrasya durgrahaḥ। yadā yatkartumāyāti tatkṛtvā tiṣṭhate sukham॥18- 20॥
nirvāsano nirālaṃbaḥ svacchando muktabandhanaḥ। kṣiptaḥ saṃskāravātena ceṣṭate śuṣkaparṇavat॥18- 21॥
asaṃsārasya tu kvāpi na harṣo na viṣāditā। sa śītalahamanā nityaṃ videha iva rājaye॥18- 22॥
kutrāpi na jihāsāsti nāśo vāpi na kutracit। ātmārāmasya dhīrasya śītalācchatarātmanaḥ॥18- 23॥
prakṛtyā śūnyacittasya kurvato ̕sya yadṛcchayā। prākṛtasyeva dhīrasya na māno nāvamānatā॥18- 24॥
kṛtaṃ dehena karmedaṃ na mayā śuddharūpiṇā। iti cintānurodhī yaḥ kurvannapi karoti n॥18- 25॥
atadvādīva kurute na bhavedapi bāliśaḥ। jīvanmuktaḥ sukhī śrīmān saṃsarannapi śobhate॥18- 26॥
nāvicārasuśrānto dhīro viśrāntimāgataḥ। na kalpate na jāti na śṛṇoti na paśyati॥18- 27॥
asamādheravikṣepān na mumukṣurna cetaraḥ। niścitya kalpitaṃ paśyan brahmaivāste mahāśayaḥ॥18- 28॥
yasyāntaḥ syādahaṃkāro na karoti karoti saḥ। nirahaṃkāradhīreṇa na kiṃcidakṛtaṃ kṛtam॥18- 29॥
nodvignaṃ na ca santuṣṭamakartṛ spandavarjitaṃ। nirāśaṃ gatasandehaṃ cittaṃ muktasya rājate॥18- 30॥
nirdhyātuṃ ceṣṭituṃ vāpi yaccittaṃ na pravartate। nirnimittamidaṃ kiṃtu nirdhyāyeti viceṣṭate॥18- 31॥
tattvaṃ yathārthamākarṇya mandaḥ prāpnoti mūḍhatāṃ। athavā yāti saṃkocamamūḍhaḥ ko ̕pi mūḍhavat॥18- 32॥
ekāgratā nirodho vā mūḍhairabhyasyate bhṛśaṃ। dhīrāḥ kṛtyaṃ na paśyanti suptavatsvapade sthitāḥ॥18- 33॥
aprayatnāt prayatnād vā mūḍho nāpnoti nirvṛtiṃ। tattvaniścayamātreṇa prājño bhavati nirvṛtaḥ॥18- 34॥
śuddhaṃ buddhaṃ priyaṃ pūrṇaṃ niṣprapaṃcaṃ nirāmayaṃ। ātmānaṃ taṃ na jānanti tatrābhyāsaparā janāḥ॥18- 35॥
nāpnoti karmaṇā mokṣaṃ vimūḍho ̕bhyāsarūpiṇā। dhanyo vijñānamātreṇa muktastiṣṭhatyavikriyaḥ॥18- 36॥
mūḍho nāpnoti tad brahma yato bhavitumicchati। anicchannapi dhīro hi parabrahmasvarūpabhāk॥18- 37॥
nirādhārā grahavyagrā mūḍhāḥ saṃsārapoṣakāḥ। etasyānarthamūlasya mūlacchedaḥ kṛto budhaiḥ॥18- 38॥
na śāntiṃ labhate mūḍho yataḥ śamitumicchati। dhīrastattvaṃ viniścitya sarvadā śāntamānasaḥ॥18- 39॥
kvātmano darśanaṃ tasya yad dṛṣṭamavalaṃbate। dhīrāstaṃ taṃ na paśyanti paśyantyātmānamavyayam॥18- 40॥
kva nirodho vimūḍhasya yo nirbandhaṃ karoti vai। svārāmasyaiva dhīrasya sarvadāsāvakṛtrimaḥ॥18- 41॥
bhāvasya bhāvakaḥ kaścin na kiṃcid bhāvakoparaḥ। ubhayābhāvakaḥ kaścid evameva nirākulaḥ॥18- 42॥
śuddhamadvayamātmānaṃ bhāvayanti kubuddhayaḥ। na tu jānanti saṃmohādyāvajjīvamanirvṛtāḥ॥18- 43॥
mumukṣorbuddhirālaṃbamantareṇa na vidyate। nirālaṃbaiva niṣkāmā buddhirmuktasya sarvadā॥18- 44॥
viṣayadvīpino vīkṣya cakitāḥ śaraṇārthinaḥ। viśanti jhaṭiti kroḍaṃ nirodhaikāgrasiddhaye॥18- 45॥
nirvāsanaṃ hariṃ dṛṣṭvā tūṣṇīṃ viṣayadantinaḥ। palāyante na śaktāste sevante kṛtacāṭavaḥ॥18- 46॥
na muktikārikāṃ dhatte niḥśaṅko yuktamānasaḥ। paśyan śṛṇvan spṛśan jighrannaśnannāste yathāsukham॥18- 47॥
vastuśravaṇamātreṇa śuddhabuddhirnirākulaḥ। naivācāramanācāramaudāsyaṃ vā prapaśyati॥18- 48॥
yadā yatkartumāyāti tadā tatkurute ṛjuḥ। śubhaṃ vāpyaśubhaṃ vāpi tasya ceṣṭā hi bālavat॥18- 49॥
svātaṃtryātsukhamāpnoti svātaṃtryāllabhate paraṃ। svātaṃtryānnirvṛtiṃ gacchetsvātaṃtryāt paramaṃ padam॥18- 50॥
akartṛtvamabhoktṛtvaṃ svātmano manyate yadā। tadā kṣīṇā bhavantyeva samastāścittavṛttayaḥ॥18- 51॥
ucchṛṃkhalāpyakṛtikā sthitirdhīrasya rājate। na tu saspṛhacittasya śāntirmūḍhasya kṛtrimā॥18- 52॥
vilasanti mahābhogairviśanti girigahvarān। nirastakalpanā dhīrā abaddhā muktabuddhayaḥ॥18- 53॥
śrotriyaṃ devatāṃ tīrthamaṅganāṃ bhūpatiṃ priyaṃ। dṛṣṭvā saṃpūjya dhīrasya na kāpi hṛdi vāsanā॥18- 54॥
bhṛtyaiḥ putraiḥ kalatraiśca dauhitraiścāpi gotrajaiḥ। vihasya dhikkṛto yogī na yāti vikṛtiṃ manāk॥18- 55॥
santuṣṭo ̕pi na santuṣṭaḥ khinno ̕pi na ca khidyate। tasyāścaryadaśāṃ tāṃ tāṃ tādṛśā eva jānate॥18- 56॥
kartavyataiva saṃsāro na tāṃ paśyanti sūrayaḥ। śūnyākārā nirākārā nirvikārā nirāmayāḥ॥18- 57॥
akurvannapi saṃkṣobhād vyagraḥ sarvatra mūḍhadhīḥ। kurvannapi tu kṛtyāni kuśalo hi nirākulaḥ॥18- 58॥
sukhamāste sukhaṃ śete sukhamāyāti yāti c। sukhaṃ vakti sukhaṃ bhuṃkte vyavahāre ̕pi śāntadhīḥ॥18- 59॥
svabhāvādyasya naivārtirlokavad vyavahāriṇaḥ। mahāhṛda ivākṣobhyo gatakleśaḥ sa śobhate॥18- 60॥
nivṛttirapi mūḍhasya pravṛtti rupajāyate। pravṛttirapi dhīrasya nivṛttiphalabhāginī॥18- 61॥
parigraheṣu vairāgyaṃ prāyo mūḍhasya dṛśyate। dehe vigalitāśasya kva rāgaḥ kva virāgatā॥18- 62॥
bhāvanābhāvanāsaktā dṛṣṭirmūḍhasya sarvadā। bhāvyabhāvanayā sā tu svasthasyādṛṣṭirūpiṇī॥18- 63॥
sarvāraṃbheṣu niṣkāmo yaścared bālavan muniḥ। na lepastasya śuddhasya kriyamāṇo ̕pi karmaṇi॥18- 64॥
sa eva dhanya ātmajñaḥ sarvabhāveṣu yaḥ samaḥ। paśyan śṛṇvan spṛśan jighrann aśnannistarṣamānasaḥ॥18- 65॥
kva saṃsāraḥ kva cābhāsaḥ kva sādhyaṃ kva ca sādhanaṃ। ākāśasyeva dhīrasya nirvikalpasya sarvadā॥18- 66॥
sa jayatyarthasaṃnyāsī pūrṇasvarasavigrahaḥ। akṛtrimo ̕navacchinne samādhiryasya vartate॥18- 67॥
bahunātra kimuktena jñātatattvo mahāśayaḥ। bhogamokṣanirākāṃkṣī sadā sarvatra nīrasaḥ॥18- 68॥
mahadādi jagaddvaitaṃ nāmamātravijṛṃbhitaṃ। vihāya śuddhabodhasya kiṃ kṛtyamavaśiṣyate॥18- 69॥
bhramabhṛtamidaṃ sarvaṃ kiṃcinnāstīti niścayī। alakṣyasphuraṇaḥ śuddhaḥ svabhāvenaiva śāmyati॥18- 70॥
śuddhasphuraṇarūpasya dṛśyabhāvamapaśyataḥ। kva vidhiḥ kva vairāgyaṃ kva tyāgaḥ kva śamo ̕pi vā॥18- 71॥
sphurato ̕nantarūpeṇa prakṛtiṃ ca na paśyataḥ। kva bandhaḥ kva ca vā mokṣaḥ kva harṣaḥ kva viṣāditā॥18- 72॥
buddhiparyantasaṃsāre māyāmātraṃ vivartate। nirmamo nirahaṃkāro niṣkāmaḥ śobhate budhaḥ॥18- 73॥
akṣayaṃ gatasantāpamātmānaṃ paśyato muneḥ। kva vidyā ca kva vā viśvaṃ kva deho ̕haṃ mameti vā॥18- 74॥
nirodhādīni karmāṇi jahāti jaḍadhīryadi। manorathān pralāpāṃśca kartumāpnotyatatkṣaṇāt॥18- 75॥
mandaḥ śrutvāpi tadvastu na jahāti vimūḍhatāṃ। nirvikalpo bahiryatnādantarviṣayalālasaḥ॥18- 76॥
jñānād galitakarmā yo lokadṛṣṭyāpi karmakṛt। nāpnotyavasaraṃ karmaṃ vaktumeva na kiṃcan॥18- 77॥
kva tamaḥ kva prakāśo vā hānaṃ kva ca na kiṃcan। nirvikārasya dhīrasya nirātaṃkasya sarvadā॥18- 78॥
kva dhairyaṃ kva vivekitvaṃ kva nirātaṃkatāpi vā। anirvācyasvabhāvasya niḥsvabhāvasya yoginaḥ॥18- 79॥
na svargo naiva narako jīvanmuktirna caiva hi। bahunātra kimuktena yogadṛṣṭyā na kiṃcan॥18- 80॥
naiva prārthayate lābhaṃ nālābhenānuśocati। dhīrasya śītalaṃ cittamamṛtenaiva pūritam॥18- 81॥
na śāntaṃ stauti niṣkāmo na duṣṭamapi nindati। samaduḥkhasukhastṛptaḥ kiṃcit kṛtyaṃ na paśyati॥18- 82॥
dhīro na dveṣṭi saṃsāramātmānaṃ na didṛkṣati। harṣāmarṣavinirmukto na mṛto na ca jīvati॥18- 83॥
niḥsnehaḥ putradārādau niṣkāmo viṣayeṣu c। niścintaḥ svaśarīre ̕pi nirāśaḥ śobhate budhaḥ॥18- 84॥
tuṣṭiḥ sarvatra dhīrasya yathāpatitavartinaḥ। svacchandaṃ carato deśān yatrastamitaśāyinaḥ॥18- 85॥
patatūdetu vā deho nāsya cintā mahātmanaḥ। svabhāvabhūmiviśrāntivismṛtāśeṣasaṃsṛteḥ॥18- 86॥
akiṃcanaḥ kāmacāro nirdvandvaśchinnasaṃśayaḥ। asaktaḥ sarvabhāveṣu kevalo ramate budhaḥ॥18- 87॥
nirmamaḥ śobhate dhīraḥ samaloṣṭāśmakāṃcanaḥ। subhinnahṛdayagranthirvinirdhūtarajastamaḥ॥18- 88॥
sarvatrānavadhānasya na kiṃcid vāsanā hṛdi। muktātmano vitṛptasya tulanā kena jāyate॥18- 89॥
jānannapi na jānāti paśyannapi na paśyati। bruvann api na ca brūte ko ̕nyo nirvāsanādṛte॥18- 90॥
bhikṣurvā bhūpatirvāpi yo niṣkāmaḥ sa śobhate। bhāveṣu galitā yasya śobhanāśobhanā matiḥ॥18- 91॥
kva svācchandyaṃ kva saṃkocaḥ kva vā tattvaviniścayaḥ। nirvyājārjavabhūtasya caritārthasya yoginaḥ॥18- 92॥
ātmaviśrāntitṛptena nirāśena gatārtinā। antaryadanubhūyeta tat kathaṃ kasya kathyate॥18- 93॥
supto ̕pi na suṣuptau ca svapne ̕pi śayito na c। jāgare ̕pi na jāgarti dhīrastṛptaḥ pade pade॥18- 94॥
jñaḥ sacinto ̕pi niścintaḥ sendriyo ̕pi nirindriyaḥ। subuddhirapi nirbuddhiḥ sāhaṃkāro ̕nahaṅkṛtiḥ॥18- 95॥
na sukhī na ca vā duḥkhī na virakto na saṃgavān। na mumukṣurna vā muktā na kiṃcinnna ca kiṃcan॥18- 96॥
vikṣepe ̕pi na vikṣiptaḥ samādhau na samādhimān। jāḍye ̕pi na jaḍo dhanyaḥ pāṇḍitye ̕pi na paṇḍitaḥ॥18- 97॥
mukto yathāsthitisvasthaḥ kṛtakartavyanirvṛtaḥ। samaḥ sarvatra vaitṛṣṇyānna smaratyakṛtaṃ kṛtam॥18- 98॥
na prīyate vandyamāno nindyamāno na kupyati। naivodvijati maraṇe jīvane nābhinandati॥18- 99॥
na dhāvati janākīrṇaṃ nāraṇyaṃ upaśāntadhīḥ। yathātathā yatratatra sama evāvatiṣṭhate॥18- 100॥
janaka uvāc॥ tattvavijñānasandaṃśamādāya hṛdayodarāt। nāvidhaparāmarśaśalyoddhāraḥ kṛto mayā॥19- 1॥
kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā। kva dvaitaṃ kva ca vā ̕dvaitaṃ svamahimni sthitasya me॥19- 2॥
kva bhūtaṃ kva bhaviṣyad vā vartamānamapi kva vā। kva deśaḥ kva ca vā nityaṃ svamahimni sthitasya me॥19- 3॥
kva cātmā kva ca vānātmā kva śubhaṃ kvāśubhaṃ yathā। kva cintā kva ca vācintā svamahimni sthitasya me॥19- 4॥
kva svapnaḥ kva suṣuptirvā kva ca jāgaraṇaṃ tathā। kva turiyaṃ bhayaṃ vāpi svamahimni sthitasya me॥19- 5॥
kva dūraṃ kva samīpaṃ vā bāhyaṃ kvābhyantaraṃ kva vā। kva sthūlaṃ kva ca vā sūkṣmaṃ svamahimni sthitasya me॥19- 6॥
kva mṛtyurjīvitaṃ vā kva lokāḥ kvāsya kva laukikaṃ। kva layaḥ kva samādhirvā svamahimni sthitasya me॥19- 7॥
alaṃ trivargakathayā yogasya kathayāpyalaṃ। alaṃ vijñānakathayā viśrāntasya mamātmani॥19- 8॥
janaka uvāc॥ kva bhūtāni kva deho vā kvendriyāṇi kva vā manaḥ। kva śūnyaṃ kva ca nairāśyaṃ matsvarūpe niraṃjane॥20- 1॥
kva śāstraṃ kvātmavijñānaṃ kva vā nirviṣayaṃ manaḥ। kva tṛptiḥ kva vitṛṣṇātvaṃ gatadvandvasya me sadā॥20- 2॥
kva vidyā kva ca vāvidyā kvāhaṃ kvedaṃ mama kva vā। kva bandha kva ca vā mokṣaḥ svarūpasya kva rūpitā॥20- 3॥
kva prārabdhāni karmāṇi jīvanmuktirapi kva vā। kva tad videhakaivalyaṃ nirviśeṣasya sarvadā॥20- 4॥
kva kartā kva ca vā bhoktā niṣkriyaṃ sphuraṇaṃ kva vā। kvāparokṣaṃ phalaṃ vā kva niḥsvabhāvasya me sadā॥20- 5॥
kva lokaṃ kva mumukṣurvā kva yogī jñānavān kva vā। kva baddhaḥ kva ca vā muktaḥ svasvarūpe ̕hamadvaye॥20- 6॥
kva sṛṣṭiḥ kva ca saṃhāraḥ kva sādhyaṃ kva ca sādhanaṃ। kva sādhakaḥ kva siddhirvā svasvarūpe ̕hamadvaye॥20- 7॥
kva pramātā pramāṇaṃ vā kva prameyaṃ kva ca pramā। kva kiṃcit kva na kiṃcid vā sarvadā vimalasya me॥20- 8॥
kva vikṣepaḥ kva caikāgryaṃ kva nirbodhaḥ kva mūḍhatā। kva harṣaḥ kva viṣādo vā sarvadā niṣkriyasya me॥20- 9॥
kva caiṣa vyavahāro vā kva ca sā paramārthatā। kva sukhaṃ kva ca vā dukhaṃ nirvimarśasya me sadā॥20- 10॥
kva māyā kva ca saṃsāraḥ kva prītirviratiḥ kva vā। kva jīvaḥ kva ca tadbrahma sarvadā vimalasya me॥20- 11॥
kva pravṛttirnirvṛttirvā kva muktiḥ kva ca bandhanaṃ। kūṭasthanirvibhāgasya svasthasya mama sarvadā॥20- 12॥
kvopadeśaḥ kva vā śāstraṃ kva śiṣyaḥ kva ca vā guruḥ। kva cāsti puruṣārtho vā nirupādheḥ śivasya me॥20- 13॥
kva cāsti kva ca vā nāsti kvāsti caikaṃ kva ca dvayaṃ। bahunātra kimuktena kiṃcinnottiṣṭhate mam॥20- 14॥
॥om tatsat॥
|
|